chevron_left शान्ति पर्व अध्याय १८३
भृगुरु उवाच:
सत्यं व्रह्म तपः सत्यं सत्यं सृजति च प्रजाः |
१ क
भृगुरु उवाच:
सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ||
१ ख
भृगुरु उवाच:
अनृतं तमसो रूपं तमसा नीय़ते ह्यधः |
२ क
भृगुरु उवाच:
तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् ||
२ ख
भृगुरु उवाच:
स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च |
३ क
भृगुरु उवाच:
सत्यानृतात्तदुभय़ं प्राप्यते जगतीचरैः ||
३ ख
भृगुरु उवाच:
तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् |
४ क
भृगुरु उवाच:
धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा ||
४ ख
भृगुरु उवाच:
तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति |
५ क
भृगुरु उवाच:
तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति ||
५ ख
भृगुरु उवाच:
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदय़ैः |
६ क
भृगुरु उवाच:
लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ||
६ ख
भृगुरु उवाच:
तत्र दुःखविमोक्षार्थं प्रय़तेत विचक्षणः |
७ क
भृगुरु उवाच:
सुखं ह्यनित्यं भूतानामिह लोके परत्र च ||
७ ख
भृगुरु उवाच:
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते |
८ क
भृगुरु उवाच:
तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् ||
८ ख
भृगुरु उवाच:
इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तय़ः सुखार्था अभिधीय़न्ते |
९ क
भृगुरु उवाच:
सुखप्रय़ोजना भरद्वाज उवाच ||
९ ख
भृगुरु उवाच:
भृगुरुवाच ||
१० क
भृगुरु उवाच:
क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते |
११ क
भृगुरु उवाच:
मानसैः शोकैरभिभूय़न्ते जरामृत्युकृतैश्चान्यैरिति ||
११ ख
भृगुरु उवाच:
यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद |
१२ क
भृगुरु उवाच:
न चैते दोषाः स्वर्गे प्रादुर्भवन्ति तत्र भवति खलु ||
१२ ख
भृगुरु उवाच:
सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा |
१३ क
भृगुरु उवाच:
क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् ||
१३ ख
भृगुरु उवाच:
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभय़म् |
१४ क
भृगुरु उवाच:
नरके दुःखमेवाहुः समं तु परमं पदम् ||
१४ ख
भृगुरु उवाच:
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रिय़ः |
१५ क
भृगुरु उवाच:
पुमान्प्रजापतिस्तत्र शुक्रं तेजोमय़ं विदुः ||
१५ ख
भृगुरु उवाच:
इत्येतल्लोकनिर्माणं व्रह्मणा विहितं पुरा |
१६ क
भृगुरु उवाच:
प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः ||
१६ ख