वैशम्पाय़न उवाच:
धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ |
१ क
वैशम्पाय़न उवाच:
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ||
१ ख
वैशम्पाय़न उवाच:
सोऽज्ञाय़मानः पुरुषानवधाय़ समन्ततः |
२ क
वैशम्पाय़न उवाच:
स्वय़मारान्निविष्टोऽभूद्भार्गवस्य निवेशने ||
२ ख
वैशम्पाय़न उवाच:
साय़ेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ |
३ क
वैशम्पाय़न उवाच:
भैक्षं चरित्वा तु युधिष्ठिराय़; निवेदय़ां चक्रुरदीनसत्त्वाः ||
३ ख
वैशम्पाय़न उवाच:
ततस्तु कुन्ती द्रुपदात्मजां ता; मुवाच काले वचनं वदान्या |
४ क
वैशम्पाय़न उवाच:
अतोऽग्रमादाय़ कुरुष्व भद्रे; वलिं च विप्राय़ च देहि भिक्षाम् ||
४ ख
वैशम्पाय़न उवाच:
ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः |
५ क
वैशम्पाय़न उवाच:
ततश्च शेषं प्रविभज्य शीघ्र; मर्धं चतुर्णां मम चात्मनश्च ||
५ ख
वैशम्पाय़न उवाच:
अर्धं च भीमाय़ ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः |
६ क
वैशम्पाय़न उवाच:
श्यामो युवा संहननोपपन्न; एषो हि वीरो वहुभुक्सदैव ||
६ ख
वैशम्पाय़न उवाच:
सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना |
७ क
वैशम्पाय़न उवाच:
यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम् ||
७ ख
वैशम्पाय़न उवाच:
कुशैस्तु भूमौ शय़नं चकार; माद्रीसुतः सहदेवस्तरस्वी |
८ क
वैशम्पाय़न उवाच:
यथात्मीय़ान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम् ||
८ ख
वैशम्पाय़न उवाच:
अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् |
९ क
वैशम्पाय़न उवाच:
कुन्ती पुरस्तात्तु वभूव तेषां; कृष्णा तिरश्चैव वभूव पत्तः ||
९ ख
वैशम्पाय़न उवाच:
अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु |
१० क
वैशम्पाय़न उवाच:
न तत्र दुःखं च वभूव तस्या; न चावमेने कुरुपुङ्गवांस्तान् ||
१० ख
वैशम्पाय़न उवाच:
ते तत्र शूराः कथय़ां वभूवुः; कथा विचित्राः पृतनाधिकाराः |
११ क
वैशम्पाय़न उवाच:
अस्त्राणि दिव्यानि रथांश्च नागा; न्खड्गान्गदाश्चापि परश्वधांश्च ||
११ ख
वैशम्पाय़न उवाच:
तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम् |
१२ क
वैशम्पाय़न उवाच:
शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः ||
१२ ख
वैशम्पाय़न उवाच:
धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ |
१३ क
वैशम्पाय़न उवाच:
सर्वं राज्ञे द्रुपदाय़ाखिलेन; निवेदय़िष्यंस्त्वरितो जगाम ||
१३ ख
वैशम्पाय़न उवाच:
पाञ्चालराजस्तु विषण्णरूप; स्तान्पाण्डवानप्रतिविन्दमानः |
१४ क
वैशम्पाय़न उवाच:
धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा ||
१४ ख
वैशम्पाय़न उवाच:
कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना |
१५ क
वैशम्पाय़न उवाच:
कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने ||
१५ ख
वैशम्पाय़न उवाच:
कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित् |
१६ क
वैशम्पाय़न उवाच:
कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र ||
१६ ख
वैशम्पाय़न उवाच:
कच्चिच्च यक्ष्ये परमप्रतीतः; संय़ुज्य पार्थेन नरर्षभेण |
१७ क
वैशम्पाय़न उवाच:
व्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य ||
१७ ख
वैशम्पाय़न उवाच:
विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः |
१८ क
वैशम्पाय़न उवाच:
कच्चित्तु पार्थेन यवीय़साद्य; धनुर्गृहीतं निहतं च लक्ष्यम् ||
१८ ख