भरद्वाज उवाच:
दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च |
१ क
भरद्वाज उवाच:
तपसश्च सुतप्तस्य स्वाध्याय़स्य हुतस्य च ||
१ ख
भृगुरु उवाच:
हुतेन शाम्यते पापं स्वाध्याय़े शान्तिरुत्तमा |
२ क
भृगुरु उवाच:
दानेन भोग इत्याहुस्तपसा सर्वमाप्नुय़ात् ||
२ ख
भृगुरु उवाच:
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च |
३ क
भृगुरु उवाच:
सद्भ्यो यद्दीय़ते किञ्चित्तत्परत्रोपतिष्ठति ||
३ ख
भृगुरु उवाच:
असत्सु दीय़ते यत्तु तद्दानमिह भुज्यते |
४ क
भृगुरु उवाच:
यादृशं दीय़ते दानं तादृशं फलमाप्यते ||
४ ख
भरद्वाज उवाच:
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् |
५ क
भरद्वाज उवाच:
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ||
५ ख
भृगुरु उवाच:
स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः |
६ क
भृगुरु उवाच:
तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति ||
६ ख
भरद्वाज उवाच:
यदेतच्चातुराश्रम्यं व्रह्मर्षिविहितं पुरा |
७ क
भरद्वाज उवाच:
तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि ||
७ ख
भृगुरु उवाच:
गुरुप्रसादलव्धस्वाध्याय़तत्परः स्यात् ||
८ क
भृगुरु उवाच:
भवति चात्र श्लोकः गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुय़ात् |
९ क
भृगुरु उवाच:
तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम् ||
९ ख
भृगुरु उवाच:
भिक्षावलिसंविभागाः प्रवर्तन्ते ||
१० क
भृगुरु उवाच:
भवति चात्र श्लोकः अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते |
१२ क
भृगुरु उवाच:
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय़ गच्छति ||
१२ ख
भृगुरु उवाच:
वेदाभ्यासश्रवणधारणेन ऋषय़ः अपत्योत्पादनेन प्रजापतिरिति ||
१३ क
भृगुरु उवाच:
वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः |
१४ क
भृगुरु उवाच:
परिवादोपघातौ च पारुष्यं चात्र गर्हितम् ||
१४ ख
भृगुरु उवाच:
अवज्ञानमहङ्कारो दम्भश्चैव विगर्हितः |
१५ क
भृगुरु उवाच:
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ||
१५ ख
भृगुरु उवाच:
स्वदारविहारसन्तोषः कामसुखावाप्तिरिति ||
१६ क
भृगुरु उवाच:
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे |
१७ क
भृगुरु उवाच:
स सुखान्यनुभूय़ेह शिष्टानां गतिमाप्नुय़ात् ||
१७ ख
भृगुरु उवाच:
उञ्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः |
१८ क
भृगुरु उवाच:
त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः ||
१८ ख