मार्कण्डेय़ उवाच:
अत्रैव च सरस्वत्या गीतं परपुरञ्जय़ |
१ क
मार्कण्डेय़ उवाच:
पृष्टय़ा मुनिना वीर शृणु तार्क्ष्येण धीमता ||
१ ख
तार्क्ष्य उवाच:
किं नु श्रेय़ः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात् |
२ क
तार्क्ष्य उवाच:
आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वय़ानुशिष्टो न च्यवेय़ं स्वधर्मात् ||
२ ख
तार्क्ष्य उवाच:
कथं चाग्निं जुहुय़ां पूजय़े वा; कस्मिन्काले केन धर्मो न नश्येत् |
३ क
तार्क्ष्य उवाच:
एतत्सर्वं सुभगे प्रव्रवीहि; यथा लोकान्विरजाः सञ्चरेय़म् ||
३ ख
मार्कण्डेय़ उवाच:
एवं पृष्टा प्रीतिय़ुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमवुद्धिय़ुक्तम् |
४ क
मार्कण्डेय़ उवाच:
तार्क्ष्यं विप्रं धर्मय़ुक्तं हितं च; सरस्वती वाक्यमिदं वभाषे ||
४ ख
सरस्वत्यु उवाच:
यो व्रह्म जानाति यथाप्रदेशं; स्वाध्याय़नित्यः शुचिरप्रमत्तः |
५ क
सरस्वत्यु उवाच:
स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुय़ात्प्रीतिय़ोगम् ||
५ ख
सरस्वत्यु उवाच:
तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः |
६ क
सरस्वत्यु उवाच:
अकर्दमा मीनवत्यः सुतीर्था; हिरण्मय़ैरावृताः पुण्डरीकैः ||
६ ख
सरस्वत्यु उवाच:
तासां तीरेष्वासते पुण्यकर्मा; महीय़मानः पृथगप्सरोभिः |
७ क
सरस्वत्यु उवाच:
सुपुण्यगन्धाभिरलङ्कृताभि; र्हिरण्यवर्णाभिरतीव हृष्टः ||
७ ख
सरस्वत्यु उवाच:
परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति |
८ क
सरस्वत्यु उवाच:
वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति ||
८ ख
सरस्वत्यु उवाच:
धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलाय़िनीं च |
९ क
सरस्वत्यु उवाच:
यावन्ति रोमाणि भवन्ति तस्या; स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ||
९ ख
सरस्वत्यु उवाच:
अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम् |
१० क
सरस्वत्यु उवाच:
धुरन्धरं वलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य ||
१० ख
सरस्वत्यु उवाच:
यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः |
११ क
सरस्वत्यु उवाच:
सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः ||
११ ख
तार्क्ष्य उवाच:
किमग्निहोत्रस्य व्रतं पुराण; माचक्ष्व मे पृच्छतश्चारुरूपे |
१२ क
तार्क्ष्य उवाच:
त्वय़ानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम् ||
१२ ख
सरस्वत्यु उवाच:
न चाशुचिर्नाप्यनिर्णिक्तपाणि; र्नाव्रह्मविज्जुहुय़ान्नाविपश्चित् |
१३ क
सरस्वत्यु उवाच:
वुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति ||
१३ ख
सरस्वत्यु उवाच:
नाश्रोत्रिय़ं देवहव्ये निय़ुञ्ज्या; न्मोघं परा सिञ्चति तादृशो हि |
१४ क
सरस्वत्यु उवाच:
अपूर्णमश्रोत्रिय़माह तार्क्ष्य; न वै तादृग्जुहुय़ादग्निहोत्रम् ||
१४ ख
सरस्वत्यु उवाच:
कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च |
१५ क
सरस्वत्यु उवाच:
गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् ||
१५ ख
तार्क्ष्य उवाच:
क्षेत्रज्ञभूतां परलोकभावे; कर्मोदय़े वुद्धिमतिप्रविष्टाम् |
१६ क
तार्क्ष्य उवाच:
प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे ||
१६ ख
सरस्वत्यु उवाच:
अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशय़च्छेदनाय़ |
१७ क
सरस्वत्यु उवाच:
त्वत्संय़ोगादहमेतदव्रुवं; भावे स्थिता तथ्यमर्थं यथावत् ||
१७ ख
तार्क्ष्य उवाच:
न हि त्वय़ा सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः |
१८ क
तार्क्ष्य उवाच:
रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे विभर्षि ||
१८ ख
सरस्वत्यु उवाच:
श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादय़न्ति |
१९ क
सरस्वत्यु उवाच:
तैरेवाहं सम्प्रवृद्धा भवामि; आप्याय़िता रूपवती च विप्र ||
१९ ख
सरस्वत्यु उवाच:
यच्चापि द्रव्यमुपय़ुज्यते ह; वानस्पत्यमाय़सं पार्थिवं वा |
२० क
सरस्वत्यु उवाच:
दिव्येन रूपेण च प्रज्ञय़ा च; तेनैव सिद्धिरिति विद्धि विद्वन् ||
२० ख
तार्क्ष्य उवाच:
इदं श्रेय़ः परमं मन्यमाना; व्याय़च्छन्ते मुनय़ः सम्प्रतीताः |
२१ क
तार्क्ष्य उवाच:
आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः ||
२१ ख
सरस्वत्यु उवाच:
तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् |
२२ क
सरस्वत्यु उवाच:
स्वाध्याय़दानव्रतपुण्ययोगै; स्तपोधना वीतशोका विमुक्ताः ||
२२ ख
सरस्वत्यु उवाच:
तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति |
२३ क
सरस्वत्यु उवाच:
तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः ||
२३ ख
सरस्वत्यु उवाच:
शाखां शाखां महानद्यः संय़ान्ति सिकतासमाः |
२४ क
सरस्वत्यु उवाच:
धानापूपा मांसशाकाः सदा पाय़सकर्दमाः ||
२४ ख
सरस्वत्यु उवाच:
यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः |
२५ क
सरस्वत्यु उवाच:
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ||
२५ ख