chevron_left आदि पर्व अध्याय १८५
वैशम्पाय़न उवाच:
ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः |
१ क
वैशम्पाय़न उवाच:
धृष्टद्युम्नः सोमकानां प्रवर्हो; वृत्तं यथा येन हृता च कृष्णा ||
१ ख
वैशम्पाय़न उवाच:
योऽसौ युवा स्वाय़तलोहिताक्षः; कृष्णाजिनी देवसमानरूपः |
२ क
वैशम्पाय़न उवाच:
यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम् ||
२ ख
वैशम्पाय़न उवाच:
असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः |
३ क
वैशम्पाय़न उवाच:
चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः ||
३ ख
वैशम्पाय़न उवाच:
कृष्णा च गृह्याजिनमन्वय़ात्तं; नागं यथा नागवधूः प्रहृष्टा |
४ क
वैशम्पाय़न उवाच:
अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु ||
४ ख
वैशम्पाय़न उवाच:
ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम् |
५ क
वैशम्पाय़न उवाच:
प्रकालय़न्नेव स पार्थिवौघा; न्क्रुद्धोऽन्तकः प्राणभृतो यथैव ||
५ ख
वैशम्पाय़न उवाच:
तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय़ गतौ नराग्र्यौ |
६ क
वैशम्पाय़न उवाच:
विभ्राजमानाविव चन्द्रसूर्यौ; वाह्यां पुराद्भार्गवकर्मशालाम् ||
६ ख
वैशम्पाय़न उवाच:
तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः |
७ क
वैशम्पाय़न उवाच:
तथाविधैरेव नरप्रवीरै; रुपोपविष्टैस्त्रिभिरग्निकल्पैः ||
७ ख
वैशम्पाय़न उवाच:
तस्यास्ततस्तावभिवाद्य पादा; वुक्त्वा च कृष्णामभिवादय़ेति |
८ क
वैशम्पाय़न उवाच:
स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय़ गता नराग्र्याः ||
८ ख
वैशम्पाय़न उवाच:
तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा वलिं व्राह्मणसाच्च कृत्वा |
९ क
वैशम्पाय़न उवाच:
तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वय़मप्यभुङ्क्त ||
९ ख
वैशम्पाय़न उवाच:
सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् |
१० क
वैशम्पाय़न उवाच:
आसीत्पृथिव्यां शय़नं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् ||
१० ख
वैशम्पाय़न उवाच:
ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथय़ां वभूवुः |
११ क
वैशम्पाय़न उवाच:
न वैश्यशूद्रौपय़िकीः कथास्ता; न च द्विजातेः कथय़न्ति वीराः ||
११ ख
वैशम्पाय़न उवाच:
निःसंशय़ं क्षत्रिय़पुङ्गवास्ते; यथा हि युद्धं कथय़न्ति राजन् |
१२ क
वैशम्पाय़न उवाच:
आशा हि नो व्यक्तमिय़ं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ||
१२ ख
वैशम्पाय़न उवाच:
यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य |
१३ क
वैशम्पाय़न उवाच:
यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ||
१३ ख
वैशम्पाय़न उवाच:
ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषय़ां तत्र चक्रे |
१४ क
वैशम्पाय़न उवाच:
विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् ||
१४ ख
वैशम्पाय़न उवाच:
गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय़ तेषाम् |
१५ क
वैशम्पाय़न उवाच:
वाक्यं यथावन्नृपतेः समग्र; मुवाच तान्स क्रमवित्क्रमेण ||
१५ ख
वैशम्पाय़न उवाच:
विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः |
१६ क
वैशम्पाय़न उवाच:
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः ||
१६ ख
वैशम्पाय़न उवाच:
तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् |
१७ क
वैशम्पाय़न उवाच:
प्रह्लादय़ध्वं हृदय़ं ममेदं; पाञ्चालराजस्य सहानुगस्य ||
१७ ख
वैशम्पाय़न उवाच:
पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रिय़ः सखा चात्मसमो वभूव |
१८ क
वैशम्पाय़न उवाच:
तस्यैष कामो दुहिता ममेय़ं; स्नुषा यदि स्यादिति कौरवस्य ||
१८ ख
वैशम्पाय़न उवाच:
अय़ं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः |
१९ क
वैशम्पाय़न उवाच:
यदर्जुनो वै पृथुदीर्घवाहु; र्धर्मेण विन्देत सुतां ममेति ||
१९ ख
वैशम्पाय़न उवाच:
तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा |
२० क
वैशम्पाय़न उवाच:
समीपस्थं भीममिदं शशास; प्रदीय़तां पाद्यमर्घ्यं तथास्मै ||
२० ख
वैशम्पाय़न उवाच:
मान्यः पुरोधा द्रुपदस्य राज्ञ; स्तस्मै प्रय़ोज्याभ्यधिकैव पूजा |
२१ क
वैशम्पाय़न उवाच:
भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसङ्गृहीत्वा ||
२१ ख
वैशम्पाय़न उवाच:
सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो व्राह्मणमित्युवाच |
२२ क
वैशम्पाय़न उवाच:
पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् ||
२२ ख
वैशम्पाय़न उवाच:
प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता |
२३ क
वैशम्पाय़न उवाच:
न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे ||
२३ ख
वैशम्पाय़न उवाच:
कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा |
२४ क
वैशम्पाय़न उवाच:
सेय़ं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसङ्घमध्ये ||
२४ ख
वैशम्पाय़न उवाच:
नैवङ्गते सौमकिरद्य राजा; सन्तापमर्हत्यसुखाय़ कर्तुम् |
२५ क
वैशम्पाय़न उवाच:
कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि सम्पत्स्यति पार्थिवस्य ||
२५ ख
वैशम्पाय़न उवाच:
अप्राप्यरूपां हि नरेन्द्रकन्या; मिमामहं व्राह्मण साधु मन्ये |
२६ क
वैशम्पाय़न उवाच:
न तद्धनुर्मन्दवलेन शक्यं; मौर्व्या समाय़ोजय़ितुं तथा हि |
२६ ख
वैशम्पाय़न उवाच:
न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातय़ितुं हि शक्यम् ||
२६ ग
वैशम्पाय़न उवाच:
तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य |
२७ क
वैशम्पाय़न उवाच:
न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन ||
२७ ख
वैशम्पाय़न उवाच:
एवं व्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः |
२८ क
वैशम्पाय़न उवाच:
तत्राजगामाशु नरो द्वितीय़ो; निवेदय़िष्यन्निह सिद्धमन्नम् ||
२८ ख