chevron_left शान्ति पर्व अध्याय १८५
भृगुरु उवाच:
मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसञ्चरन्ति |
१ क
भृगुरु उवाच:
धृतिपराः सत्त्वय़ोगाच्छरीराण्युद्वहन्ति ||
१ ख
भृगुरु उवाच:
यस्त्वेतां निय़तश्चर्यां व्रह्मर्षिविहितां चरेत् |
२ क
भृगुरु उवाच:
स दहेदग्निवद्दोषाञ्जय़ेल्लोकांश्च दुर्जय़ान् ||
२ ख
भृगुरु उवाच:
परिव्राजकानां पुनराचारस्तद्यथा |
३ क
भृगुरु उवाच:
ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः |
३ ख
भृगुरु उवाच:
कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ||
३ ग
भृगुरु उवाच:
अभय़ं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः |
४ क
भृगुरु उवाच:
न तस्य सर्वभूतेभ्यो भय़मुत्पद्यते क्वचित् ||
४ ख
भृगुरु उवाच:
कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरमग्निं स्वमुखे जुहोति |
५ क
भृगुरु उवाच:
यो भैक्षचर्योपगतैर्हविर्भि; श्चिताग्निनां स व्यतिय़ाति लोकान् ||
५ ख
भृगुरु उवाच:
मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसङ्कल्पितवुद्धिय़ुक्तः |
६ क
भृगुरु उवाच:
अनिन्धनं ज्योतिरिव प्रशान्तं; स व्रह्मलोकं श्रय़ते द्विजातिः ||
६ ख
भरद्वाज उवाच:
अस्माल्लोकात्परो लोकः श्रूय़ते नोपलभ्यते |
७ क
भरद्वाज उवाच:
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ||
७ ख
भृगुरु उवाच:
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते |
८ क
भृगुरु उवाच:
पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते ||
८ ख
भृगुरु उवाच:
तत्र ह्यपापकर्माणः शुचय़ोऽत्यन्तनिर्मलाः |
९ क
भृगुरु उवाच:
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ||
९ ख
भृगुरु उवाच:
स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः |
१० क
भृगुरु उवाच:
काले मृत्युः प्रभवति स्पृशन्ति व्याधय़ो न च ||
१० ख
भृगुरु उवाच:
न लोभः परदारेषु स्वदारनिरतो जनः |
११ क
भृगुरु उवाच:
न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मय़ः |
११ ख
भृगुरु उवाच:
परोक्षधर्मो नैवास्ति सन्देहो नापि जाय़ते ||
११ ग
भृगुरु उवाच:
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते |
१२ क
भृगुरु उवाच:
शय़्याय़ानासनोपेताः प्रासादभवनाश्रय़ाः |
१२ ख
भृगुरु उवाच:
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ||
१२ ग
भृगुरु उवाच:
प्राणधारणमात्रं तु केषाञ्चिदुपपद्यते |
१३ क
भृगुरु उवाच:
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ||
१३ ख
भृगुरु उवाच:
इह धर्मपराः केचित्केचिन्नैकृतिका नराः |
१४ क
भृगुरु उवाच:
सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे ||
१४ ख
भृगुरु उवाच:
इह श्रमो भय़ं मोहः क्षुधा तीव्रा च जाय़ते |
१५ क
भृगुरु उवाच:
लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः ||
१५ ख
भृगुरु उवाच:
इह चिन्ता वहुविधा धर्माधर्मस्य कर्मणः |
१६ क
भृगुरु उवाच:
यस्तद्वेदोभय़ं प्राज्ञः पाप्मना न स लिप्यते ||
१६ ख
भृगुरु उवाच:
सोपधं निकृतिः स्तेय़ं परिवादोऽभ्यसूय़ता |
१७ क
भृगुरु उवाच:
परोपघातो हिंसा च पैशुन्यमनृतं तथा ||
१७ ख
भृगुरु उवाच:
एतानासेवते यस्तु तपस्तस्य प्रहीय़ते |
१८ क
भृगुरु उवाच:
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते ||
१८ ख
भृगुरु उवाच:
कर्मभूमिरिय़ं लोक इह कृत्वा शुभाशुभम् |
१९ क
भृगुरु उवाच:
शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा ||
१९ ख
भृगुरु उवाच:
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा |
२० क
भृगुरु उवाच:
इष्ट्वेष्टतपसः पूता व्रह्मलोकमुपाश्रिताः ||
२० ख
भृगुरु उवाच:
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः |
२१ क
भृगुरु उवाच:
इहत्यास्तत्र जाय़न्ते ये वै पुण्यकृतो जनाः ||
२१ ख
भृगुरु उवाच:
असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे |
२२ क
भृगुरु उवाच:
क्षीणाय़ुषस्तथैवान्ये नश्यन्ति पृथिवीतले ||
२२ ख
भृगुरु उवाच:
अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः |
२३ क
भृगुरु उवाच:
इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् ||
२३ ख
भृगुरु उवाच:
ये गुरूनुपसेवन्ते निय़ता व्रह्मचारिणः |
२४ क
भृगुरु उवाच:
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ||
२४ ख
भृगुरु उवाच:
इत्युक्तोऽय़ं मय़ा धर्मः सङ्क्षेपाद्व्रह्मनिर्मितः |
२५ क
भृगुरु उवाच:
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स वुद्धिमान् ||
२५ ख
भीष्म उवाच:
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् |
२६ क
भीष्म उवाच:
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजय़त् ||
२६ ख
भीष्म उवाच:
एष ते प्रभवो राजञ्जगतः सम्प्रकीर्तितः |
२७ क
भीष्म उवाच:
निखिलेन महाप्राज्ञ किं भूय़ः श्रोतुमिच्छसि ||
२७ ख