सञ्जय़ उवाच:
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् |
१ क
सञ्जय़ उवाच:
क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ||
१ ख
सञ्जय़ उवाच:
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा |
२ क
सञ्जय़ उवाच:
भीमसेनं ततः क्रुद्धः समाद्रवत सम्भ्रमात् ||
२ ख
सञ्जय़ उवाच:
स भीमं पञ्चभिर्विद्ध्वा राधेय़ः प्रहसन्निव |
३ क
सञ्जय़ उवाच:
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ||
३ ख
सञ्जय़ उवाच:
अवहासं तु तं पार्थो नामृष्यत वृकोदरः |
४ क
सञ्जय़ उवाच:
ततो विव्याध राधेय़ं शतेन नतपर्वणाम् ||
४ ख
सञ्जय़ उवाच:
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः |
५ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ||
५ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ कर्णो भारत दुर्मनाः |
६ क
सञ्जय़ उवाच:
इषुभिश्छादय़ामास भीमसेनं समन्ततः ||
६ ख
सञ्जय़ उवाच:
तस्य भीमो हय़ान्हत्वा विनिहत्य च सारथिम् |
७ क
सञ्जय़ उवाच:
प्रजहास महाहासं कृते प्रतिकृतं पुनः ||
७ ख
सञ्जय़ उवाच:
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः |
८ क
सञ्जय़ उवाच:
तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ||
८ ख
सञ्जय़ उवाच:
अवारोहद्रथात्तस्मादथ कर्णो महारथः |
९ क
सञ्जय़ उवाच:
गदां गृहीत्वा समरे भीमसेनाय़ चाक्षिपत् ||
९ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः |
१० क
सञ्जय़ उवाच:
शरैरवारय़द्राजन्सर्वसैन्यस्य पश्यतः ||
१० ख
सञ्जय़ उवाच:
ततो वाणसहस्राणि प्रेषय़ामास पाण्डवः |
११ क
सञ्जय़ उवाच:
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ||
११ ख
सञ्जय़ उवाच:
तानिषूनिषुभिः कर्णो वारय़ित्वा महामृधे |
१२ क
सञ्जय़ उवाच:
कवचं भीमसेनस्य पातय़ामास साय़कैः ||
१२ ख
सञ्जय़ उवाच:
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पय़त् |
१३ क
सञ्जय़ उवाच:
पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ||
१३ ख
सञ्जय़ उवाच:
ततो भीमो महाराज नवभिर्नतपर्वणाम् |
१४ क
सञ्जय़ उवाच:
रणेऽप्रेषय़त क्रुद्धः सूतपुत्रस्य मारिष ||
१४ ख
सञ्जय़ उवाच:
ते तस्य कवचं भित्त्वा तथा वाहुं च दक्षिणम् |
१५ क
सञ्जय़ उवाच:
अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ||
१५ ख
सञ्जय़ उवाच:
राधेय़ं तु रणे दृष्ट्वा पदातिनमवस्थितम् |
१६ क
सञ्जय़ उवाच:
भीमसेनेन संरव्धं राजा दुर्योधनोऽव्रवीत् |
१६ ख
सञ्जय़ उवाच:
त्वरध्वं सर्वतो यत्ता राधेय़स्य रथं प्रति ||
१६ ग
सञ्जय़ उवाच:
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् |
१७ क
सञ्जय़ उवाच:
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ||
१७ ख
सञ्जय़ उवाच:
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः |
१८ क
सञ्जय़ उवाच:
चित्राय़ुधश्चित्रवर्मा समरे चित्रय़ोधिनः ||
१८ ख
सञ्जय़ उवाच:
आगच्छतस्तान्सहसा भीमो राजन्महारथः |
१९ क
सञ्जय़ उवाच:
साश्वसूतध्वजान्यत्तान्पातय़ामास संय़ुगे |
१९ ख
सञ्जय़ उवाच:
ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ||
१९ ग
सञ्जय़ उवाच:
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् |
२० क
सञ्जय़ उवाच:
अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ||
२० ख
सञ्जय़ उवाच:
रथमन्यं समास्थाय़ विधिवत्कल्पितं पुनः |
२१ क
सञ्जय़ उवाच:
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ||
२१ ख
सञ्जय़ उवाच:
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः |
२२ क
सञ्जय़ उवाच:
व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ||
२२ ख
सञ्जय़ उवाच:
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः |
२३ क
सञ्जय़ उवाच:
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ||
२३ ख
सञ्जय़ उवाच:
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ |
२४ क
सञ्जय़ उवाच:
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ||
२४ ख
सञ्जय़ उवाच:
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ |
२५ क
सञ्जय़ उवाच:
विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ||
२५ ख
सञ्जय़ उवाच:
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् |
२६ क
सञ्जय़ उवाच:
शरदंष्ट्रा विधुन्वानौ ततक्षतुररिन्दमौ ||
२६ ख
सञ्जय़ उवाच:
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः |
२७ क
सञ्जय़ उवाच:
तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ||
२७ ख
सञ्जय़ उवाच:
प्रच्छादय़न्तौ समरे शरजालैः परस्परम् |
२८ क
सञ्जय़ उवाच:
रथाभ्यां नादय़न्तौ च दिशः सर्वा विचेरतुः ||
२८ ख
सञ्जय़ उवाच:
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु |
२९ क
सञ्जय़ उवाच:
व्यरोचेतां महात्मानौ वृत्रवज्रधराविव ||
२९ ख
सञ्जय़ उवाच:
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः |
३० क
सञ्जय़ उवाच:
व्यरोचत रणे भीमः सविद्युदिव तोय़दः ||
३० ख
सञ्जय़ उवाच:
स चापघोषस्तनितः शरधाराम्वुदो महान् |
३१ क
सञ्जय़ उवाच:
भीममेघो महाराज कर्णपर्वतमभ्ययात् ||
३१ ख
सञ्जय़ उवाच:
ततः शरसहस्रेण धनुर्मुक्तेन भारत |
३२ क
सञ्जय़ उवाच:
पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ||
३२ ख
सञ्जय़ उवाच:
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् |
३३ क
सञ्जय़ उवाच:
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादय़च्छरैः ||
३३ ख
सञ्जय़ उवाच:
स नन्दय़न्रणे पार्थं केशवं च यशस्विनम् |
३४ क
सञ्जय़ उवाच:
सात्यकिं चक्ररक्षौ च भीमः कर्णमय़ोधय़त् ||
३४ ख
सञ्जय़ उवाच:
विक्रमं भुजय़ोर्वीर्यं धैर्यं च विदितात्मनः |
३५ क
सञ्जय़ उवाच:
पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ||
३५ ख