chevron_left आदि पर्व अध्याय १८६
दूत उवाच:
जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च |
१ क
दूत उवाच:
तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् ||
१ ख
दूत उवाच:
इमे रथाः काञ्चनपद्मचित्राः; सदश्वय़ुक्ता वसुधाधिपार्हाः |
२ क
दूत उवाच:
एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् ||
२ ख
वैशम्पाय़न उवाच:
ततः प्रय़ाताः कुरुपुङ्गवास्ते; पुरोहितं तं प्रथमं प्रय़ाप्य |
३ क
वैशम्पाय़न उवाच:
आस्थाय़ यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते ||
३ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः |
४ क
वैशम्पाय़न उवाच:
जिज्ञासय़ैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसञ्जहार ||
४ ख
वैशम्पाय़न उवाच:
फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि |
५ क
वैशम्पाय़न उवाच:
गाश्चैव राजन्नथ चैव रज्जू; र्द्रव्याणि चान्यानि कृषीनिमित्तम् ||
५ ख
वैशम्पाय़न उवाच:
अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र |
६ क
वैशम्पाय़न उवाच:
क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा ||
६ ख
वैशम्पाय़न उवाच:
रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः |
७ क
वैशम्पाय़न उवाच:
धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टय़ः काञ्चनभूषिताश्च ||
७ ख
वैशम्पाय़न उवाच:
प्रासा भुशुण्ड्यश्च परश्वधाश्च; साङ्ग्रामिकं चैव तथैव सर्वम् |
८ क
वैशम्पाय़न उवाच:
शय़्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र ||
८ ख
वैशम्पाय़न उवाच:
कुन्ती तु कृष्णां परिगृह्य साध्वी; मन्तःपुरं द्रुपदस्याविवेष |
९ क
वैशम्पाय़न उवाच:
स्त्रिय़श्च तां कौरवराजपत्नीं; प्रत्यर्चय़ां चक्रुरदीनसत्त्वाः ||
९ ख
वैशम्पाय़न उवाच:
तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीय़ान् |
१० क
वैशम्पाय़न उवाच:
गूढोत्तरांसान्भुजगेन्द्रभोग; प्रलम्ववाहून्पुरुषप्रवीरान् ||
१० ख
वैशम्पाय़न उवाच:
राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव |
११ क
वैशम्पाय़न उवाच:
प्रेष्याश्च सर्वे निखिलेन राज; न्हर्षं समापेतुरतीव तत्र ||
११ ख
वैशम्पाय़न उवाच:
ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः |
१२ क
वैशम्पाय़न उवाच:
यथानुपूर्व्या विविशुर्नराग्र्या; स्तदा महार्हेषु न विस्मय़न्तः ||
१२ ख
वैशम्पाय़न उवाच:
उच्चावचं पार्थिवभोजनीय़ं; पात्रीषु जाम्वूनदराजतीषु |
१३ क
वैशम्पाय़न उवाच:
दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम् ||
१३ ख
वैशम्पाय़न उवाच:
ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः |
१४ क
वैशम्पाय़न उवाच:
उत्क्रम्य सर्वाणि वसूनि तत्र; साङ्ग्रामिकान्याविविशुर्नृवीराः ||
१४ ख
वैशम्पाय़न उवाच:
तल्लक्षय़ित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः |
१५ क
वैशम्पाय़न उवाच:
समर्चय़ामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ||
१५ ख