chevron_left शान्ति पर्व अध्याय १८६
युधिष्ठिर उवाच:
आचारस्य विधिं तात प्रोच्यमानं त्वय़ानघ |
१ क
युधिष्ठिर उवाच:
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ||
१ ख
भीष्म उवाच:
दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रिय़साहसाः |
२ क
भीष्म उवाच:
असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः ||
२ ख
भीष्म उवाच:
पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः |
३ क
भीष्म उवाच:
राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः ||
३ ख
भीष्म उवाच:
शौचमावश्यकं कृत्वा देवतानां च तर्पणम् |
४ क
भीष्म उवाच:
धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् ||
४ ख
भीष्म उवाच:
सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदय़े |
५ क
भीष्म उवाच:
साय़ं प्रातर्जपन्सन्ध्यां तिष्ठेत्पूर्वां तथापराम् ||
५ ख
भीष्म उवाच:
पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः |
६ क
भीष्म उवाच:
न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षय़ेत् ||
६ ख
भीष्म उवाच:
नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि |
७ क
भीष्म उवाच:
देवर्षिनारदप्रोक्तमेतदाचारलक्षणम् ||
७ ख
भीष्म उवाच:
शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम् |
८ क
भीष्म उवाच:
व्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् ||
८ ख
भीष्म उवाच:
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च |
९ क
भीष्म उवाच:
सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ||
९ ख
भीष्म उवाच:
साय़ं प्रातर्मनुष्याणामशनं देवनिर्मितम् |
१० क
भीष्म उवाच:
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ||
१० ख
भीष्म उवाच:
होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन् |
११ क
भीष्म उवाच:
अनन्यस्त्रीजनः प्राज्ञो व्रह्मचारी तथा भवेत् ||
११ ख
भीष्म उवाच:
अमृतं व्राह्मणोच्छिष्टं जनन्या हृदय़ं कृतम् |
१२ क
भीष्म उवाच:
उपासीत जनः सत्यं सत्यं सन्त उपासते ||
१२ ख
भीष्म उवाच:
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् |
१३ क
भीष्म उवाच:
न भक्षय़ेद्वृथामांसं पृष्ठमांसं च वर्जय़ेत् ||
१३ ख
भीष्म उवाच:
स्वदेशे परदेशे वा अतिथिं नोपवासय़ेत् |
१४ क
भीष्म उवाच:
काम्यं कर्मफलं लव्ध्वा गुरूणामुपपादय़ेत् ||
१४ ख
भीष्म उवाच:
गुरुभ्य आसनं देय़ं कर्तव्यं चाभिवादनम् |
१५ क
भीष्म उवाच:
गुरूनभ्यर्च्य युज्यन्ते आय़ुषा यशसा श्रिय़ा ||
१५ ख
भीष्म उवाच:
नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रिय़म् |
१६ क
भीष्म उवाच:
मैथुनं समय़े धर्म्यं गुह्यं चैव समाचरेत् ||
१६ ख
भीष्म उवाच:
तीर्थानां हृदय़ं तीर्थं शुचीनां हृदय़ं शुचिः |
१७ क
भीष्म उवाच:
सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च ||
१७ ख
भीष्म उवाच:
दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् |
१८ क
भीष्म उवाच:
साय़ं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ||
१८ ख
भीष्म उवाच:
देवगोष्ठे गवां मध्ये व्राह्मणानां क्रिय़ापथे |
१९ क
भीष्म उवाच:
स्वाध्याय़े भोजने चैव दक्षिणं पाणिमुद्धरेत् ||
१९ ख
भीष्म उवाच:
पण्यानां शोभनं पण्यं कृषीणां वाद्यते कृषिः |
२० क
भीष्म उवाच:
वहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् ||
२० ख
भीष्म उवाच:
सम्पन्नं भोजने नित्यं पानीय़े तर्पणं तथा |
२१ क
भीष्म उवाच:
सुशृतं पाय़से व्रूय़ाद्यवाग्वां कृसरे तथा ||
२१ ख
भीष्म उवाच:
श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नानेऽथ भोजने |
२२ क
भीष्म उवाच:
व्याधितानां च सर्वेषामाय़ुष्यमभिनन्दनम् ||
२२ ख
भीष्म उवाच:
प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् |
२३ क
भीष्म उवाच:
सुतस्त्रिय़ा च शय़नं सहभोज्यं च वर्जय़ेत् ||
२३ ख
भीष्म उवाच:
त्वङ्कारं नामधेय़ं च ज्येष्ठानां परिवर्जय़ेत् |
२४ क
भीष्म उवाच:
अवराणां समानानामुभय़ेषां न दुष्यति ||
२४ ख
भीष्म उवाच:
हृदय़ं पापवृत्तानां पापमाख्याति वैकृतम् |
२५ क
भीष्म उवाच:
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ||
२५ ख
भीष्म उवाच:
ज्ञानपूर्वं कृतं पापं छादय़न्त्यवहुश्रुताः |
२६ क
भीष्म उवाच:
नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः ||
२६ ख
भीष्म उवाच:
पापेन हि कृतं पापं पापमेवानुवर्तते |
२७ क
भीष्म उवाच:
धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते ||
२७ ख
भीष्म उवाच:
पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तदेति कर्तुः |
२८ क
भीष्म उवाच:
राहुर्यथा चन्द्रमुपैति चापि; तथावुधं पापमुपैति कर्म ||
२८ ख
भीष्म उवाच:
आशय़ा सञ्चितं द्रव्यं यत्काले नेह भुज्यते |
२९ क
भीष्म उवाच:
तद्वुधा न प्रशंसन्ति मरणं न प्रतीक्षते ||
२९ ख
भीष्म उवाच:
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः |
३० क
भीष्म उवाच:
तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् ||
३० ख
भीष्म उवाच:
एक एव चरेद्धर्मं नास्ति धर्मे सहाय़ता |
३१ क
भीष्म उवाच:
केवलं विधिमासाद्य सहाय़ः किं करिष्यति ||
३१ ख
भीष्म उवाच:
देवा योनिर्मनुष्याणां देवानाममृतं दिवि |
३२ क
भीष्म उवाच:
प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते ||
३२ ख