देव उवाच:
कामं देवापि मां विप्र न विजानन्ति तत्त्वतः |
१ क
देव उवाच:
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् ||
१ ख
देव उवाच:
पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः |
२ क
देव उवाच:
अतो दृष्टोऽस्मि ते साक्षाद्व्रह्मचर्यं च ते महत् ||
२ ख
देव उवाच:
आपो नारा इति प्रोक्ताः सञ्ज्ञानाम कृतं मय़ा |
३ क
देव उवाच:
तेन नाराय़णोऽस्म्युक्तो मम तद्ध्ययनं सदा ||
३ ख
देव उवाच:
अहं नाराय़णो नाम प्रभवः शाश्वतोऽव्ययः |
४ क
देव उवाच:
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ||
४ ख
देव उवाच:
अहं विष्णुरहं व्रह्मा शक्रश्चाहं सुराधिपः |
५ क
देव उवाच:
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ||
५ ख
देव उवाच:
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः |
६ क
देव उवाच:
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ||
६ ख
देव उवाच:
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने |
७ क
देव उवाच:
सदिशं च नभः काय़ो वाय़ुर्मनसि मे स्थितः ||
७ ख
देव उवाच:
मय़ा क्रतुशतैरिष्टं वहुभिः स्वाप्तदक्षिणैः |
८ क
देव उवाच:
यजन्ते वेदविदुषो मां देवय़जने स्थितम् ||
८ ख
देव उवाच:
पृथिव्यां क्षत्रिय़ेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः |
९ क
देव उवाच:
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ||
९ ख
देव उवाच:
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् |
१० क
देव उवाच:
शेषो भूत्वाहमेवैतां धारय़ामि वसुन्धराम् ||
१० ख
देव उवाच:
वाराहं रूपमास्थाय़ मय़ेय़ं जगती पुरा |
११ क
देव उवाच:
मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ||
११ ख
देव उवाच:
अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम |
१२ क
देव उवाच:
पिवाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् ||
१२ ख
देव उवाच:
व्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः |
१३ क
देव उवाच:
पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च ||
१३ ख
देव उवाच:
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः |
१४ क
देव उवाच:
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ||
१४ ख
देव उवाच:
यतय़ः शान्तिपरमा यतात्मानो मुमुक्षवः |
१५ क
देव उवाच:
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ||
१५ ख
देव उवाच:
सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः |
१६ क
देव उवाच:
मामेव सततं विप्राश्चिन्तय़न्त उपासते ||
१६ ख
देव उवाच:
अहं संवर्तको ज्योतिरहं सर्वर्तको यमः |
१७ क
देव उवाच:
अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः ||
१७ ख
देव उवाच:
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले |
१८ क
देव उवाच:
मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ||
१८ ख
देव उवाच:
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् |
१९ क
देव उवाच:
वसनं शय़नं चैव निलय़ं चैव विद्धि मे ||
१९ ख
देव उवाच:
कामं क्रोधं च हर्षं च भय़ं मोहं तथैव च |
२० क
देव उवाच:
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ||
२० ख
देव उवाच:
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् |
२१ क
देव उवाच:
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ||
२१ ख
देव उवाच:
मद्विधानेन विहिता मम देहविहारिणः |
२२ क
देव उवाच:
मय़ाभिभूतविज्ञाना विचेष्टन्ते न कामतः ||
२२ ख
देव उवाच:
सम्यग्वेदमधीय़ाना यजन्तो विविधैर्मखैः |
२३ क
देव उवाच:
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातय़ः ||
२३ ख
देव उवाच:
प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः |
२४ क
देव उवाच:
लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ||
२४ ख
देव उवाच:
तं मां महाफलं विद्धि पदं सुकृतकर्मणः |
२५ क
देव उवाच:
दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् ||
२५ ख
देव उवाच:
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम |
२६ क
देव उवाच:
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||
२६ ख
देव उवाच:
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः |
२७ क
देव उवाच:
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ||
२७ ख
देव उवाच:
तदाहं सम्प्रसूय़ामि गृहेषु शुभकर्मणाम् |
२८ क
देव उवाच:
प्रविष्टो मानुषं देहं सर्वं प्रशमय़ाम्यहम् ||
२८ ख
देव उवाच:
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् |
२९ क
देव उवाच:
स्थावराणि च भूतानि संहराम्यात्ममाय़या ||
२९ ख
देव उवाच:
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् |
३० क
देव उवाच:
प्रविश्य मानुषं देहं मर्यादावन्धकारणात् ||
३० ख
देव उवाच:
श्वेतः कृतय़ुगे वर्णः पीतस्त्रेताय़ुगे मम |
३१ क
देव उवाच:
रक्तो द्वापरमासाद्य कृष्णः कलिय़ुगे तथा ||
३१ ख
देव उवाच:
त्रय़ो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत |
३२ क
देव उवाच:
अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः |
३२ ख
देव उवाच:
त्रैलोक्यं नाशय़ाम्येकः कृत्स्नं स्थावरजङ्गमम् ||
३२ ग
देव उवाच:
अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः |
३३ क
देव उवाच:
अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ||
३३ ख
देव उवाच:
कालचक्रं नय़ाम्येको व्रह्मन्नहमरूपि वै |
३४ क
देव उवाच:
शमनं सर्वभूतानां सर्वलोककृतोद्यमम् ||
३४ ख
देव उवाच:
एवं प्रणिहितः सम्यङ्मय़ात्मा मुनिसत्तम |
३५ क
देव उवाच:
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ||
३५ ख
देव उवाच:
यच्च किञ्चित्त्वय़ा प्राप्तं मय़ि क्लेषात्मकं द्विज |
३६ क
देव उवाच:
सुखोदय़ाय़ तत्सर्वं श्रेय़से च तवानघ ||
३६ ख
देव उवाच:
यच्च किञ्चित्त्वय़ा लोके दृष्टं स्थावरजङ्गमम् |
३७ क
देव उवाच:
विहितः सर्वथैवासौ ममात्मा मुनिसत्तम ||
३७ ख
देव उवाच:
अर्धं मम शरीरस्य सर्वलोकपितामहः |
३८ क
देव उवाच:
अहं नाराय़णो नाम शङ्खचक्रगदाधरः ||
३८ ख
देव उवाच:
यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् |
३९ क
देव उवाच:
तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ||
३९ ख
देव उवाच:
एवं सर्वमहं कालमिहासे मुनिसत्तम |
४० क
देव उवाच:
अशिशुः शिशुरूपेण यावद्व्रह्मा न वुध्यते ||
४० ख
देव उवाच:
मय़ा च विप्र दत्तोऽय़ं वरस्ते व्रह्मरूपिणा |
४१ क
देव उवाच:
असकृत्परितुष्टेन विप्रर्षिगणपूजित ||
४१ ख
देव उवाच:
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् |
४२ क
देव उवाच:
विक्लवोऽसि मय़ा ज्ञातस्ततस्ते दर्शितं जगत् ||
४२ ख
देव उवाच:
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम |
४३ क
देव उवाच:
दृष्ट्वा लोकं समस्तं च विस्मितो नाववुध्यसे ||
४३ ख
देव उवाच:
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मय़ा |
४४ क
देव उवाच:
आख्यातस्ते मय़ा चात्मा दुर्ज्ञेय़ोऽपि सुरासुरैः ||
४४ ख
देव उवाच:
यावत्स भगवान्व्रह्मा न वुध्यति महातपाः |
४५ क
देव उवाच:
तावत्त्वमिह विप्रर्षे विश्रव्धश्चर वै सुखम् ||
४५ ख
देव उवाच:
ततो विवुद्धे तस्मिंस्तु सर्वलोकपितामहे |
४६ क
देव उवाच:
एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम ||
४६ ख
देव उवाच:
आकाशं पृथिवीं ज्योतिर्वाय़ुं सलिलमेव च |
४७ क
देव उवाच:
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ||
४७ ख
मार्कण्डेय़ उवाच:
इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः |
४८ क
मार्कण्डेय़ उवाच:
प्रजाश्चेमाः प्रपश्यामि विचित्रा वहुधाकृताः ||
४८ ख
मार्कण्डेय़ उवाच:
एतद्दृष्टं मय़ा राजंस्तस्मिन्प्राप्ते युगक्षय़े |
४९ क
मार्कण्डेय़ उवाच:
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर ||
४९ ख
मार्कण्डेय़ उवाच:
यः स देवो मय़ा दृष्टः पुरा पद्मनिभेक्षणः |
५० क