chevron_left आदि पर्व अध्याय १८८
वैशम्पाय़न उवाच:
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महाय़शाः |
१ क
वैशम्पाय़न उवाच:
प्रत्युत्थाय़ महात्मानं कृष्णं दृष्ट्वाभ्यपूजय़न् ||
१ ख
वैशम्पाय़न उवाच:
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः |
२ क
वैशम्पाय़न उवाच:
आसने काञ्चने शुभ्रे निषसाद महामनाः ||
२ ख
वैशम्पाय़न उवाच:
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा |
३ क
वैशम्पाय़न उवाच:
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ||
३ ख
वैशम्पाय़न उवाच:
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः |
४ क
वैशम्पाय़न उवाच:
पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ||
४ ख
वैशम्पाय़न उवाच:
कथमेका वहूनां स्यान्न च स्याद्धर्मसङ्करः |
५ क
वैशम्पाय़न उवाच:
एतन्नो भगवान्सर्वं प्रव्रवीतु यथातथम् ||
५ ख
व्यास उवाच:
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके |
६ क
व्यास उवाच:
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ||
६ ख
द्रुपद उवाच:
अधर्मोऽय़ं मम मतो विरुद्धो लोकवेदय़ोः |
७ क
द्रुपद उवाच:
न ह्येका विद्यते पत्नी वहूनां द्विजसत्तम ||
७ ख
द्रुपद उवाच:
न चाप्याचरितः पूर्वैरय़ं धर्मो महात्मभिः |
८ क
द्रुपद उवाच:
न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ||
८ ख
द्रुपद उवाच:
अतो नाहं करोम्येवं व्यवसाय़ं क्रिय़ां प्रति |
९ क
द्रुपद उवाच:
धर्मसन्देहसन्दिग्धं प्रतिभाति हि मामिदम् ||
९ ख
धृष्टद्युम्न उवाच:
यवीय़सः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ |
१० क
धृष्टद्युम्न उवाच:
व्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ||
१० ख
धृष्टद्युम्न उवाच:
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन |
११ क
धृष्टद्युम्न उवाच:
अधर्मो धर्म इति वा व्यवसाय़ो न शक्यते ||
११ ख
धृष्टद्युम्न उवाच:
कर्तुमस्मद्विधैर्व्रह्मंस्ततो न व्यवसाम्यहम् |
१२ क
धृष्टद्युम्न उवाच:
पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ||
१२ ख
युधिष्ठिर उवाच:
न मे वागनृतं प्राह नाधर्मे धीय़ते मतिः |
१३ क
युधिष्ठिर उवाच:
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ||
१३ ख
युधिष्ठिर उवाच:
श्रूय़ते हि पुराणेऽपि जटिला नाम गौतमी |
१४ क
युधिष्ठिर उवाच:
ऋषीनध्यासितवती सप्त धर्मभृतां वर ||
१४ ख
युधिष्ठिर उवाच:
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम |
१५ क
युधिष्ठिर उवाच:
गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ||
१५ ख
युधिष्ठिर उवाच:
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति |
१६ क
युधिष्ठिर उवाच:
तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ||
१६ ख
कुन्त्यु उवाच:
एवमेतद्यथाहाय़ं धर्मचारी युधिष्ठिरः |
१७ क
कुन्त्यु उवाच:
अनृतान्मे भय़ं तीव्रं मुच्येय़मनृतात्कथम् ||
१७ ख
व्यास उवाच:
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः |
१८ क
व्यास उवाच:
न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वय़म् ||
१८ ख
व्यास उवाच:
यथाय़ं विहितो धर्मो यतश्चाय़ं सनातनः |
१९ क
व्यास उवाच:
यथा च प्राह कौन्तेय़स्तथा धर्मो न संशय़ः ||
१९ ख
वैशम्पाय़न उवाच:
तत उत्थाय़ भगवान्व्यासो द्वैपाय़नः प्रभुः |
२० क
वैशम्पाय़न उवाच:
करे गृहीत्वा राजानं राजवेश्म समाविशत् ||
२० ख
वैशम्पाय़न उवाच:
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः |
२१ क
वैशम्पाय़न उवाच:
विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ||
२१ ख
वैशम्पाय़न उवाच:
ततो द्वैपाय़नस्तस्मै नरेन्द्राय़ महात्मने |
२२ क
वैशम्पाय़न उवाच:
आचख्यौ तद्यथा धर्मो वहूनामेकपत्निता ||
२२ ख