व्यास उवाच:
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते |
१ क
व्यास उवाच:
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ||
१ ख
व्यास उवाच:
ततो यमो दीक्षितस्तत्र राज; न्नामारय़त्किञ्चिदपि प्रजाभ्यः |
२ क
व्यास उवाच:
ततः प्रजास्ता वहुला वभूवुः; कालातिपातान्मरणात्प्रहीणाः ||
२ ख
व्यास उवाच:
ततस्तु शक्रो वरुणः कुवेरः; साध्या रुद्रा वसवश्चाश्विनौ च |
३ क
व्यास उवाच:
प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये ||
३ ख
व्यास उवाच:
ततोऽव्रुवँल्लोकगुरुं समेता; भय़ं नस्तीव्रं मानुषाणां विवृद्ध्या |
४ क
व्यास उवाच:
तस्माद्भय़ादुद्विजन्तः सुखेप्सवः; प्रय़ाम सर्वे शरणं भवन्तम् ||
४ ख
व्रह्मो उवाच:
किं वो भय़ं मानुषेभ्यो यूय़ं सर्वे यदामराः |
५ क
व्रह्मो उवाच:
मा वो मर्त्यसकाशाद्वै भय़ं भवतु कर्हिचित् ||
५ ख
देवा ऊचुः:
मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन |
६ क
देवा ऊचुः:
अविशेषादुद्विजन्तो विशेषार्थमिहागताः ||
६ ख
व्रह्मो उवाच:
वैवस्वतो व्यापृतः सत्रहेतो; स्तेन त्विमे न म्रिय़न्ते मनुष्याः |
७ क
व्रह्मो उवाच:
तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः ||
७ ख
व्रह्मो उवाच:
वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रय़ुक्ता |
८ क
व्रह्मो उवाच:
सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु ||
८ ख
व्यास उवाच:
ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते |
९ क
व्यास उवाच:
समासीनास्ते समेता महावला; भागीरथ्यां ददृशुः पुण्डरीकम् ||
९ ख
व्यास उवाच:
दृष्ट्वा च तद्विस्मितास्ते वभूवु; स्तेषामिन्द्रस्तत्र शूरो जगाम |
१० क
व्यास उवाच:
सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं सम्प्रसूता ||
१० ख
व्यास उवाच:
सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् |
११ क
व्यास उवाच:
तस्याश्रुविन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् ||
११ ख
व्यास उवाच:
तदद्भुतं प्रेक्ष्य वज्री तदानी; मपृच्छत्तां योषितमन्तिकाद्वै |
१२ क
व्यास उवाच:
का त्वं कथं रोदिषि कस्य हेतो; र्वाक्यं तथ्यं कामय़ेह व्रवीहि ||
१२ ख
स्त्र्यु उवाच:
त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या |
१३ क
स्त्र्यु उवाच:
आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ||
१३ ख
व्यास उवाच:
तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीय़म् |
१४ क
व्यास उवाच:
सिंहासनस्थं युवतीसहाय़ं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ||
१४ ख
व्यास उवाच:
तमव्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् |
१५ क
व्यास उवाच:
ईशोऽहमस्मीति समन्युरव्रवी; द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ||
१५ ख
व्यास उवाच:
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत |
१६ क
व्यास उवाच:
संस्तम्भितोऽभूदथ देवराज; स्तेनेक्षितः स्थाणुरिवावतस्थे ||
१६ ख
व्यास उवाच:
यदा तु पर्याप्तमिहास्य क्रीडय़ा; तदा देवीं रुदतीं तामुवाच |
१७ क
व्यास उवाच:
आनीय़तामेष यतोऽहमारा; न्मैनं दर्पः पुनरप्याविशेत ||
१७ ख
व्यास उवाच:
ततः शक्रः स्पृष्टमात्रस्तय़ा तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् |
१८ क
व्यास उवाच:
तमव्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथञ्चित् ||
१८ ख
व्यास उवाच:
विवर्तय़ैनं च महाद्रिराजं; वलं च वीर्यं च तवाप्रमेय़म् |
१९ क
व्यास उवाच:
विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः ||
१९ ख
व्यास उवाच:
स तद्विवृत्य शिखरं महागिरे; स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श |
२० क
व्यास उवाच:
स तानभिप्रेक्ष्य वभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ||
२० ख
व्यास उवाच:
ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच |
२१ क
व्यास उवाच:
दरीमेतां प्रविश त्वं शतक्रतो; यन्मां वाल्यादवमंस्थाः पुरस्तात् ||
२१ ख
व्यास उवाच:
उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात् |
२२ क
व्यास उवाच:
स्रस्तैरङ्गैरनिलेनेव नुन्न; मश्वत्थपत्रं गिरिराजमूर्ध्नि ||
२२ ख
व्यास उवाच:
स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः |
२३ क
व्यास उवाच:
उवाच चेदं वहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ||
२३ ख
व्यास उवाच:
तमव्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति |
२४ क
व्यास उवाच:
एतेऽप्येवं भवितारः पुरस्ता; त्तस्मादेतां दरिमाविश्य शेध्वम् ||
२४ ख
व्यास उवाच:
शेषोऽप्येवं भविता वो न संशय़ो; योनिं सर्वे मानुषीमाविशध्वम् |
२५ क
व्यास उवाच:
तत्र यूय़ं कर्म कृत्वाविषह्यं; वहूनन्यान्निधनं प्रापय़ित्वा ||
२५ ख
व्यास उवाच:
आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् |
२६ क
व्यास उवाच:
सर्वं मय़ा भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च ||
२६ ख
पूर्वेन्द्रा ऊचुः:
गमिष्यामो मानुषं देवलोका; द्दुराधरो विहितो यत्र मोक्षः |
२७ क
पूर्वेन्द्रा ऊचुः:
देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वाय़ुर्मघवानश्विनौ च ||
२७ ख
व्यास उवाच:
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह |
२८ क
व्यास उवाच:
वीर्येणाहं पुरुषं कार्यहेतो; र्दद्यामेषां पञ्चमं मत्प्रसूतम् ||
२८ ख
व्यास उवाच:
तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम् |
२९ क
व्यास उवाच:
तां चाप्येषां योषितं लोककान्तां; श्रिय़ं भार्यां व्यदधान्मानुषेषु ||
२९ ख
व्यास उवाच:
तैरेव सार्धं तु ततः स देवो; जगाम नाराय़णमप्रमेय़म् |
३० क
व्यास उवाच:
स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे सम्वभूवुर्धरण्याम् ||
३० ख
व्यास उवाच:
स चापि केशौ हरिरुद्ववर्ह; शुक्लमेकमपरं चापि कृष्णम् |
३१ क
व्यास उवाच:
तौ चापि केशौ विशतां यदूनां; कुले स्त्रिय़ौ रोहिणीं देवकीं च |
३१ ख
व्यास उवाच:
तय़ोरेको वलदेवो वभूव; कृष्णो द्वितीय़ः केशवः सम्वभूव ||
३१ ग
व्यास उवाच:
ये ते पूर्वं शक्ररूपा निरुद्धा; स्तस्यां दर्यां पर्वतस्योत्तरस्य |
३२ क
व्यास उवाच:
इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ||
३२ ख
व्यास उवाच:
एवमेते पाण्डवाः सम्वभूवु; र्ये ते राजन्पूर्वमिन्द्रा वभूवुः |
३३ क
व्यास उवाच:
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा ||
३३ ख
व्यास उवाच:
कथं हि स्त्री कर्मणोऽन्ते महीतला; त्समुत्तिष्ठेदन्यतो दैवय़ोगात् |
३४ क
व्यास उवाच:
यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ||
३४ ख
व्यास उवाच:
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च |
३५ क
व्यास उवाच:
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ||
३५ ख
वैशम्पाय़न उवाच:
ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः |
३६ क
वैशम्पाय़न उवाच:
चक्षुर्दिव्यं प्रददौ तान्स सर्वा; न्राजापश्यत्पूर्वदेहैर्यथावत् ||
३६ ख
वैशम्पाय़न उवाच:
ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान् |
३७ क
वैशम्पाय़न उवाच:
वद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श ||
३७ ख
वैशम्पाय़न उवाच:
दिव्यैर्वस्त्रैररजोभिः सुवर्णै; र्माल्यैश्चाग्र्यैः शोभमानानतीव |
३८ क
वैशम्पाय़न उवाच:
साक्षात्त्र्यक्षान्वसवो वाथ दिव्या; नादित्यान्वा सर्वगुणोपपन्नान् |
३८ ख
वैशम्पाय़न उवाच:
तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा; न्प्रीतो राजा द्रुपदो विस्मितश्च ||
३८ ग
वैशम्पाय़न उवाच:
दिव्यां माय़ां तामवाप्याप्रमेय़ां; तां चैवाग्र्यां श्रिय़मिव रूपिणीं च |
३९ क
वैशम्पाय़न उवाच:
योग्यां तेषां रूपतेजोय़शोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ||
३९ ख
वैशम्पाय़न उवाच:
स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य |
४० क
वैशम्पाय़न उवाच:
नैतच्चित्रं परमर्षे त्वय़ीति; प्रसन्नचेताः स उवाच चैनम् ||
४० ख
व्यास उवाच:
आसीत्तपोवने काचिदृषेः कन्या महात्मनः |
४१ क
व्यास उवाच:
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ||
४१ ख
व्यास उवाच:
तोषय़ामास तपसा सा किलोग्रेण शङ्करम् |
४२ क
व्यास उवाच:
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वय़म् ||
४२ ख
व्यास उवाच:
सैवमुक्ताव्रवीत्कन्या देवं वरदमीश्वरम् |
४३ क
व्यास उवाच:
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ||
४३ ख
व्यास उवाच:
ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा |
४४ क
व्यास उवाच:
पञ्च ते पतय़ः श्रेष्ठा भविष्यन्तीति शङ्करः ||
४४ ख
व्यास उवाच:
सा प्रसादय़ती देवमिदं भूय़ोऽभ्यभाषत |
४५ क
व्यास उवाच:
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा |
४५ ख
व्यास उवाच:
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ||
४५ ग
व्यास उवाच:
पञ्चकृत्वस्त्वय़ा उक्तः पतिं देहीत्यहं पुनः |
४६ क
व्यास उवाच:
तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते |
४६ ख
व्यास उवाच:
देहमन्यं गताय़ास्ते यथोक्तं तद्भविष्यति ||
४६ ग
व्यास उवाच:
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी |
४७ क
व्यास उवाच:
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ||
४७ ख
व्यास उवाच:
स्वर्गश्रीः पाण्डवार्थाय़ समुत्पन्ना महामखे |
४८ क
व्यास उवाच:
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ||
४८ ख