वासुदेव उवाच:
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः |
४९ क
वासुदेव उवाच:
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीय़त ||
४९ ख
वासुदेव उवाच:
कच्चिदेतत्त्वय़ा पार्थ श्रुतमेकाग्रचेतसा |
५० क
वासुदेव उवाच:
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ||
५० ख
वासुदेव उवाच:
नैतत्पार्थ सुविज्ञेय़ं व्यामिश्रेणेति मे मतिः |
५१ क
वासुदेव उवाच:
नरेणाकृतसञ्ज्ञेन विदग्धेनाकृतात्मना ||
५१ ख
वासुदेव उवाच:
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ |
५२ क
वासुदेव उवाच:
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् ||
५२ ख
वासुदेव उवाच:
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ |
५३ क
वासुदेव उवाच:
नैतदद्य सुविज्ञेय़ं व्यामिश्रेणान्तरात्मना ||
५३ ख
वासुदेव उवाच:
क्रिय़ावद्भिर्हि कौन्तेय़ देवलोकः समावृतः |
५४ क
वासुदेव उवाच:
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ||
५४ ख
वासुदेव उवाच:
परा हि सा गतिः पार्थ यत्तद्व्रह्म सनातनम् |
५५ क
वासुदेव उवाच:
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ||
५५ ख
वासुदेव उवाच:
एवं हि धर्ममास्थाय़ येऽपि स्युः पापय़ोनय़ः |
५६ क
वासुदेव उवाच:
स्त्रिय़ो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||
५६ ख
वासुदेव उवाच:
किं पुनर्व्राह्मणाः पार्थ क्षत्रिय़ा वा वहुश्रुताः |
५७ क
वासुदेव उवाच:
स्वधर्मरतय़ो नित्यं व्रह्मलोकपराय़णाः ||
५७ ख
वासुदेव उवाच:
हेतुमच्चैतदुद्दिष्टमुपाय़ाश्चास्य साधने |
५८ क
वासुदेव उवाच:
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णय़ः |
५८ ख
वासुदेव उवाच:
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ||
५८ ग
वासुदेव उवाच:
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव |
५९ क
वासुदेव उवाच:
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् |
५९ ख
वासुदेव उवाच:
एतैरुपाय़ैः स क्षिप्रं परां गतिमवाप्नुय़ात् ||
५९ ग
वासुदेव उवाच:
एतावदेव वक्तव्यं नातो भूय़ोऽस्ति किञ्चन |
६० क
वासुदेव उवाच:
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ||
६० ख