सञ्जय़ उवाच:
सादितैः सगजारोहैः सपताकैः समन्ततः |
५१ क
सञ्जय़ उवाच:
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ||
५१ ख
सञ्जय़ उवाच:
गजस्थाश्च महामात्रा निर्भिन्नहृदय़ा रणे |
५२ क
सञ्जय़ उवाच:
रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ||
५२ ख
सञ्जय़ उवाच:
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः |
५३ क
सञ्जय़ उवाच:
परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश ||
५३ ख
सञ्जय़ उवाच:
गजाश्वरथसङ्घानां शरीरौघसमावृता |
५४ क
सञ्जय़ उवाच:
वभूव पृथिवी राजन्मांसशोणितकर्दमा ||
५४ ख
सञ्जय़ उवाच:
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः |
५५ क
सञ्जय़ उवाच:
सचक्राश्च विचक्राश्च रथैरेव महारथाः ||
५५ ख
सञ्जय़ उवाच:
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः |
५६ क
सञ्जय़ उवाच:
हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः ||
५६ ख
सञ्जय़ उवाच:
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |
५७ क
सञ्जय़ उवाच:
इत्यासीत्तुमुलं युद्धं न प्रज्ञाय़त किञ्चन ||
५७ ख
सञ्जय़ उवाच:
आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे |
५८ क
सञ्जय़ उवाच:
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ||
५८ ख
सञ्जय़ उवाच:
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च |
५९ क
सञ्जय़ उवाच:
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ||
५९ ख
सञ्जय़ उवाच:
हय़ौघाश्च रथौघाश्च नरौघाश्च निपातिताः |
६० क
सञ्जय़ उवाच:
संवृत्ताः पुनरावृत्ता वहुधा रथनेमिभिः ||
६० ख
सञ्जय़ उवाच:
स गजौघमहावेगः परासुनरशैवलः |
६१ क
सञ्जय़ उवाच:
रथौघतुमुलावर्तः प्रवभौ सैन्यसागरः ||
६१ ख
सञ्जय़ उवाच:
तं वाहनमहानौभिर्योधा जय़धनैषिणः |
६२ क
सञ्जय़ उवाच:
अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे ||
६२ ख
सञ्जय़ उवाच:
शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु |
६३ क
सञ्जय़ उवाच:
न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः ||
६३ ख
सञ्जय़ उवाच:
वर्तमाने तथा युद्धे घोररूपे भय़ङ्करे |
६४ क
सञ्जय़ उवाच:
मोहय़ित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ||
६४ ख