सञ्जय़ उवाच:
द्वन्द्वान्यासन्महाराज प्रेक्षणीय़ानि संय़ुगे |
४७ क
सञ्जय़ उवाच:
विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ||
४७ ख
सञ्जय़ उवाच:
अय़ुध्यन्त महावेगाः परस्परवधैषिणः |
४८ क
सञ्जय़ उवाच:
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः |
४८ ख
सञ्जय़ उवाच:
न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन ||
४८ ग
सञ्जय़ उवाच:
मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् |
४९ क
सञ्जय़ उवाच:
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ||
४९ ख
सञ्जय़ उवाच:
रथी नागं समासाद्य विचरन्रणमूर्धनि |
५० क
सञ्जय़ उवाच:
प्रेषय़ामास कालाय़ शरैः संनतपर्वभिः ||
५० ख
सञ्जय़ उवाच:
नागा हय़ान्समासाद्य विक्षिपन्तो वहूनथ |
५१ क
सञ्जय़ उवाच:
द्रावय़ामासुरत्युग्रास्तत्र तत्र तदा तदा ||
५१ ख
सञ्जय़ उवाच:
विद्राव्य च वहूनश्वान्नागा राजन्वलोत्कटाः |
५२ क
सञ्जय़ उवाच:
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ||
५२ ख
सञ्जय़ उवाच:
साश्वारोहांश्च तुरगान्विषाणैर्विभिदू रणे |
५३ क
सञ्जय़ उवाच:
अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिवलास्तथा ||
५३ ख
सञ्जय़ उवाच:
पादातैराहता नागा विवरेषु समन्ततः |
५४ क
सञ्जय़ उवाच:
चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश ||
५४ ख
सञ्जय़ उवाच:
पदातीनां तु सहसा प्रद्रुतानां महामृधे |
५५ क
सञ्जय़ उवाच:
उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे ||
५५ ख
सञ्जय़ उवाच:
निमित्तं मन्यमानास्तु परिणम्य महागजाः |
५६ क
सञ्जय़ उवाच:
जगृहुर्विभिदुश्चैव चित्राण्याभरणानि च ||
५६ ख
सञ्जय़ उवाच:
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे |
५७ क
सञ्जय़ उवाच:
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ||
५७ ख
सञ्जय़ उवाच:
निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः |
५८ क
सञ्जय़ उवाच:
रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि ||
५८ ख
सञ्जय़ उवाच:
सरथं सादिनं तत्र अपरे तु महागजाः |
५९ क
सञ्जय़ उवाच:
भूमावमृद्नन्वेगेन सवर्माणं पताकिनम् ||
५९ ख
सञ्जय़ उवाच:
रथं नागाः समासाद्य धुरि गृह्य च मारिष |
६० क
सञ्जय़ उवाच:
व्याक्षिपन्सहसा तत्र घोररूपे महामृधे ||
६० ख
सञ्जय़ उवाच:
नाराचैर्निहतश्चापि निपपात महागजः |
६१ क
सञ्जय़ उवाच:
पर्वतस्येव शिखरं वज्रभग्नं महीतले ||
६१ ख
सञ्जय़ उवाच:
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि |
६२ क
सञ्जय़ उवाच:
केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्विभिदुः सह ||
६२ ख
सञ्जय़ उवाच:
उद्यम्य च भुजावन्यो निक्षिप्य च महीतले |
६३ क
सञ्जय़ उवाच:
पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः ||
६३ ख
सञ्जय़ उवाच:
मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा |
६४ क
सञ्जय़ उवाच:
जीवतश्च तथैवान्यः शस्त्रं काय़े न्यमज्जय़त् ||
६४ ख
सञ्जय़ उवाच:
मुष्टिय़ुद्धं महच्चासीद्योधानां तत्र भारत |
६५ क
सञ्जय़ उवाच:
तथा केशग्रहश्चोग्रो वाहुय़ुद्धं च केवलम् ||
६५ ख
सञ्जय़ उवाच:
समासक्तस्य चान्येन अविज्ञातस्तथापरः |
६६ क
सञ्जय़ उवाच:
जहार समरे प्राणान्नानाशस्त्रैरनेकधा ||
६६ ख
सञ्जय़ उवाच:
संसक्तेषु च योधेषु वर्तमाने च सङ्कुले |
६७ क
सञ्जय़ उवाच:
कवन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः ||
६७ ख
सञ्जय़ उवाच:
लोहितैः सिच्यमानानि शस्त्राणि कवचानि च |
६८ क
सञ्जय़ उवाच:
महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे ||
६८ ख
सञ्जय़ उवाच:
एवमेतन्महाय़ुद्धं दारुणं भृशसङ्कुलम् |
६९ क
सञ्जय़ उवाच:
उन्मत्तरङ्गप्रतिमं शव्देनापूरय़ज्जगत् ||
६९ ख
सञ्जय़ उवाच:
नैव स्वे न परे राजन्विज्ञाय़न्ते शरातुराः |
७० क
सञ्जय़ उवाच:
योद्धव्यमिति युध्यन्ते राजानो जय़गृद्धिनः ||
७० ख
सञ्जय़ उवाच:
स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् |
७१ क
सञ्जय़ उवाच:
उभय़ोः सेनय़ोर्वीरैर्व्याकुलं समपद्यत ||
७१ ख
सञ्जय़ उवाच:
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः |
७२ क
सञ्जय़ उवाच:
हय़ैश्च पतितैस्तत्र नरैश्च विनिपातितैः ||
७२ ख
सञ्जय़ उवाच:
अगम्यरूपा पृथिवी मांसशोणितकर्दमा |
७३ क
सञ्जय़ उवाच:
क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी ||
७३ ख
सञ्जय़ उवाच:
पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनञ्जय़ः |
७४ क
सञ्जय़ उवाच:
भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ||
७४ ख
सञ्जय़ उवाच:
एवमेष क्षय़ो वृत्तः कुरुपाण्डवसेनय़ोः |
७५ क
सञ्जय़ उवाच:
अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जय़म् ||
७५ ख