chevron_left स्त्री पर्व अध्याय १९
गान्धार्यु उवाच:
एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः |
१ क
गान्धार्यु उवाच:
भूमौ विनिहतः शेते भीमेन शतधा कृतः ||
१ ख
गान्धार्यु उवाच:
गजमध्यगतः शेते विकर्णो मधुसूदन |
२ क
गान्धार्यु उवाच:
नीलमेघपरिक्षिप्तः शरदीव दिवाकरः ||
२ ख
गान्धार्यु उवाच:
अस्य चापग्रहेणैष पाणिः कृतकिणो महान् |
३ क
गान्धार्यु उवाच:
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् ||
३ ख
गान्धार्यु उवाच:
अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी |
४ क
गान्धार्यु उवाच:
वारय़त्यनिशं वाला न च शक्नोति माधव ||
४ ख
गान्धार्यु उवाच:
युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ |
५ क
गान्धार्यु उवाच:
सुखोचितः सुखार्हश्च शेते पांसुषु माधव ||
५ ख
गान्धार्यु उवाच:
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे |
६ क
गान्धार्यु उवाच:
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् ||
६ ख
गान्धार्यु उवाच:
एष सङ्ग्रामशूरेण प्रतिज्ञां पालय़िष्यता |
७ क
गान्धार्यु उवाच:
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे ||
७ ख
गान्धार्यु उवाच:
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् |
८ क
गान्धार्यु उवाच:
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः ||
८ ख
गान्धार्यु उवाच:
शूरस्य हि रणे कृष्ण यस्याननमथेदृशम् |
९ क
गान्धार्यु उवाच:
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः ||
९ ख
गान्धार्यु उवाच:
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते |
१० क
गान्धार्यु उवाच:
स कथं दुर्मुखोऽमित्रैर्हतो विवुधलोकजित् ||
१० ख
गान्धार्यु उवाच:
चित्रसेनं हतं भूमौ शय़ानं मधुसूदन |
११ क
गान्धार्यु उवाच:
धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम् ||
११ ख
गान्धार्यु उवाच:
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः |
१२ क
गान्धार्यु उवाच:
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते ||
१२ ख
गान्धार्यु उवाच:
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् |
१३ क
गान्धार्यु उवाच:
चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे ||
१३ ख
गान्धार्यु उवाच:
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः |
१४ क
गान्धार्यु उवाच:
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव ||
१४ ख
गान्धार्यु उवाच:
शरसङ्कृत्तवर्माणं वीरं विशसने हतम् |
१५ क
गान्धार्यु उवाच:
परिवार्यासते गृध्राः परिविंशा विविंशतिम् ||
१५ ख
गान्धार्यु उवाच:
प्रविश्य समरे वीरः पाण्डवानामनीकिनीम् |
१६ क
गान्धार्यु उवाच:
आविश्य शय़ने शेते पुनः सत्पुरुषोचितम् ||
१६ ख
गान्धार्यु उवाच:
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् |
१७ क
गान्धार्यु उवाच:
अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः ||
१७ ख
गान्धार्यु उवाच:
यं स्म तं पर्युपासन्ते वसुं वासवय़ोषितः |
१८ क
गान्धार्यु उवाच:
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः ||
१८ ख
गान्धार्यु उवाच:
हन्तारं वीरसेनानां शूरं समितिशोभनम् |
१९ क
गान्धार्यु उवाच:
निवर्हणममित्राणां दुःसहं विषहेत कः ||
१९ ख
गान्धार्यु उवाच:
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः |
२० क
गान्धार्यु उवाच:
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः ||
२० ख
गान्धार्यु उवाच:
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता |
२१ क
गान्धार्यु उवाच:
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः ||
२१ ख