chevron_left शान्ति पर्व अध्याय १९
युधिष्ठिर उवाच:
वेदाहं तात शास्त्राणि अपराणि पराणि च |
१ क
युधिष्ठिर उवाच:
उभय़ं वेदवचनं कुरु कर्म त्यजेति च ||
१ ख
युधिष्ठिर उवाच:
आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च |
२ क
युधिष्ठिर उवाच:
निश्चय़श्चैव यन्मात्रो वेदाहं तं यथाविधि ||
२ ख
युधिष्ठिर उवाच:
त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः |
३ क
युधिष्ठिर उवाच:
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथञ्चन ||
३ ख
युधिष्ठिर उवाच:
शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चय़कोविदः |
४ क
युधिष्ठिर उवाच:
तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि ||
४ ख
युधिष्ठिर उवाच:
भ्रातृसौहृदमास्थाय़ यदुक्तं वचनं त्वय़ा |
५ क
युधिष्ठिर उवाच:
न्याय़्यं युक्तं च कौन्तेय़ प्रीतोऽहं तेन तेऽर्जुन ||
५ ख
युधिष्ठिर उवाच:
युद्धधर्मेषु सर्वेषु क्रिय़ाणां नैपुणेषु च |
६ क
युधिष्ठिर उवाच:
न त्वय़ा सदृशः कश्चित्त्रिषु लोकेषु विद्यते ||
६ ख
युधिष्ठिर उवाच:
धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वय़ा |
७ क
युधिष्ठिर उवाच:
धनञ्जय़ न मे वुद्धिमभिशङ्कितुमर्हसि ||
७ ख
युधिष्ठिर उवाच:
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वय़ा |
८ क
युधिष्ठिर उवाच:
समासविस्तरविदां न तेषां वेत्सि निश्चय़म् ||
८ ख
युधिष्ठिर उवाच:
तपस्त्यागो विधिरिति निश्चय़स्तात धीमताम् |
९ क
युधिष्ठिर उवाच:
परं परं ज्याय़ एषां सैषा नैःश्रेय़सी गतिः ||
९ ख
युधिष्ठिर उवाच:
न त्वेतन्मन्यसे पार्थ न ज्याय़ोऽस्ति धनादिति |
१० क
युधिष्ठिर उवाच:
अत्र ते वर्तय़िष्यामि यथा नैतत्प्रधानतः ||
१० ख
युधिष्ठिर उवाच:
तपःस्वाध्याय़शीला हि दृश्यन्ते धार्मिका जनाः |
११ क
युधिष्ठिर उवाच:
ऋषय़स्तपसा युक्ता येषां लोकाः सनातनाः ||
११ ख
युधिष्ठिर उवाच:
अजातश्मश्रवो धीरास्तथान्ये वनवासिनः |
१२ क
युधिष्ठिर उवाच:
अनन्ता अधना एव स्वाध्याय़ेन दिवं गताः ||
१२ ख
युधिष्ठिर उवाच:
उत्तरेण तु पन्थानमार्या विषय़निग्रहात् |
१३ क
युधिष्ठिर उवाच:
अवुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ||
१३ ख
युधिष्ठिर उवाच:
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि |
१४ क
युधिष्ठिर उवाच:
एते क्रिय़ावतां लोका ये श्मशानानि भेजिरे ||
१४ ख
युधिष्ठिर उवाच:
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः |
१५ क
युधिष्ठिर उवाच:
तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् ||
१५ ख
युधिष्ठिर उवाच:
अनुसृत्य तु शास्त्राणि कवय़ः समवस्थिताः |
१६ क
युधिष्ठिर उवाच:
अपीह स्यादपीह स्यात्सारासारदिदृक्षय़ा ||
१६ ख
युधिष्ठिर उवाच:
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च |
१७ क
युधिष्ठिर उवाच:
विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते ||
१७ ख
युधिष्ठिर उवाच:
अथैकान्तव्युदासेन शरीरे पञ्चभौतिके |
१८ क
युधिष्ठिर उवाच:
इच्छाद्वेषसमाय़ुक्तमात्मानं प्राहुरिङ्गितैः ||
१८ ख
युधिष्ठिर उवाच:
अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा |
१९ क
युधिष्ठिर उवाच:
कर्महेतुपुरस्कारं भूतेषु परिवर्तते ||
१९ ख
युधिष्ठिर उवाच:
कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च |
२० क
युधिष्ठिर उवाच:
कर्मसन्ततिमुत्सृज्य स्यान्निरालम्वनः सुखी ||
२० ख
युधिष्ठिर उवाच:
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते |
२१ क
युधिष्ठिर उवाच:
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ||
२१ ख
युधिष्ठिर उवाच:
पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत |
२२ क
युधिष्ठिर उवाच:
क्रिय़ासु निरता नित्यं दाने यज्ञे च कर्मणि ||
२२ ख
युधिष्ठिर उवाच:
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः |
२३ क
युधिष्ठिर उवाच:
दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः ||
२३ ख
युधिष्ठिर उवाच:
अमृतस्यावमन्तारो वक्तारो जनसंसदि |
२४ क
युधिष्ठिर उवाच:
चरन्ति वसुधां कृत्स्नां वावदूका वहुश्रुताः ||
२४ ख
युधिष्ठिर उवाच:
यान्वय़ं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति |
२५ क
युधिष्ठिर उवाच:
एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् ||
२५ ख
युधिष्ठिर उवाच:
तपसा महदाप्नोति वुद्ध्या वै विन्दते महत् |
२६ क
युधिष्ठिर उवाच:
त्यागेन सुखमाप्नोति सदा कौन्तेय़ धर्मवित् ||
२६ ख