chevron_left अनुशासन पर्व अध्याय १९
युधिष्ठिर उवाच:
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ |
१ क
युधिष्ठिर उवाच:
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ||
१ ख
युधिष्ठिर उवाच:
आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः |
२ क
युधिष्ठिर उवाच:
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ||
२ ख
युधिष्ठिर उवाच:
सन्देहः सुमहानेष विरुद्ध इति मे मतिः |
३ क
युधिष्ठिर उवाच:
इह यः सहधर्मो वै प्रेत्याय़ं विहितः क्व नु ||
३ ख
युधिष्ठिर उवाच:
स्वर्गे मृतानां भवति सहधर्मः पितामह |
४ क
युधिष्ठिर उवाच:
पूर्वमेकस्तु म्रिय़ते क्व चैकस्तिष्ठते वद ||
४ ख
युधिष्ठिर उवाच:
नानाकर्मफलोपेता नानाकर्मनिवासिनः |
५ क
युधिष्ठिर उवाच:
नानानिरय़निष्ठान्ता मानुषा वहवो यदा ||
५ ख
युधिष्ठिर उवाच:
अनृताः स्त्रिय़ इत्येवं सूत्रकारो व्यवस्यति |
६ क
युधिष्ठिर उवाच:
यदानृताः स्त्रिय़स्तात सहधर्मः कुतः स्मृतः ||
६ ख
युधिष्ठिर उवाच:
अनृताः स्त्रिय़ इत्येवं वेदेष्वपि हि पठ्यते |
७ क
युधिष्ठिर उवाच:
धर्मोऽय़ं पौर्विकी सञ्ज्ञा उपचारः क्रिय़ाविधिः ||
७ ख
युधिष्ठिर उवाच:
गह्वरं प्रतिभात्येतन्मम चिन्तय़तोऽनिशम् |
८ क
युधिष्ठिर उवाच:
निःसन्देहमिदं सर्वं पितामह यथा श्रुतिः ||
८ ख
युधिष्ठिर उवाच:
यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् |
९ क
युधिष्ठिर उवाच:
निखिलेन महाप्राज्ञ भवानेतद्व्रवीतु मे ||
९ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१० क
भीष्म उवाच:
अष्टावक्रस्य संवादं दिशय़ा सह भारत ||
१० ख
भीष्म उवाच:
निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः |
११ क
भीष्म उवाच:
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः ||
११ ख
भीष्म उवाच:
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि |
१२ क
भीष्म उवाच:
गुणप्रवर्हां शीलेन साध्वीं चारित्रशोभनाम् ||
१२ ख
भीष्म उवाच:
सा तस्य दृष्ट्वैव मनो जहार शुभलोचना |
१३ क
भीष्म उवाच:
वनराजी यथा चित्रा वसन्ते कुसुमाचिता ||
१३ ख
भीष्म उवाच:
ऋषिस्तमाह देय़ा मे सुता तुभ्यं शृणुष्व मे |
१४ क
भीष्म उवाच:
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ||
१४ ख
अष्टावक्र उवाच:
किं द्रष्टव्यं मय़ा तत्र वक्तुमर्हति मे भवान् |
१५ क
अष्टावक्र उवाच:
तथेदानीं मय़ा कार्यं यथा वक्ष्यति मां भवान् ||
१५ ख
वदान्य उवाच:
धनदं समतिक्रम्य हिमवन्तं तथैव च |
१६ क
वदान्य उवाच:
रुद्रस्याय़तनं दृष्ट्वा सिद्धचारणसेवितम् ||
१६ ख
वदान्य उवाच:
प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः |
१७ क
वदान्य उवाच:
दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ||
१७ ख
वदान्य उवाच:
पाणितालसतालैश्च शम्यातालैः समैस्तथा |
१८ क
वदान्य उवाच:
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ||
१८ ख
वदान्य उवाच:
इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम |
१९ क
वदान्य उवाच:
नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ||
१९ ख
वदान्य उवाच:
तत्र देव्या तपस्तप्तं शङ्करार्थं सुदुश्चरम् |
२० क
वदान्य उवाच:
अतस्तदिष्टं देवस्य तथोमाय़ा इति श्रुतिः ||
२० ख
वदान्य उवाच:
तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा |
२१ क
वदान्य उवाच:
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ||
२१ ख
वदान्य उवाच:
सर्वे देवमुपासन्ते रूपिणः किल तत्र ह |
२२ क
वदान्य उवाच:
तदतिक्रम्य भवनं त्वय़ा यातव्यमेव हि ||
२२ ख
वदान्य उवाच:
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् |
२३ क
वदान्य उवाच:
रमणीय़ं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रिय़म् ||
२३ ख
वदान्य उवाच:
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् |
२४ क
वदान्य उवाच:
द्रष्टव्या सा त्वय़ा तत्र सम्पूज्या चैव यत्नतः ||
२४ ख
वदान्य उवाच:
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि |
२५ क
वदान्य उवाच:
यद्येष समय़ः सत्यः साध्यतां तत्र गम्यताम् ||
२५ ख