chevron_left आश्रमवासिक पर्व अध्याय १९
वैशम्पाय़न उवाच:
एवमुक्तस्तु राज्ञा स विदुरो वुद्धिसत्तमः |
१ क
वैशम्पाय़न उवाच:
धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् ||
१ ख
वैशम्पाय़न उवाच:
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः |
२ क
वैशम्पाय़न उवाच:
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ||
२ ख
वैशम्पाय़न उवाच:
वीभत्सुश्च महातेजा निवेदय़ति ते गृहान् |
३ क
वैशम्पाय़न उवाच:
वसु तस्य गृहे यच्च प्राणानपि च केवलान् ||
३ ख
वैशम्पाय़न उवाच:
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च |
४ क
वैशम्पाय़न उवाच:
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन ||
४ ख
वैशम्पाय़न उवाच:
भीमस्तु सर्वदुःखानि संस्मृत्य वहुलान्युत |
५ क
वैशम्पाय़न उवाच:
कृच्छ्रादिव महावाहुरनुमन्ये विनिःश्वसन् ||
५ ख
वैशम्पाय़न उवाच:
स राज्ञा धर्मशीलेन भ्रात्रा वीभत्सुना तथा |
६ क
वैशम्पाय़न उवाच:
अनुनीतो महावाहुः सौहृदे स्थापितोऽपि च ||
६ ख
वैशम्पाय़न उवाच:
न च मन्युस्त्वय़ा कार्य इति त्वां प्राह धर्मराट् |
७ क
वैशम्पाय़न उवाच:
संस्मृत्य भीमस्तद्वैरं यदन्याय़वदाचरेत् ||
७ ख
वैशम्पाय़न उवाच:
एवम्प्राय़ो हि धर्मोऽय़ं क्षत्रिय़ाणां नराधिप |
८ क
वैशम्पाय़न उवाच:
युद्धे क्षत्रिय़धर्मे च निरतोऽय़ं वृकोदरः ||
८ ख
वैशम्पाय़न उवाच:
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः |
९ क
वैशम्पाय़न उवाच:
प्रसादय़ाव नृपते भवान्प्रभुरिहास्ति यत् ||
९ ख
वैशम्पाय़न उवाच:
प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव |
१० क
वैशम्पाय़न उवाच:
त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत ||
१० ख
वैशम्पाय़न उवाच:
व्रह्मदेय़ाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् |
११ क
वैशम्पाय़न उवाच:
इतो रत्नानि गाश्चैव दासीदासमजाविकम् ||
११ ख
वैशम्पाय़न उवाच:
आनय़ित्वा कुरुश्रेष्ठो व्राह्मणेभ्यः प्रय़च्छतु |
१२ क
वैशम्पाय़न उवाच:
दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञय़ा ||
१२ ख
वैशम्पाय़न उवाच:
वह्वन्नरसपानाढ्याः सभा विदुर कारय़ |
१३ क
वैशम्पाय़न उवाच:
गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् ||
१३ ख
वैशम्पाय़न उवाच:
इति मामव्रवीद्राजा पार्थश्चैव धनञ्जय़ः |
१४ क
वैशम्पाय़न उवाच:
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ||
१४ ख
वैशम्पाय़न उवाच:
इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् |
१५ क
वैशम्पाय़न उवाच:
मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय़ ||
१५ ख