वासुदेव उवाच:
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्वुमान् |
१ क
वासुदेव उवाच:
निरामय़ः सुवेश्माढ्यो निवेशो मागधः शुभः ||
१ ख
वासुदेव उवाच:
वैहारो विपुलः शैलो वराहो वृषभस्तथा |
२ क
वासुदेव उवाच:
तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ||
२ ख
वासुदेव उवाच:
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः |
३ क
वासुदेव उवाच:
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ||
३ ख
वासुदेव उवाच:
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः |
४ क
वासुदेव उवाच:
निगूढा इव लोध्राणां वनैः कामिजनप्रिय़ैः ||
४ ख
वासुदेव उवाच:
शूद्राय़ां गौतमो यत्र महात्मा संशितव्रतः |
५ क
वासुदेव उवाच:
औशीनर्यामजनय़त्काक्षीवादीन्सुतानृषिः ||
५ ख
वासुदेव उवाच:
गौतमः क्षय़णादस्मादथासौ तत्र वेश्मनि |
६ क
वासुदेव उवाच:
भजते मागधं वंशं स नृपाणामनुग्रहात् ||
६ ख
वासुदेव उवाच:
अङ्गवङ्गादय़श्चैव राजानः सुमहावलाः |
७ क
वासुदेव उवाच:
गौतमक्षय़मभ्येत्य रमन्ते स्म पुरार्जुन ||
७ ख
वासुदेव उवाच:
वनराजीस्तु पश्येमाः प्रिय़ालानां मनोरमाः |
८ क
वासुदेव उवाच:
लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः ||
८ ख
वासुदेव उवाच:
अर्वुदः शक्रवापी च पन्नगौ शत्रुतापनौ |
९ क
वासुदेव उवाच:
स्वस्तिकस्यालय़श्चात्र मणिनागस्य चोत्तमः ||
९ ख
वासुदेव उवाच:
अपरिहार्या मेघानां मागधेय़ं मणेः कृते |
१० क
वासुदेव उवाच:
कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् ||
१० ख
वासुदेव उवाच:
अर्थसिद्धिं त्वनपगां जरासन्धोऽभिमन्यते |
११ क
वासुदेव उवाच:
वय़मासादने तस्य दर्पमद्य निहन्म हि ||
११ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः |
१२ क
वैशम्पाय़न उवाच:
वार्ष्णेय़ः पाण्डवेय़ौ च प्रतस्थुर्मागधं पुरम् ||
१२ ख
वैशम्पाय़न उवाच:
तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् |
१३ क
वैशम्पाय़न उवाच:
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ||
१३ ख
वैशम्पाय़न उवाच:
तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् |
१४ क
वैशम्पाय़न उवाच:
वार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ||
१४ ख
वैशम्पाय़न उवाच:
यत्र माषादमृषभमाससाद वृहद्रथः |
१५ क
वैशम्पाय़न उवाच:
तं हत्वा माषनालाश्च तिस्रो भेरीरकारय़त् ||
१५ ख
वैशम्पाय़न उवाच:
आनह्य चर्मणा तेन स्थापय़ामास स्वे पुरे |
१६ क
वैशम्पाय़न उवाच:
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ||
१६ ख
वैशम्पाय़न उवाच:
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् |
१७ क
वैशम्पाय़न उवाच:
शिरसीव जिघांसन्तो जरासन्धजिघांसवः ||
१७ ख
वैशम्पाय़न उवाच:
स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् |
१८ क
वैशम्पाय़न उवाच:
अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् ||
१८ ख
वैशम्पाय़न उवाच:
विपुलैर्वाहुभिर्वीरास्तेऽभिहत्याभ्यपातय़न् |
१९ क
वैशम्पाय़न उवाच:
ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा ||
१९ ख
वैशम्पाय़न उवाच:
एतस्मिन्नेव काले तु जरासन्धं समर्चय़न् |
२० क
वैशम्पाय़न उवाच:
पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ||
२० ख
वैशम्पाय़न उवाच:
स्नातकव्रतिनस्ते तु वाहुशस्त्रा निराय़ुधाः |
२१ क
वैशम्पाय़न उवाच:
युय़ुत्सवः प्रविविशुर्जरासन्धेन भारत ||
२१ ख
वैशम्पाय़न उवाच:
भक्ष्यमाल्यापणानां च ददृशुः श्रिय़मुत्तमाम् |
२२ क
वैशम्पाय़न उवाच:
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ||
२२ ख
वैशम्पाय़न उवाच:
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः |
२३ क
वैशम्पाय़न उवाच:
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जय़ाः ||
२३ ख
वैशम्पाय़न उवाच:
वलाद्गृहीत्वा माल्यानि मालाकारान्महावलाः |
२४ क
वैशम्पाय़न उवाच:
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ||
२४ ख
वैशम्पाय़न उवाच:
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः |
२५ क
वैशम्पाय़न उवाच:
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ||
२५ ख
वैशम्पाय़न उवाच:
शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः |
२६ क
वैशम्पाय़न उवाच:
अशोभन्त महाराज वाहवो वाहुशालिनाम् ||
२६ ख
वैशम्पाय़न उवाच:
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् |
२७ क
वैशम्पाय़न उवाच:
व्यूढोरस्कान्मागधानां विस्मय़ः समजाय़त ||
२७ ख
वैशम्पाय़न उवाच:
ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः |
२८ क
वैशम्पाय़न उवाच:
अहङ्कारेण राजानमुपतस्थुर्महावलाः ||
२८ ख
वैशम्पाय़न उवाच:
तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् |
२९ क
वैशम्पाय़न उवाच:
प्रत्युत्थाय़ जरासन्ध उपतस्थे यथाविधि ||
२९ ख
वैशम्पाय़न उवाच:
उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः |
३० क
वैशम्पाय़न उवाच:
तस्य ह्येतद्व्रतं राजन्वभूव भुवि विश्रुतम् ||
३० ख
वैशम्पाय़न उवाच:
स्नातकान्व्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जय़ः |
३१ क
वैशम्पाय़न उवाच:
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ||
३१ ख
वैशम्पाय़न उवाच:
तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः |
३२ क
वैशम्पाय़न उवाच:
उपतस्थे जरासन्धो विस्मितश्चाभवत्तदा ||
३२ ख
वैशम्पाय़न उवाच:
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः |
३३ क
वैशम्पाय़न उवाच:
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ||
३३ ख
वैशम्पाय़न उवाच:
स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः |
३४ क
वैशम्पाय़न उवाच:
तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् ||
३४ ख
वैशम्पाय़न उवाच:
तानव्रवीज्जरासन्धस्तदा यादवपाण्डवान् |
३५ क
वैशम्पाय़न उवाच:
आस्यतामिति राजेन्द्र व्राह्मणच्छद्मसंवृतान् ||
३५ ख
वैशम्पाय़न उवाच:
अथोपविविशुः सर्वे त्रय़स्ते पुरुषर्षभाः |
३६ क
वैशम्पाय़न उवाच:
सम्प्रदीप्तास्त्रय़ो लक्ष्म्या महाध्वर इवाग्नय़ः ||
३६ ख
वैशम्पाय़न उवाच:
तानुवाच जरासन्धः सत्यसन्धो नराधिपः |
३७ क
वैशम्पाय़न उवाच:
विगर्हमाणः कौरव्य वेषग्रहणकारणात् ||
३७ ख
वैशम्पाय़न उवाच:
न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः |
३८ क
वैशम्पाय़न उवाच:
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ||
३८ ख
वैशम्पाय़न उवाच:
ते यूय़ं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः |
३९ क
वैशम्पाय़न उवाच:
विभ्रतः क्षात्रमोजश्च व्राह्मण्यं प्रतिजानथ ||
३९ ख
वैशम्पाय़न उवाच:
एवं विरागवसना वहिर्माल्यानुलेपनाः |
४० क
वैशम्पाय़न उवाच:
सत्यं वदत के यूय़ं सत्यं राजसु शोभते ||
४० ख
वैशम्पाय़न उवाच:
चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः |
४१ क
वैशम्पाय़न उवाच:
अद्वारेण प्रविष्टाः स्थ निर्भय़ा राजकिल्विषात् ||
४१ ख
वैशम्पाय़न उवाच:
कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् |
४२ क
वैशम्पाय़न उवाच:
वदध्वं वाचि वीर्यं च व्राह्मणस्य विशेषतः ||
४२ ख
वैशम्पाय़न उवाच:
एवं च मामुपस्थाय़ कस्माच्च विधिनार्हणाम् |
४३ क
वैशम्पाय़न उवाच:
प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे ||
४३ ख
वैशम्पाय़न उवाच:
एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः |
४४ क
वैशम्पाय़न उवाच:
स्निग्धगम्भीरय़ा वाचा वाक्यं वाक्यविशारदः ||
४४ ख
वैशम्पाय़न उवाच:
स्नातकव्रतिनो राजन्व्राह्मणाः क्षत्रिय़ा विशः |
४५ क
वैशम्पाय़न उवाच:
विशेषनिय़माश्चैषामविशेषाश्च सन्त्युत ||
४५ ख
वैशम्पाय़न उवाच:
विशेषवांश्च सततं क्षत्रिय़ः श्रिय़मर्छति |
४६ क
वैशम्पाय़न उवाच:
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वय़म् ||
४६ ख
वैशम्पाय़न उवाच:
क्षत्रिय़ो वाहुवीर्यस्तु न तथा वाक्यवीर्यवान् |
४७ क
वैशम्पाय़न उवाच:
अप्रगल्भं वचस्तस्य तस्माद्वार्हद्रथे स्मृतम् ||
४७ ख
वैशम्पाय़न उवाच:
स्ववीर्यं क्षत्रिय़ाणां च वाह्वोर्धाता न्यवेशय़त् |
४८ क
वैशम्पाय़न उवाच:
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशय़ः ||
४८ ख
वैशम्पाय़न उवाच:
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् |
४९ क
वैशम्पाय़न उवाच:
प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः ||
४९ ख
वैशम्पाय़न उवाच:
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वय़म् |
५० क
वैशम्पाय़न उवाच:
प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् ||
५० ख