वैशम्पाय़न उवाच:
युय़ुधानस्ततो वीरः सात्वतानां महारथः |
१ क
वैशम्पाय़न उवाच:
महता चतुरङ्गेण वलेनागाद्युधिष्ठिरम् ||
१ ख
वैशम्पाय़न उवाच:
तस्य योधा महावीर्या नानादेशसमागताः |
२ क
वैशम्पाय़न उवाच:
नानाप्रहरणा वीराः शोभय़ां चक्रिरे वलम् ||
२ ख
वैशम्पाय़न उवाच:
परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः |
३ क
वैशम्पाय़न उवाच:
शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ||
३ ख
वैशम्पाय़न उवाच:
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि |
४ क
वैशम्पाय़न उवाच:
तैलधौतैः प्रकाशद्भिस्तदशोभत वै वलम् ||
४ ख
वैशम्पाय़न उवाच:
तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च |
५ क
वैशम्पाय़न उवाच:
वभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ||
५ ख
वैशम्पाय़न उवाच:
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं वलम् |
६ क
वैशम्पाय़न उवाच:
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ||
६ ख
वैशम्पाय़न उवाच:
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो वली |
७ क
वैशम्पाय़न उवाच:
धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ||
७ ख
वैशम्पाय़न उवाच:
मागधश्च जय़त्सेनो जारासन्धिर्महावलः |
८ क
वैशम्पाय़न उवाच:
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ||
८ ख
वैशम्पाय़न उवाच:
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः |
९ क
वैशम्पाय़न उवाच:
वृतो वहुविधैर्योधैर्युधिष्ठिरमुपागमत् ||
९ ख
वैशम्पाय़न उवाच:
तस्य सैन्यमतीवासीत्तस्मिन्वलसमागमे |
१० क
वैशम्पाय़न उवाच:
प्रेक्षणीय़तरं राजन्सुवेषं वलवत्तदा ||
१० ख
वैशम्पाय़न उवाच:
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः |
११ क
वैशम्पाय़न उवाच:
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ||
११ ख
वैशम्पाय़न उवाच:
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः |
१२ क
वैशम्पाय़न उवाच:
पार्वतीय़ैर्महीपालैः सहितः पाण्डवानिय़ात् ||
१२ ख
वैशम्पाय़न उवाच:
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् |
१३ क
वैशम्पाय़न उवाच:
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः |
१३ ख
वैशम्पाय़न उवाच:
युय़ुत्समानाः कुरुभिः पाण्डवान्समहर्षय़न् ||
१३ ग
वैशम्पाय़न उवाच:
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धय़न् |
१४ क
वैशम्पाय़न उवाच:
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ||
१४ ख
वैशम्पाय़न उवाच:
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् |
१५ क
वैशम्पाय़न उवाच:
वभौ वलमनाधृष्यं कर्णिकारवनं यथा ||
१५ ख
वैशम्पाय़न उवाच:
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन |
१६ क
वैशम्पाय़न उवाच:
दुर्योधनमुपाय़ातावक्षौहिण्या पृथक्पृथक् ||
१६ ख
वैशम्पाय़न उवाच:
कृतवर्मा च हार्दिक्यो भोजान्धकवलैः सह |
१७ क
वैशम्पाय़न उवाच:
अक्षौहिण्यैव सेनाय़ा दुर्योधनमुपागमत् ||
१७ ख
वैशम्पाय़न उवाच:
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्वलम् |
१८ क
वैशम्पाय़न उवाच:
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ||
१८ ख
वैशम्पाय़न उवाच:
जय़द्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः |
१९ क
वैशम्पाय़न उवाच:
आजग्मुः पृथिवीपालाः कम्पय़न्त इवाचलान् ||
१९ ख
वैशम्पाय़न उवाच:
तेषामक्षौहिणी सेना वहुला विवभौ तदा |
२० क
वैशम्पाय़न उवाच:
विधूय़माना वातेन वहुरूपा इवाम्वुदाः ||
२० ख
वैशम्पाय़न उवाच:
सुदक्षिणश्च काम्वोजो यवनैश्च शकैस्तथा |
२१ क
वैशम्पाय़न उवाच:
उपाजगाम कौरव्यमक्षौहिण्या विशां पते ||
२१ ख
वैशम्पाय़न उवाच:
तस्य सेनासमावाय़ः शलभानामिवावभौ |
२२ क
वैशम्पाय़न उवाच:
स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ||
२२ ख
वैशम्पाय़न उवाच:
तथा माहिष्मतीवासी नीलो नीलाय़ुधैः सह |
२३ क
वैशम्पाय़न उवाच:
महीपालो महावीर्यैर्दक्षिणापथवासिभिः ||
२३ ख
वैशम्पाय़न उवाच:
आवन्त्यौ च महीपालौ महावलसुसंवृतौ |
२४ क
वैशम्पाय़न उवाच:
पृथगक्षौहिणीभ्यां तावभिय़ातौ सुय़ोधनम् ||
२४ ख
वैशम्पाय़न उवाच:
केकय़ाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः |
२५ क
वैशम्पाय़न उवाच:
संहर्षय़न्तः कौरव्यमक्षौहिण्या समाद्रवन् ||
२५ ख
वैशम्पाय़न उवाच:
इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम् |
२६ क
वैशम्पाय़न उवाच:
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ||
२६ ख
वैशम्पाय़न उवाच:
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः |
२७ क
वैशम्पाय़न उवाच:
युय़ुत्समानाः कौन्तेय़ान्नानाध्वजसमाकुलाः ||
२७ ख
वैशम्पाय़न उवाच:
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा |
२८ क
वैशम्पाय़न उवाच:
राज्ञां सवलमुख्यानां प्राधान्येनापि भारत ||
२८ ख
वैशम्पाय़न उवाच:
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् |
२९ क
वैशम्पाय़न उवाच:
तथा रोहितकारण्यं मरुभूमिश्च केवला ||
२९ ख
वैशम्पाय़न उवाच:
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत |
३० क
वैशम्पाय़न उवाच:
वारणा वाटधानं च यामुनश्चैव पर्वतः ||
३० ख
वैशम्पाय़न उवाच:
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् |
३१ क
वैशम्पाय़न उवाच:
वभूव कौरवेय़ाणां वलेन सुसमाकुलः ||
३१ ख
वैशम्पाय़न उवाच:
तत्र सैन्यं तथाय़ुक्तं ददर्श स पुरोहितः |
३२ क
वैशम्पाय़न उवाच:
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ||
३२ ख