धृतराष्ट्र उवाच:
अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः |
१ क
धृतराष्ट्र उवाच:
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ||
१ ख
धृतराष्ट्र उवाच:
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् |
२ क
धृतराष्ट्र उवाच:
कथं भीष्मं स कौन्तेय़ः प्रत्यव्यूहत पाण्डवः ||
२ ख
सञ्जय़ उवाच:
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः |
३ क
सञ्जय़ उवाच:
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जय़म् ||
३ ख
सञ्जय़ उवाच:
महर्षेर्वचनात्तात वेदय़न्ति वृहस्पतेः |
४ क
सञ्जय़ उवाच:
संहतान्योधय़ेदल्पान्कामं विस्तारय़ेद्वहून् ||
४ ख
सञ्जय़ उवाच:
सूचीमुखमनीकं स्यादल्पानां वहुभिः सह |
५ क
सञ्जय़ उवाच:
अस्माकं च तथा सैन्यमल्पीय़ः सुतरां परैः ||
५ ख
सञ्जय़ उवाच:
एतद्वचनमाज्ञाय़ महर्षेर्व्यूह पाण्डव |
६ क
सञ्जय़ उवाच:
तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः ||
६ ख
सञ्जय़ उवाच:
एष व्यूहामि ते राजन्व्यूहं परमदुर्जय़म् |
७ क
सञ्जय़ उवाच:
अचलं नाम वज्राख्यं विहितं वज्रपाणिना ||
७ ख
सञ्जय़ उवाच:
यः स वात इवोद्धूतः समरे दुःसहः परैः |
८ क
सञ्जय़ उवाच:
स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः ||
८ ख
सञ्जय़ उवाच:
तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः |
९ क
सञ्जय़ उवाच:
अग्रेऽग्रणीर्यास्यति नो युद्धोपाय़विचक्षणः ||
९ ख
सञ्जय़ उवाच:
यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः |
१० क
सञ्जय़ उवाच:
निवर्तिष्यन्ति सम्भ्रान्ताः सिंहं क्षुद्रमृगा इव ||
१० ख
सञ्जय़ उवाच:
तं सर्वे संश्रय़िष्यामः प्राकारमकुतोभय़म् |
११ क
सञ्जय़ उवाच:
भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः ||
११ ख
सञ्जय़ उवाच:
न हि सोऽस्ति पुमाँल्लोके यः सङ्क्रुद्धं वृकोदरम् |
१२ क
सञ्जय़ उवाच:
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ||
१२ ख
सञ्जय़ उवाच:
भीमसेनो गदां विभ्रद्वज्रसारमय़ीं दृढाम् |
१३ क
सञ्जय़ उवाच:
चरन्वेगेन महता समुद्रमपि शोषय़ेत् ||
१३ ख
सञ्जय़ उवाच:
केकय़ा धृष्टकेतुश्च चेकितानश्च वीर्यवान् |
१४ क
सञ्जय़ उवाच:
एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर ||
१४ ख
सञ्जय़ उवाच:
धृतराष्ट्रस्य दाय़ादा इति वीभत्सुरव्रवीत् |
१५ क
सञ्जय़ उवाच:
व्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष |
१५ ख
सञ्जय़ उवाच:
अपूजय़ंस्तदा वाग्भिरनुकूलाभिराहवे ||
१५ ग
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुस्तथा चक्रे धनञ्जय़ः |
१६ क
सञ्जय़ उवाच:
व्यूह्य तानि वलान्याशु प्रय़यौ फल्गुनस्तदा ||
१६ ख
सञ्जय़ उवाच:
सम्प्रय़ातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः |
१७ क
सञ्जय़ उवाच:
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ||
१७ ख
सञ्जय़ उवाच:
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः |
१८ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् ||
१८ ख
सञ्जय़ उवाच:
समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः |
१९ क
सञ्जय़ उवाच:
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ||
१९ ख
सञ्जय़ उवाच:
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती |
२० क
सञ्जय़ उवाच:
द्रौपदेय़ाः ससौभद्राः पृष्ठगोपास्तरस्विनः ||
२० ख
सञ्जय़ उवाच:
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः |
२१ क
सञ्जय़ उवाच:
सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः ||
२१ ख
सञ्जय़ उवाच:
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः |
२२ क
सञ्जय़ उवाच:
यत्तो भीष्मविनाशाय़ प्रय़यौ भरतर्षभ ||
२२ ख
सञ्जय़ उवाच:
पृष्ठगोपोऽर्जुनस्यापि युय़ुधानो महारथः |
२३ क
सञ्जय़ उवाच:
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ||
२३ ख
सञ्जय़ उवाच:
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः |
२४ क
सञ्जय़ उवाच:
वृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ||
२४ ख
सञ्जय़ उवाच:
अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः |
२५ क
सञ्जय़ उवाच:
विराटमन्वय़ात्पश्चात्पाण्डवार्थे पराक्रमी ||
२५ ख
सञ्जय़ उवाच:
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः |
२६ क
सञ्जय़ उवाच:
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ||
२६ ख
सञ्जय़ उवाच:
समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः |
२७ क
सञ्जय़ उवाच:
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ||
२७ ख
सञ्जय़ उवाच:
त्वदीय़ानां परेषां च रथेषु विविधान्ध्वजान् |
२८ क
सञ्जय़ उवाच:
अभिभूय़ार्जुनस्यैको ध्वजस्तस्थौ महाकपिः ||
२८ ख
सञ्जय़ उवाच:
पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणय़ः |
२९ क
सञ्जय़ उवाच:
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ||
२९ ख
सञ्जय़ उवाच:
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः |
३० क
सञ्जय़ उवाच:
शूरा हेममय़ैर्जालैर्दीप्यमाना इवाचलाः ||
३० ख
सञ्जय़ उवाच:
क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः |
३१ क
सञ्जय़ उवाच:
राजानमन्वय़ुः पश्चाच्चलन्त इव पर्वताः ||
३१ ख
सञ्जय़ उवाच:
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् |
३२ क
सञ्जय़ उवाच:
प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः ||
३२ ख
सञ्जय़ उवाच:
तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् |
३३ क
सञ्जय़ उवाच:
न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके ||
३३ ख
सञ्जय़ उवाच:
वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः |
३४ क
सञ्जय़ उवाच:
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ||
३४ ख
सञ्जय़ उवाच:
यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् |
३५ क
सञ्जय़ उवाच:
अजेय़ो मानुषे लोके पाण्डवैरभिरक्षितः ||
३५ ख
सञ्जय़ उवाच:
सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदय़नं प्रति |
३६ क
सञ्जय़ उवाच:
प्रावात्सपृषतो वाय़ुरनभ्रे स्तनय़ित्नुमान् ||
३६ ख
सञ्जय़ उवाच:
विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः |
३७ क
सञ्जय़ उवाच:
रजश्चोद्धूय़मानं तु तमसाच्छादय़ज्जगत् ||
३७ ख
सञ्जय़ उवाच:
पपात महती चोल्का प्राङ्मुखी भरतर्षभ |
३८ क
सञ्जय़ उवाच:
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ||
३८ ख
सञ्जय़ उवाच:
अथ सज्जीय़मानेषु सैन्येषु भरतर्षभ |
३९ क
सञ्जय़ उवाच:
निष्प्रभोऽभ्युदिय़ात्सूर्यः सघोषो भूश्चचाल ह |
३९ ख
सञ्जय़ उवाच:
व्यशीर्यत सनादा च तदा भरतसत्तम ||
३९ ग
सञ्जय़ उवाच:
निर्घाता वहवो राजन्दिक्षु सर्वासु चाभवन् |
४० क
सञ्जय़ उवाच:
प्रादुरासीद्रजस्तीव्रं न प्राज्ञाय़त किञ्चन ||
४० ख
सञ्जय़ उवाच:
ध्वजानां धूय़मानानां सहसा मातरिश्वना |
४१ क
सञ्जय़ उवाच:
किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः ||
४१ ख
सञ्जय़ उवाच:
महतां सपताकानामादित्यसमतेजसाम् |
४२ क
सञ्जय़ उवाच:
सर्वं झणझणीभूतमासीत्तालवनेष्विव ||
४२ ख
सञ्जय़ उवाच:
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः |
४३ क
सञ्जय़ उवाच:
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ||
४३ ख
सञ्जय़ उवाच:
स्रंसन्त इव मज्जानो योधानां भरतर्षभ |
४४ क
सञ्जय़ उवाच:
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ||
४४ ख