सञ्जय़ उवाच:
परिणाम्य निशां तां तु भारद्वाजो महारथः |
१ क
सञ्जय़ उवाच:
वहूक्त्वा च ततो राजन्राजानं च सुय़ोधनम् ||
१ ख
सञ्जय़ उवाच:
विधाय़ योगं पार्थेन संशप्तकगणैः सह |
२ क
सञ्जय़ उवाच:
निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति ||
२ ख
सञ्जय़ उवाच:
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् |
३ क
सञ्जय़ उवाच:
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षय़ा ||
३ ख
सञ्जय़ उवाच:
व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा |
४ क
सञ्जय़ उवाच:
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ||
४ ख
सञ्जय़ उवाच:
मुखमासीत्सुपर्णस्य भारद्वाजो महारथः |
५ क
सञ्जय़ उवाच:
शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह ||
५ ख
सञ्जय़ उवाच:
चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः |
६ क
सञ्जय़ उवाच:
भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् ||
६ ख
सञ्जय़ उवाच:
कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः |
७ क
सञ्जय़ उवाच:
शका यवनकाम्वोजास्तथा हंसपदाश्च ये ||
७ ख
सञ्जय़ उवाच:
ग्रीवाय़ां शूरसेनाश्च दरदा मद्रकेकय़ाः |
८ क
सञ्जय़ उवाच:
गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः ||
८ ख
सञ्जय़ उवाच:
भूरिश्रवाः शलः शल्यः सोमदत्तश्च वाह्लिकः |
९ क
सञ्जय़ उवाच:
अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः ||
९ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ काम्वोजश्च सुदक्षिणः |
१० क
सञ्जय़ उवाच:
वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः ||
१० ख
सञ्जय़ उवाच:
पृष्ठे कलिङ्गाः साम्वष्ठा मागधाः पौन्द्रमद्रकाः |
११ क
सञ्जय़ उवाच:
गान्धाराः शकुनिप्राग्याः पार्वतीय़ा वसातय़ः ||
११ ख
सञ्जय़ उवाच:
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिवान्धवः |
१२ क
सञ्जय़ उवाच:
महत्या सेनय़ा तस्थौ नानाध्वजसमुत्थय़ा ||
१२ ख
सञ्जय़ उवाच:
जय़द्रथो भीमरथः सांय़ात्रिकसभो जय़ः |
१३ क
सञ्जय़ उवाच:
भूमिञ्जय़ो वृषक्राथो नैषधश्च महावलः ||
१३ ख
सञ्जय़ उवाच:
वृता वलेन महता व्रह्मलोकपुरस्कृताः |
१४ क
सञ्जय़ उवाच:
व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः ||
१४ ख
सञ्जय़ उवाच:
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः |
१५ क
सञ्जय़ उवाच:
वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते ||
१५ ख
सञ्जय़ उवाच:
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युय़ुत्सवः |
१६ क
सञ्जय़ उवाच:
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे ||
१६ ख
सञ्जय़ उवाच:
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् |
१७ क
सञ्जय़ उवाच:
आस्थितः शुशुभे राजन्नंशुमानुदय़े यथा ||
१७ ख
सञ्जय़ उवाच:
माल्यदामवता राजा श्वेतच्छत्रेण धार्यता |
१८ क
सञ्जय़ उवाच:
कृत्तिकाय़ोगय़ुक्तेन पौर्णमास्यामिवेन्दुना ||
१८ ख
सञ्जय़ उवाच:
नीलाञ्जनचय़प्रख्यो मदान्धो द्विरदो वभौ |
१९ क
सञ्जय़ उवाच:
अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ||
१९ ख
सञ्जय़ उवाच:
नानानृपतिभिर्वीरैर्विविधाय़ुधभूषणैः |
२० क
सञ्जय़ उवाच:
समन्वितः पार्वतीय़ैः शक्रो देवगणैरिव ||
२० ख
सञ्जय़ उवाच:
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् |
२१ क
सञ्जय़ उवाच:
अजय़्यमरिभिः सङ्ख्ये पार्षतं वाक्यमव्रवीत् ||
२१ ख
सञ्जय़ उवाच:
व्राह्मणस्य वशं नाहमिय़ामद्य यथा प्रभो |
२२ क
सञ्जय़ उवाच:
पारावतसवर्णाश्व तथा नीतिर्विधीय़ताम् ||
२२ ख
धृष्टद्युम्न उवाच:
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत |
२३ क
धृष्टद्युम्न उवाच:
अहमावारय़िष्यामि द्रोणमद्य सहानुगम् ||
२३ ख
धृष्टद्युम्न उवाच:
मय़ि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि |
२४ क
धृष्टद्युम्न उवाच:
न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन ||
२४ ख
सञ्जय़ उवाच:
एवमुक्त्वा किरन्वाणान्द्रुपदस्य सुतो वली |
२५ क
सञ्जय़ उवाच:
पारावतसवर्णाश्वः स्वय़ं द्रोणमुपाद्रवत् ||
२५ ख
सञ्जय़ उवाच:
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् |
२६ क
सञ्जय़ उवाच:
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ||
२६ ख
सञ्जय़ उवाच:
तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः |
२७ क
सञ्जय़ उवाच:
प्रिय़ं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारय़त् ||
२७ ख
सञ्जय़ उवाच:
स सम्प्रहारस्तुमुलः समरूप इवाभवत् |
२८ क
सञ्जय़ उवाच:
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ||
२८ ख
सञ्जय़ उवाच:
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् |
२९ क
सञ्जय़ उवाच:
भारद्वाजं शरौघेण महता समवारय़त् ||
२९ ख
सञ्जय़ उवाच:
द्रोणमावारितं दृष्ट्वा भृशाय़स्तस्तवात्मजः |
३० क
सञ्जय़ उवाच:
नानालिङ्गैः शरव्रातैः पार्षतं सममोहय़त् ||
३० ख
सञ्जय़ उवाच:
तय़ोर्विषक्तय़ोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः |
३१ क
सञ्जय़ उवाच:
द्रोणो यौधिष्ठिरं सैन्यं वहुधा व्यधमच्छरैः ||
३१ ख
सञ्जय़ उवाच:
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः |
३२ क
सञ्जय़ उवाच:
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ||
३२ ख
सञ्जय़ उवाच:
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् |
३३ क
सञ्जय़ उवाच:
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ||
३३ ख
सञ्जय़ उवाच:
नैव स्वे न परे राजन्नज्ञाय़न्त परस्परम् |
३४ क
सञ्जय़ उवाच:
अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत ||
३४ ख
सञ्जय़ उवाच:
चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु |
३५ क
सञ्जय़ उवाच:
तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे ||
३५ ख
सञ्जय़ उवाच:
तत्प्रकीर्णपताकानां रथवारणवाजिनाम् |
३६ क
सञ्जय़ उवाच:
वलाकाशवलाभ्राभं ददृशे रूपमाहवे ||
३६ ख
सञ्जय़ उवाच:
नरानेव नरा जघ्नुरुदग्राश्च हय़ा हय़ान् |
३७ क
सञ्जय़ उवाच:
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ||
३७ ख
सञ्जय़ उवाच:
समुच्छ्रितपताकानां गजानां परमद्विपैः |
३८ क
सञ्जय़ उवाच:
क्षणेन तुमुलो घोरः सङ्ग्रामः समवर्तत ||
३८ ख
सञ्जय़ उवाच:
तेषां संसक्तगात्राणां कर्षतामितरेतरम् |
३९ क
सञ्जय़ उवाच:
दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजाय़त ||
३९ ख
सञ्जय़ उवाच:
विप्रकीर्णपताकास्ते विषाणजनिताग्नय़ः |
४० क
सञ्जय़ उवाच:
वभूवुः खं समासाद्य सविद्युत इवाम्वुदाः ||
४० ख
सञ्जय़ उवाच:
विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः |
४१ क
सञ्जय़ उवाच:
सम्वभूव मही कीर्णा मेघैर्द्यौरिव शारदी ||
४१ ख
सञ्जय़ उवाच:
तेषामाहन्यमानानां वाणतोमरवृष्टिभिः |
४२ क
सञ्जय़ उवाच:
वारणानां रवो जज्ञे मेघानामिव सम्प्लवे ||
४२ ख
सञ्जय़ उवाच:
तोमराभिहताः केचिद्वाणैश्च परमद्विपाः |
४३ क
सञ्जय़ उवाच:
वित्रेसुः सर्वभूतानां शव्दमेवापरेऽव्रजन् ||
४३ ख
सञ्जय़ उवाच:
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः |
४४ क
सञ्जय़ उवाच:
चक्रुरार्तस्वरं घोरमुत्पातजलदा इव ||
४४ ख
सञ्जय़ उवाच:
प्रतीपं ह्रिय़माणाश्च वारणा वरवारणैः |
४५ क
सञ्जय़ उवाच:
उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः ||
४५ ख
सञ्जय़ उवाच:
महामात्रा महामात्रैस्ताडिताः शरतोमरैः |
४६ क
सञ्जय़ उवाच:
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ||
४६ ख
सञ्जय़ उवाच:
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः |
४७ क
सञ्जय़ उवाच:
छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् ||
४७ ख
सञ्जय़ उवाच:
हतान्परिवहन्तश्च यन्त्रिताः परमाय़ुधैः |
४८ क
सञ्जय़ उवाच:
दिशो जग्मुर्महानागाः केचिदेकचरा इव ||
४८ ख
सञ्जय़ उवाच:
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः |
४९ क
सञ्जय़ उवाच:
पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः ||
४९ ख
सञ्जय़ उवाच:
तेषां शैलोपमैः काय़ैर्निपतद्भिः समन्ततः |
५० क
सञ्जय़ उवाच:
आहता सहसा भूमिश्चकम्पे च ननाद च ||
५० ख