chevron_left कर्ण पर्व अध्याय १९
सञ्जय़ उवाच:
श्वेताश्वोऽपि महाराज व्यधमत्तावकं वलम् |
१ क
सञ्जय़ उवाच:
यथा वाय़ुः समासाद्य तूलराशिं समन्ततः ||
१ ख
सञ्जय़ उवाच:
प्रत्युद्ययुस्त्रिगर्तास्तं शिवय़ः कौरवैः सह |
२ क
सञ्जय़ उवाच:
शाल्वाः संशप्तकाश्चैव नाराय़णवलं च यत् ||
२ ख
सञ्जय़ उवाच:
सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जय़ः |
३ क
सञ्जय़ उवाच:
सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत ||
३ ख
सञ्जय़ उवाच:
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः |
४ क
सञ्जय़ उवाच:
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि ||
४ ख
सञ्जय़ उवाच:
ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे |
५ क
सञ्जय़ उवाच:
अभ्यद्रवन्त समरे वार्योघा इव सागरम् ||
५ ख
सञ्जय़ उवाच:
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः |
६ क
सञ्जय़ उवाच:
अगच्छन्विलय़ं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ||
६ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे नाजहुः पाण्डवं तदा |
७ क
सञ्जय़ उवाच:
दह्यमाना यथा राजञ्शलभा इव पावकम् ||
७ ख
सञ्जय़ उवाच:
सत्यसेनस्त्रिभिर्वाणैर्विव्याध युधि पाण्डवम् |
८ क
सञ्जय़ उवाच:
मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः ||
८ ख
सञ्जय़ उवाच:
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः |
९ क
सञ्जय़ उवाच:
शत्रुञ्जय़श्च विंशत्या सुशर्मा नवभिः शरैः ||
९ ख
सञ्जय़ उवाच:
शत्रुञ्जय़ं च राजानं हत्वा तत्र शिलाशितैः |
१० क
सञ्जय़ उवाच:
सौश्रुतेः सशिरस्त्राणं शिरः काय़ादपाहरत् |
१० ख
सञ्जय़ उवाच:
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षय़म् ||
१० ग
सञ्जय़ उवाच:
अथेतरान्महाराज यतमानान्महारथान् |
११ क
सञ्जय़ उवाच:
पञ्चभिः पञ्चभिर्वाणैरेकैकं प्रत्यवारय़त् ||
११ ख
सञ्जय़ उवाच:
सत्यसेनस्तु सङ्क्रुद्धस्तोमरं व्यसृजन्महत् |
१२ क
सञ्जय़ उवाच:
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ||
१२ ख
सञ्जय़ उवाच:
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः |
१३ क
सञ्जय़ उवाच:
अय़स्मय़ो महाचण्डो जगाम धरणीं तदा ||
१३ ख
सञ्जय़ उवाच:
माधवस्य तु विद्धस्य तोमरेण महारणे |
१४ क
सञ्जय़ उवाच:
प्रतोदः प्रापतद्धस्ताद्रश्मय़श्च विशां पते ||
१४ ख
सञ्जय़ उवाच:
स प्रतोदं पुनर्गृह्य रश्मींश्चैव महाय़शाः |
१५ क
सञ्जय़ उवाच:
वाहय़ामास तानश्वान्सत्यसेनरथं प्रति ||
१५ ख
सञ्जय़ उवाच:
विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनञ्जय़ः |
१६ क
सञ्जय़ उवाच:
सत्यसेनं शरैस्तीक्ष्णैर्दारय़ित्वा महावलः ||
१६ ख
सञ्जय़ उवाच:
ततः सुनिशितैर्वाणै राज्ञस्तस्य महच्छिरः |
१७ क
सञ्जय़ उवाच:
कुण्डलोपचितं काय़ाच्चकर्त पृतनान्तरे ||
१७ ख
सञ्जय़ उवाच:
तं निहत्य शितैर्वाणैर्मित्रवर्माणमाक्षिपत् |
१८ क
सञ्जय़ उवाच:
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ||
१८ ख
सञ्जय़ उवाच:
ततः शरशतैर्भूय़ः संशप्तकगणान्वशी |
१९ क
सञ्जय़ उवाच:
पातय़ामास सङ्क्रुद्धः शतशोऽथ सहस्रशः ||
१९ ख
सञ्जय़ उवाच:
ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः |
२० क
सञ्जय़ उवाच:
मित्रदेवस्य चिच्छेद क्षुरप्रेण महाय़शाः |
२० ख
सञ्जय़ उवाच:
सुशर्माणं च सङ्क्रुद्धो जत्रुदेशे समार्दय़त् ||
२० ग
सञ्जय़ उवाच:
ततः संशप्तकाः सर्वे परिवार्य धनञ्जय़म् |
२१ क
सञ्जय़ उवाच:
शस्त्रौघैर्ममृदुः क्रुद्धा नादय़न्तो दिशो दश ||
२१ ख
सञ्जय़ उवाच:
अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः |
२२ क
सञ्जय़ उवाच:
ऐन्द्रमस्त्रममेय़ात्मा प्रादुश्चक्रे महारथः |
२२ ख
सञ्जय़ उवाच:
ततः शरसहस्राणि प्रादुरासन्विशां पते ||
२२ ग
सञ्जय़ उवाच:
ध्वजानां छिद्यमानानां कार्मुकाणां च संय़ुगे |
२३ क
सञ्जय़ उवाच:
रथानां सपताकानां तूणीराणां शरैः सह ||
२३ ख
सञ्जय़ उवाच:
अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह |
२४ क
सञ्जय़ उवाच:
कूवराणां वरूथानां पृषत्कानां च संय़ुगे ||
२४ ख
सञ्जय़ उवाच:
अश्मनां पततां चैव प्रासानामृष्टिभिः सह |
२५ क
सञ्जय़ उवाच:
गदानां परिघाणां च शक्तीनां तोमरैः सह ||
२५ ख
सञ्जय़ उवाच:
शतघ्नीनां सचक्राणां भुजानामूरुभिः सह |
२६ क
सञ्जय़ उवाच:
कण्ठसूत्राङ्गदानां च केय़ूराणां च मारिष ||
२६ ख
सञ्जय़ उवाच:
हाराणामथ निष्काणां तनुत्राणां च भारत |
२७ क
सञ्जय़ उवाच:
छत्राणां व्यजनानां च शिरसां मुकुटैः सह |
२७ ख
सञ्जय़ उवाच:
अश्रूय़त महाञ्शव्दस्तत्र तत्र विशां पते ||
२७ ग
सञ्जय़ उवाच:
सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च |
२८ क
सञ्जय़ उवाच:
शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्वरे ||
२८ ख
सञ्जय़ उवाच:
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च |
२९ क
सञ्जय़ उवाच:
शरीराणि व्यदृश्यन्त हतानां च महीतले |
२९ ख
सञ्जय़ उवाच:
गन्धर्वनगराकारं घोरमाय़ोधनं तदा ||
२९ ग
सञ्जय़ उवाच:
निहतै राजपुत्रैश्च क्षत्रिय़ैश्च महावलैः |
३० क
सञ्जय़ उवाच:
हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही |
३० ख
सञ्जय़ उवाच:
अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः ||
३० ग
सञ्जय़ उवाच:
नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः |
३१ क
सञ्जय़ उवाच:
निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत् ||
३१ ख
सञ्जय़ उवाच:
आ तुम्वादवसीदन्ति रथचक्राणि मारिष |
३२ क
सञ्जय़ उवाच:
रणे विचरतस्तस्य तस्मिँल्लोहितकर्दमे ||
३२ ख
सञ्जय़ उवाच:
सीदमानानि चक्राणि समूहुस्तुरगा भृशम् |
३३ क
सञ्जय़ उवाच:
श्रमेण महता युक्ता मनोमारुतरंहसः ||
३३ ख
सञ्जय़ उवाच:
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना |
३४ क
सञ्जय़ उवाच:
प्राय़शो विमुखं सर्वं नावतिष्ठत संय़ुगे ||
३४ ख
सञ्जय़ उवाच:
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्वहून् |
३५ क
सञ्जय़ उवाच:
रराज स महाराज विधूमोऽग्निरिव ज्वलन् ||
३५ ख
सञ्जय़ उवाच:
युधिष्ठिरं महाराज विसृजन्तं शरान्वहून् |
३६ क
सञ्जय़ उवाच:
स्वय़ं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ||
३६ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा तव पुत्रं महावलम् |
३७ क
सञ्जय़ उवाच:
धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाव्रवीत् ||
३७ ख
सञ्जय़ उवाच:
सा च तं प्रतिविव्याध नवभिर्निशितैः शरैः |
३८ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडय़त् ||
३८ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् |
३९ क
सञ्जय़ उवाच:
दुर्योधनाय़ चिक्षेप त्रय़ोदश शिलाशितान् ||
३९ ख
सञ्जय़ उवाच:
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः |
४० क
सञ्जय़ उवाच:
पञ्चमेन शिरः काय़ात्सारथेस्तु समाक्षिपत् ||
४० ख
सञ्जय़ उवाच:
षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् |
४१ क
सञ्जय़ उवाच:
अष्टमेन तथा खड्गं पातय़ामास भूतले |
४१ ख
सञ्जय़ उवाच:
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दय़द्भृशम् ||
४१ ग
सञ्जय़ उवाच:
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव |
४२ क
सञ्जय़ उवाच:
उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत ||
४२ ख
सञ्जय़ उवाच:
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादय़ः |
४३ क
सञ्जय़ उवाच:
अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् ||
४३ ख
सञ्जय़ उवाच:
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् |
४४ क
सञ्जय़ उवाच:
अभ्ययुः समरे राजंस्ततो युद्धमवर्तत ||
४४ ख
सञ्जय़ उवाच:
अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे |
४५ क
सञ्जय़ उवाच:
क्ष्वेडाः किलकिलाशव्दाः प्रादुरासन्महीपते |
४५ ख
सञ्जय़ उवाच:
यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ||
४५ ग
सञ्जय़ उवाच:
नरा नरैः समाजग्मुर्वारणा वरवारणैः |
४६ क
सञ्जय़ उवाच:
रथाश्च रथिभिः सार्धं हय़ाश्च हय़सादिभिः ||
४६ ख