सञ्जय़ उवाच:
संनिवृत्ते वलौघे तु शाल्वो म्लेच्छगणाधिपः |
१ क
सञ्जय़ उवाच:
अभ्यवर्तत सङ्क्रुद्धः पाण्डूनां सुमहद्वलम् ||
१ ख
सञ्जय़ उवाच:
आस्थाय़ सुमहानागं प्रभिन्नं पर्वतोपमम् |
२ क
सञ्जय़ उवाच:
दृप्तमैरावतप्रख्यममित्रगणमर्दनम् ||
२ ख
सञ्जय़ उवाच:
योऽसौ महाभद्रकुलप्रसूतः; सुपूजितो धार्तराष्ट्रेण नित्यम् |
३ क
सञ्जय़ उवाच:
सुकल्पितः शास्त्रविनिश्चय़ज्ञैः; सदोपवाह्यः समरेषु राजन् ||
३ ख
सञ्जय़ उवाच:
तमास्थितो राजवरो वभूव; यथोदय़स्थः सविता क्षपान्ते |
४ क
सञ्जय़ उवाच:
स तेन नागप्रवरेण राज; न्नभ्युद्ययौ पाण्डुसुतान्समन्तात् |
४ ख
सञ्जय़ उवाच:
शितैः पृषत्कैर्विददार चापि; महेन्द्रवज्रप्रतिमैः सुघोरैः ||
४ ग
सञ्जय़ उवाच:
ततः शरान्वै सृजतो महारणे; योधांश्च राजन्नय़तो यमाय़ |
५ क
सञ्जय़ उवाच:
नास्यान्तरं ददृशुः स्वे परे वा; यथा पुरा वज्रधरस्य दैत्याः ||
५ ख
सञ्जय़ उवाच:
ते पाण्डवाः सोमकाः सृञ्जय़ाश्च; तमेव नागं ददृशुः समन्तात् |
६ क
सञ्जय़ उवाच:
सहस्रशो वै विचरन्तमेकं; यथा महेन्द्रस्य गजं समीपे ||
६ ख
सञ्जय़ उवाच:
सन्द्राव्यमाणं तु वलं परेषां; परीतकल्पं विवभौ समन्तात् |
७ क
सञ्जय़ उवाच:
नैवावतस्थे समरे भृशं भय़ा; द्विमर्दमानं तु परस्परं तदा ||
७ ख
सञ्जय़ उवाच:
ततः प्रभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन |
८ क
सञ्जय़ उवाच:
दिशश्चतस्रः सहसा प्रधाविता; गजेन्द्रवेगं तमपारय़न्ती ||
८ ख
सञ्जय़ उवाच:
दृष्ट्वा च तां वेगवता प्रभग्नां; सर्वे त्वदीय़ा युधि योधमुख्याः |
९ क
सञ्जय़ उवाच:
अपूजय़ंस्तत्र नराधिपं तं; दध्मुश्च शङ्खाञ्शशिसंनिकाशान् ||
९ ख
सञ्जय़ उवाच:
श्रुत्वा निनादं त्वथ कौरवाणां; हर्षाद्विमुक्तं सह शङ्खशव्दैः |
१० क
सञ्जय़ उवाच:
सेनापतिः पाण्डवसृञ्जय़ानां; पाञ्चालपुत्रो न ममर्ष रोषात् ||
१० ख
सञ्जय़ उवाच:
ततस्तु तं वै द्विरदं महात्मा; प्रत्युद्ययौ त्वरमाणो जय़ाय़ |
११ क
सञ्जय़ उवाच:
जम्भो यथा शक्रसमागमे वै; नागेन्द्रमैरावणमिन्द्रवाह्यम् ||
११ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः |
१२ क
सञ्जय़ उवाच:
तं वै द्विपं प्रेषय़ामास तूर्णं; वधाय़ राजन्द्रुपदात्मजस्य ||
१२ ख
सञ्जय़ उवाच:
स तं द्विपं सहसाभ्यापतन्त; मविध्यदर्कप्रतिमैः पृषत्कैः |
१३ क
सञ्जय़ उवाच:
कर्मारधौतैर्निशितैर्ज्वलद्भि; र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ||
१३ ख
सञ्जय़ उवाच:
ततोऽपरान्पञ्च शितान्महात्मा; नाराचमुख्यान्विससर्ज कुम्भे |
१४ क
सञ्जय़ उवाच:
स तैस्तु विद्धः परमद्विपो रणे; तदा परावृत्य भृशं प्रदुद्रुवे ||
१४ ख
सञ्जय़ उवाच:
तं नागराजं सहसा प्रणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः |
१५ क
सञ्जय़ उवाच:
तोत्त्राङ्कुशैः प्रेषय़ामास तूर्णं; पाञ्चालराजस्य रथं प्रदिश्य ||
१५ ख
सञ्जय़ उवाच:
दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः स्वरथाच्छीघ्रमेव |
१६ क
सञ्जय़ उवाच:
गदां प्रगृह्याशु जवेन वीरो; भूमिं प्रपन्नो भय़विह्वलाङ्गः ||
१६ ख
सञ्जय़ उवाच:
स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य |
१७ क
सञ्जय़ उवाच:
उत्क्षिप्य हस्तेन तदा महाद्विपो; विपोथय़ामास वसुन्धरातले ||
१७ ख
सञ्जय़ उवाच:
पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन |
१८ क
सञ्जय़ उवाच:
तमभ्यधावत्सहसा जवेन; भीमः शिखण्डी च शिनेश्च नप्ता ||
१८ ख
सञ्जय़ उवाच:
शरैश्च वेगं सहसा निगृह्य; तस्याभितोऽभ्यापततो गजस्य |
१९ क
सञ्जय़ उवाच:
स सङ्गृहीतो रथिभिर्गजो वै; चचाल तैर्वार्यमाणश्च सङ्ख्ये ||
१९ ख
सञ्जय़ उवाच:
ततः पृषत्कान्प्रववर्ष राजा; सूर्यो यथा रश्मिजालं समन्तात् |
२० क
सञ्जय़ उवाच:
तेनाशुगैर्वध्यमाना रथौघाः; प्रदुद्रुवुस्तत्र ततस्तु सर्वे ||
२० ख
सञ्जय़ उवाच:
तत्कर्म शाल्वस्य समीक्ष्य सर्वे; पाञ्चालमत्स्या नृप सृञ्जय़ाश्च |
२१ क
सञ्जय़ उवाच:
हाहाकारैर्नादय़न्तः स्म युद्धे; द्विपं समन्ताद्रुरुधुर्नराग्र्याः ||
२१ ख
सञ्जय़ उवाच:
पाञ्चालराजस्त्वरितस्तु शूरो; गदां प्रगृह्याचलशृङ्गकल्पाम् |
२२ क
सञ्जय़ उवाच:
असम्भ्रमं भारत शत्रुघाती; जवेन वीरोऽनुससार नागम् ||
२२ ख
सञ्जय़ उवाच:
ततोऽथ नागं धरणीधराभं; मदं स्रवन्तं जलदप्रकाशम् |
२३ क
सञ्जय़ उवाच:
गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस्तरस्वी ||
२३ ख
सञ्जय़ उवाच:
स भिन्नकुम्भः सहसा विनद्य; मुखात्प्रभूतं क्षतजं विमुञ्चन् |
२४ क
सञ्जय़ उवाच:
पपात नागो धरणीधराभः; क्षितिप्रकम्पाच्चलितो यथाद्रिः ||
२४ ख
सञ्जय़ उवाच:
निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये |
२५ क
सञ्जय़ उवाच:
स शाल्वराजस्य शिनिप्रवीरो; जहार भल्लेन शिरः शितेन ||
२५ ख
सञ्जय़ उवाच:
हृतोत्तमाङ्गो युधि सात्वतेन; पपात भूमौ सह नागराज्ञा |
२६ क
सञ्जय़ उवाच:
यथाद्रिशृङ्गं सुमहत्प्रणुन्नं; वज्रेण देवाधिपचोदितेन ||
२६ ख