chevron_left आदि पर्व अध्याय १९०
द्रुपद उवाच:
अश्रुत्वैवं वचनं ते महर्षे; मय़ा पूर्वं यतितं कार्यमेतत् |
१ क
द्रुपद उवाच:
न वै शक्यं विहितस्यापय़ातुं; तदेवेदमुपपन्नं विधानम् ||
१ ख
द्रुपद उवाच:
दिष्टस्य ग्रन्थिरनिवर्तनीय़ः; स्वकर्मणा विहितं नेह किञ्चित् |
२ क
द्रुपद उवाच:
कृतं निमित्तं हि वरैकहेतो; स्तदेवेदमुपपन्नं वहूनाम् ||
२ ख
द्रुपद उवाच:
यथैव कृष्णोक्तवती पुरस्ता; न्नैकान्पतीन्मे भगवान्ददातु |
३ क
द्रुपद उवाच:
स चाप्येवं वरमित्यव्रवीत्तां; देवो हि वेद परमं यदत्र ||
३ ख
द्रुपद उवाच:
यदि वाय़ं विहितः शङ्करेण; धर्मोऽधर्मो वा नात्र ममापराधः |
४ क
द्रुपद उवाच:
गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा ||
४ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीद्भगवान्धर्मराज; मद्य पुण्याहमुत पाण्डवेय़ |
५ क
वैशम्पाय़न उवाच:
अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णाय़ास्त्वं गृहाणाद्य पूर्वम् ||
५ ख
वैशम्पाय़न उवाच:
ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं वहु तत्तदग्र्यम् |
६ क
वैशम्पाय़न उवाच:
समानय़ामास सुतां च कृष्णा; माप्लाव्य रत्नैर्वहुभिर्विभूष्य ||
६ ख
वैशम्पाय़न उवाच:
ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च |
७ क
वैशम्पाय़न उवाच:
द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः ||
७ ख
वैशम्पाय़न उवाच:
तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् |
८ क
वैशम्पाय़न उवाच:
महार्हरत्नौघविचित्रमावभौ; दिवं यथा निर्मलतारकाचितम् ||
८ ख
वैशम्पाय़न उवाच:
ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः |
९ क
वैशम्पाय़न उवाच:
महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रिय़ाः ||
९ ख
वैशम्पाय़न उवाच:
पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो |
१० क
वैशम्पाय़न उवाच:
क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः ||
१० ख
वैशम्पाय़न उवाच:
ततः समाधाय़ स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम् |
११ क
वैशम्पाय़न उवाच:
युधिष्ठिरं चाप्युपनीय़ मन्त्रवि; न्निय़ोजय़ामास सहैव कृष्णय़ा ||
११ ख
वैशम्पाय़न उवाच:
प्रदक्षिणं तौ प्रगृहीतपाणी; समानय़ामास स वेदपारगः |
१२ क
वैशम्पाय़न उवाच:
ततोऽभ्यनुज्ञाय़ तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ ||
१२ ख
वैशम्पाय़न उवाच:
क्रमेण चानेन नराधिपात्मजा; वरस्त्रिय़ास्ते जगृहुस्तदा करम् |
१३ क
वैशम्पाय़न उवाच:
अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः ||
१३ ख
वैशम्पाय़न उवाच:
इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम् |
१४ क
वैशम्पाय़न उवाच:
महानुभावा किल सा सुमध्यमा; वभूव कन्यैव गते गतेऽहनि ||
१४ ख
वैशम्पाय़न उवाच:
कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो वहुरूपमुत्तमम् |
१५ क
वैशम्पाय़न उवाच:
शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् ||
१५ ख
वैशम्पाय़न उवाच:
शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम् |
१६ क
वैशम्पाय़न उवाच:
तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्वरस्रजम् ||
१६ ख
वैशम्पाय़न उवाच:
पृथक्पृथक्चैव दशाय़ुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम् |
१७ क
वैशम्पाय़न उवाच:
तथैव वस्त्राणि च भूषणानि; प्रभावय़ुक्तानि महाधनानि ||
१७ ख
वैशम्पाय़न उवाच:
कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रिय़म् |
१८ क
वैशम्पाय़न उवाच:
विजह्रुरिन्द्रप्रतिमा महावलाः; पुरे तु पाञ्चालनृपस्य तस्य ह ||
१८ ख