chevron_left आदि पर्व अध्याय १९१
वैशम्पाय़न उवाच:
पाण्डवैः सह संय़ोगं गतस्य द्रुपदस्य तु |
१ क
वैशम्पाय़न उवाच:
न वभूव भय़ं किञ्चिद्देवेभ्योऽपि कथञ्चन ||
१ ख
वैशम्पाय़न उवाच:
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः |
२ क
वैशम्पाय़न उवाच:
नाम सङ्कीर्तय़न्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ||
२ ख
वैशम्पाय़न उवाच:
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला |
३ क
वैशम्पाय़न उवाच:
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ||
३ ख
वैशम्पाय़न उवाच:
रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् |
४ क
वैशम्पाय़न उवाच:
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ||
४ ख
वैशम्पाय़न उवाच:
यथेन्द्राणी हरिहय़े स्वाहा चैव विभावसौ |
५ क
वैशम्पाय़न उवाच:
रोहिणी च यथा सोमे दमय़न्ती यथा नले ||
५ ख
वैशम्पाय़न उवाच:
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती |
६ क
वैशम्पाय़न उवाच:
यथा नाराय़णे लक्ष्मीस्तथा त्वं भव भर्तृषु ||
६ ख
वैशम्पाय़न उवाच:
जीवसूर्वीरसूर्भद्रे वहुसौख्यसमन्विता |
७ क
वैशम्पाय़न उवाच:
सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता ||
७ ख
वैशम्पाय़न उवाच:
अतिथीनागतान्साधून्वालान्वृद्धान्गुरूंस्तथा |
८ क
वैशम्पाय़न उवाच:
पूजय़न्त्या यथान्याय़ं शश्वद्गच्छन्तु ते समाः ||
८ ख
वैशम्पाय़न उवाच:
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च |
९ क
वैशम्पाय़न उवाच:
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ||
९ ख
वैशम्पाय़न उवाच:
पतिभिर्निर्जितामुर्वीं विक्रमेण महावलैः |
१० क
वैशम्पाय़न उवाच:
कुरु व्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ||
१० ख
वैशम्पाय़न उवाच:
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते |
११ क
वैशम्पाय़न उवाच:
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ||
११ ख
वैशम्पाय़न उवाच:
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् |
१२ क
वैशम्पाय़न उवाच:
तथा भूय़ोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ||
१२ ख
वैशम्पाय़न उवाच:
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः |
१३ क
वैशम्पाय़न उवाच:
मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ||
१३ ख
वैशम्पाय़न उवाच:
वासांसि च महार्हाणि नानादेश्यानि माधवः |
१४ क
वैशम्पाय़न उवाच:
कम्वलाजिनरत्नानि स्पर्शवन्ति शुभानि च ||
१४ ख
वैशम्पाय़न उवाच:
शय़नासनय़ानानि विविधानि महान्ति च |
१५ क
वैशम्पाय़न उवाच:
वैडूर्यवज्रचित्राणि शतशो भाजनानि च ||
१५ ख
वैशम्पाय़न उवाच:
रूपय़ौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः |
१६ क
वैशम्पाय़न उवाच:
प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः ||
१६ ख
वैशम्पाय़न उवाच:
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् |
१७ क
वैशम्पाय़न उवाच:
रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् ||
१७ ख
वैशम्पाय़न उवाच:
कोटिशश्च सुवर्णं स तेषामकृतकं तथा |
१८ क
वैशम्पाय़न उवाच:
वीतीकृतममेय़ात्मा प्राहिणोन्मधुसूदनः ||
१८ ख
वैशम्पाय़न उवाच:
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः |
१९ क
वैशम्पाय़न उवाच:
मुदा परमय़ा युक्तो गोविन्दप्रिय़काम्यया ||
१९ ख