युधिष्ठिर उवाच:
कीदृशो जापको याति निरय़ं वर्णय़स्व मे |
१ क
युधिष्ठिर उवाच:
कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति ||
१ ख
भीष्म उवाच:
धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः |
२ क
भीष्म उवाच:
धर्ममूलाश्रय़ं वाक्यं शृणुष्वावहितोऽनघ ||
२ ख
भीष्म उवाच:
अमूनि यानि स्थानानि देवानां परमात्मनाम् |
३ क
भीष्म उवाच:
नानासंस्थानवर्णानि नानारूपफलानि च ||
३ ख
भीष्म उवाच:
दिव्यानि कामचारीणि विमानानि सभास्तथा |
४ क
भीष्म उवाच:
आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः ||
४ ख
भीष्म उवाच:
चतुर्णां लोकपालानां शुक्रस्याथ वृहस्पतेः |
५ क
भीष्म उवाच:
मरुतां विश्वदेवानां साध्यानामश्विनोरपि ||
५ ख
भीष्म उवाच:
रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् |
६ क
भीष्म उवाच:
एते वै निरय़ास्तात स्थानस्य परमात्मनः ||
६ ख
भीष्म उवाच:
अभय़ं चानिमित्तं च न च क्लेशभय़ावृतम् |
७ क
भीष्म उवाच:
द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च ||
७ ख
भीष्म उवाच:
चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् |
८ क
भीष्म उवाच:
अप्रहर्षमनानन्दमशोकं विगतक्लमम् ||
८ ख
भीष्म उवाच:
कालः सम्पच्यते तत्र न कालस्तत्र वै प्रभुः |
९ क
भीष्म उवाच:
स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः ||
९ ख
भीष्म उवाच:
आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति |
१० क
भीष्म उवाच:
ईदृशं परमं स्थानं निरय़ास्ते च तादृशाः ||
१० ख
भीष्म उवाच:
एते ते निरय़ाः प्रोक्ताः सर्व एव यथातथम् |
११ क
भीष्म उवाच:
तस्य स्थानवरस्येह सर्वे निरय़सञ्ज्ञिताः ||
११ ख