राजो उवाच:
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मय़ा |
५० क
राजो उवाच:
स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद ||
५० ख
व्राह्मण उवाच:
फलप्राप्तिं न जानामि दत्तं यज्जपितं मय़ा |
५१ क
व्राह्मण उवाच:
अय़ं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ||
५१ ख
राजो उवाच:
अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति |
५२ क
राजो उवाच:
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशय़म् ||
५२ ख
व्राह्मण उवाच:
नाददेऽपरवक्तव्यं दत्तं वाचा फलं मय़ा |
५३ क
व्राह्मण उवाच:
वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि ||
५३ ख
व्राह्मण उवाच:
नाभिसन्धिर्मय़ा जप्ये कृतपूर्वः कथञ्चन |
५४ क
व्राह्मण उवाच:
जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् ||
५४ ख
व्राह्मण उवाच:
ददस्वेति त्वय़ा चोक्तं ददामीति तथा मय़ा |
५५ क
व्राह्मण उवाच:
न वाचं दूषय़िष्यामि सत्यं रक्ष स्थिरो भव ||
५५ ख
व्राह्मण उवाच:
अथैवं वदतो मेऽद्य वचनं न करिष्यसि |
५६ क
व्राह्मण उवाच:
महानधर्मो भविता तव राजन्मृषाकृतः ||
५६ ख
व्राह्मण उवाच:
न युक्तं तु मृषा वाणी त्वय़ा वक्तुमरिन्दम |
५७ क
व्राह्मण उवाच:
तथा मय़ाप्यभ्यधिकं मृषा वक्तुं न शक्यते ||
५७ ख
व्राह्मण उवाच:
संश्रुतं च मय़ा पूर्वं ददानीत्यविचारितम् |
५८ क
व्राह्मण उवाच:
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ||
५८ ख
व्राह्मण उवाच:
इहागम्य हि मां राजञ्जाप्यं फलमय़ाचिथाः |
५९ क
व्राह्मण उवाच:
तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च ||
५९ ख
व्राह्मण उवाच:
नाय़ं लोकोऽस्ति न परो न च पूर्वान्स तारय़ेत् |
६० क
व्राह्मण उवाच:
कुत एवावरान्राजन्मृषावादपराय़णः ||
६० ख
व्राह्मण उवाच:
न यज्ञाध्ययने दानं निय़मास्तारय़न्ति हि |
६१ क
व्राह्मण उवाच:
तथा सत्यं परे लोके यथा वै पुरुषर्षभ ||
६१ ख
व्राह्मण उवाच:
तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः |
६२ क
व्राह्मण उवाच:
समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ||
६२ ख
व्राह्मण उवाच:
सत्यमेकाक्षरं व्रह्म सत्यमेकाक्षरं तपः |
६३ क
व्राह्मण उवाच:
सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् ||
६३ ख
व्राह्मण उवाच:
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् |
६४ क
व्राह्मण उवाच:
सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ||
६४ ख
व्राह्मण उवाच:
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः |
६५ क
व्राह्मण उवाच:
व्रतचर्यास्तथा सत्यमोङ्कारः सत्यमेव च ||
६५ ख
व्राह्मण उवाच:
प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च |
६६ क
व्राह्मण उवाच:
सत्येन वाय़ुरभ्येति सत्येन तपते रविः ||
६६ ख
व्राह्मण उवाच:
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः |
६७ क
व्राह्मण उवाच:
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ||
६७ ख
व्राह्मण उवाच:
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् |
६८ क
व्राह्मण उवाच:
समां कक्षां धारय़तो यतः सत्यं ततोऽधिकम् ||
६८ ख
व्राह्मण उवाच:
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते |
६९ क
व्राह्मण उवाच:
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ||
६९ ख
व्राह्मण उवाच:
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः |
७० क
व्राह्मण उवाच:
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ||
७० ख
व्राह्मण उवाच:
यदि जप्यफलं दत्तं मय़ा नेषिष्यसे नृप |
७१ क
व्राह्मण उवाच:
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ||
७१ ख
व्राह्मण उवाच:
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति |
७२ क
व्राह्मण उवाच:
उभावानृतिकावेतौ न मृषा कर्तुमर्हसि ||
७२ ख
राजो उवाच:
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज |
७३ क
राजो उवाच:
दातारः क्षत्रिय़ाः प्रोक्ता गृह्णीय़ां भवतः कथम् ||
७३ ख
व्राह्मण उवाच:
न छन्दय़ामि ते राजन्नापि ते गृहमाव्रजम् |
७४ क
व्राह्मण उवाच:
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ||
७४ ख
धर्म उवाच:
अविवादोऽस्तु युवय़ोर्वित्तं मां धर्ममागतम् |
७५ क
धर्म उवाच:
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ||
७५ ख
स्वर्ग उवाच:
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वय़मागतम् |
७६ क
स्वर्ग उवाच:
अविवादोऽस्तु युवय़ोरुभौ तुल्यफलौ युवाम् ||
७६ ख
राजो उवाच:
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् |
७७ क
राजो उवाच:
विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् ||
७७ ख
व्राह्मण उवाच:
वाल्ये यदि स्यादज्ञानान्मय़ा हस्तः प्रसारितः |
७८ क
व्राह्मण उवाच:
निवृत्तिलक्षणं धर्ममुपासे संहितां जपन् ||
७८ ख
व्राह्मण उवाच:
निवृत्तं मां चिरं राजन्विप्रं लोभय़से कथम् |
७९ क
व्राह्मण उवाच:
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप |
७९ ख
व्राह्मण उवाच:
तपःस्वाध्याय़शीलोऽहं निवृत्तश्च प्रतिग्रहात् ||
७९ ग
राजो उवाच:
यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम् |
८० क
राजो उवाच:
आवय़ोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह ||
८० ख
राजो उवाच:
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः |
८१ क
राजो उवाच:
यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ ||
८१ ख
राजो उवाच:
मा वा भूत्सहभोज्यं नौ मदीय़ं फलमाप्नुहि |
८२ क
राजो उवाच:
प्रतीच्छ मत्कृतं धर्मं यदि ते मय़्यनुग्रहः ||
८२ ख
भीष्म उवाच:
ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ |
८३ क
भीष्म उवाच:
गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः ||
८३ ख
भीष्म उवाच:
न मे धारय़सीत्येको धारय़ामीति चापरः |
८४ क
भीष्म उवाच:
इहास्ति नौ विवादोऽय़मय़ं राजानुशासकः ||
८४ ख
भीष्म उवाच:
सत्यं व्रवीम्यहमिदं न मे धारय़ते भवान् |
८५ क
भीष्म उवाच:
अनृतं वदसीह त्वमृणं ते धारय़ाम्यहम् ||
८५ ख
भीष्म उवाच:
तावुभौ भृशसन्तप्तौ राजानमिदमूचतुः |
८६ क
भीष्म उवाच:
परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ ||
८६ ख
विरूप उवाच:
धारय़ामि नरव्याघ्र विकृतस्येह गोः फलम् |
८७ क
विरूप उवाच:
ददतश्च न गृह्णाति विकृतो मे महीपते ||
८७ ख
विकृत उवाच:
न मे धारय़ते किञ्चिद्विरूपोऽय़ं नराधिप |
८८ क
विकृत उवाच:
मिथ्या व्रवीत्ययं हि त्वा मिथ्याभासं नराधिप ||
८८ ख
राजो उवाच:
विरूप किं धारय़ते भवानस्य वदस्व मे |
८९ क
राजो उवाच:
श्रुत्वा तथा करिष्यामीत्येवं मे धीय़ते मतिः ||
८९ ख
विरूप उवाच:
शृणुष्वावहितो राजन्यथैतद्धारय़ाम्यहम् |
९० क
विरूप उवाच:
विकृतस्यास्य राजर्षे निखिलेन नरर्षभ ||
९० ख
विरूप उवाच:
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ |
९१ क
विरूप उवाच:
धेनुर्विप्राय़ राजर्षे तपःस्वाध्याय़शीलिने ||
९१ ख
विरूप उवाच:
तस्याश्चाय़ं मय़ा राजन्फलमभ्येत्य याचितः |
९२ क
विरूप उवाच:
विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना ||
९२ ख
विरूप उवाच:
ततो मे सुकृतं कर्म कृतमात्मविशुद्धय़े |
९३ क
विरूप उवाच:
गावौ हि कपिले क्रीत्वा वत्सले वहुदोहने ||
९३ ख
विरूप उवाच:
ते चोञ्छवृत्तय़े राजन्मय़ा समपवर्जिते |
९४ क
विरूप उवाच:
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ||
९४ ख
विरूप उवाच:
इहाद्य वै गृहीत्वा तत्प्रय़च्छे द्विगुणं फलम् |
९५ क
विरूप उवाच:
एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् ||
९५ ख
विरूप उवाच:
एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप |
९६ क
विरूप उवाच:
कुरु धर्ममधर्मं वा विनय़े नौ समाधय़ ||
९६ ख
विरूप उवाच:
यदि नेच्छति मे दानं यथा दत्तमनेन वै |
९७ क
विरूप उवाच:
भवानत्र स्थिरो भूत्वा मार्गे स्थापय़तु प्रभुः ||
९७ ख
राजो उवाच:
दीय़मानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै |
९८ क
राजो उवाच:
यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् ||
९८ ख
विकृत उवाच:
दीय़तामित्यनेनोक्तं ददानीति तथा मय़ा |
९९ क