विकृत उवाच:
नाय़ं मे धारय़त्यत्र गम्यतां यत्र वाञ्छति ||
९९ ख
राजो उवाच:
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे |
१०० क
राजो उवाच:
दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशय़ः ||
१०० ख
विकृत उवाच:
मय़ास्य दत्तं राजर्षे गृह्णीय़ां तत्कथं पुनः |
१०१ क
विकृत उवाच:
काममत्रापराधो मे दण्ड्यमाज्ञापय़ प्रभो ||
१०१ ख
विरूप उवाच:
दीय़मानं यदि मय़ा नेषिष्यसि कथञ्चन |
१०२ क
विरूप उवाच:
निय़ंस्यति त्वा नृपतिरय़ं धर्मानुशासकः ||
१०२ ख
विकृत उवाच:
स्वं मय़ा याचितेनेह दत्तं कथमिहाद्य तत् |
१०३ क
विकृत उवाच:
गृह्णीय़ां गच्छतु भवानभ्यनुज्ञां ददानि ते ||
१०३ ख
व्राह्मण उवाच:
श्रुतमेतत्त्वय़ा राजन्ननय़ोः कथितं द्वय़ोः |
१०४ क
व्राह्मण उवाच:
प्रतिज्ञातं मय़ा यत्ते तद्गृहाणाविचारितम् ||
१०४ ख
राजो उवाच:
प्रस्तुतं सुमहत्कार्यमावय़ोर्गह्वरं यथा |
१०५ क
राजो उवाच:
जापकस्य दृढीकारः कथमेतद्भविष्यति ||
१०५ ख
राजो उवाच:
यदि तावन्न गृह्णामि व्राह्मणेनापवर्जितम् |
१०६ क
राजो उवाच:
कथं न लिप्येय़महं दोषेण महताद्य वै ||
१०६ ख
भीष्म उवाच:
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः |
१०७ क
भीष्म उवाच:
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ||
१०७ ख
भीष्म उवाच:
स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चय़ः |
१०८ क
भीष्म उवाच:
विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत् ||
१०८ ख
व्राह्मण उवाच:
गृहाण धारय़ेऽहं ते याचितं ते श्रुतं मय़ा |
१०९ क
व्राह्मण उवाच:
न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशय़ः ||
१०९ ख
राजो उवाच:
धिग्राजधर्मं यस्याय़ं कार्यस्येह विनिश्चय़ः |
११० क
राजो उवाच:
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ||
११० ख
राजो उवाच:
एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः |
१११ क
राजो उवाच:
यन्मे धारय़से विप्र तदिदानीं प्रदीय़ताम् ||
१११ ख
व्राह्मण उवाच:
संहितां जपता यावान्मय़ा कश्चिद्गुणः कृतः |
११२ क
व्राह्मण उवाच:
तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे ||
११२ ख
राजो उवाच:
जलमेतन्निपतितं मम पाणौ द्विजोत्तम |
११३ क
राजो उवाच:
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ||
११३ ख
विरूप उवाच:
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् |
११४ क
विरूप उवाच:
समेति च यदुक्तं ते समा लोकास्तवास्य च ||
११४ ख
विरूप उवाच:
नाय़ं धारय़ते किञ्चिज्जिज्ञासा त्वत्कृते कृता |
११५ क
विरूप उवाच:
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ||
११५ ख
विरूप उवाच:
सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव |
११६ क
विरूप उवाच:
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ||
११६ ख
भीष्म उवाच:
जापकानां फलावाप्तिर्मय़ा ते सम्प्रकीर्तिता |
११७ क
भीष्म उवाच:
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ||
११७ ख
भीष्म उवाच:
प्रय़ाति संहिताध्याय़ी व्रह्माणं परमेष्ठिनम् |
११८ क
भीष्म उवाच:
अथ वाग्निं समाय़ाति सूर्यमाविशतेऽपि वा ||
११८ ख
भीष्म उवाच:
स तैजसेन भावेन यदि तत्राश्नुते रतिम् |
११९ क
भीष्म उवाच:
गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः ||
११९ ख
भीष्म उवाच:
एवं सोमे तथा वाय़ौ भूम्याकाशशरीरगः |
१२० क
भीष्म उवाच:
सरागस्तत्र वसति गुणांस्तेषां समाचरन् ||
१२० ख
भीष्म उवाच:
अथ तत्र विरागी स गच्छति त्वथ संशय़म् |
१२१ क
भीष्म उवाच:
परमव्ययमिच्छन्स तमेवाविशते पुनः ||
१२१ ख
भीष्म उवाच:
अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् |
१२२ क
भीष्म उवाच:
व्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामय़ः ||
१२२ ख
भीष्म उवाच:
व्रह्मस्थानमनावर्तमेकमक्षरसञ्ज्ञकम् |
१२३ क
भीष्म उवाच:
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ||
१२३ ख
भीष्म उवाच:
चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः |
१२४ क
भीष्म उवाच:
पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते ||
१२४ ख
भीष्म उवाच:
अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति |
१२५ क
भीष्म उवाच:
यच्च प्रार्थय़ते तच्च मनसा प्रतिपद्यते ||
१२५ ख
भीष्म उवाच:
अथ वा वीक्षते लोकान्सर्वान्निरय़संस्थितान् |
१२६ क
भीष्म उवाच:
निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी ||
१२६ ख
भीष्म उवाच:
एवमेषा महाराज जापकस्य गतिर्यथा |
१२७ क
भीष्म उवाच:
एतत्ते सर्वमाख्यातं किं भूय़ः श्रोतुमिच्छसि ||
१२७ ख