chevron_left आदि पर्व अध्याय १९२
वैशम्पाय़न उवाच:
ततो राज्ञां चरैराप्तैश्चारः समुपनीय़त |
१ क
वैशम्पाय़न उवाच:
पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ||
१ ख
वैशम्पाय़न उवाच:
येन तद्धनुराय़म्य लक्ष्यं विद्धं महात्मना |
२ क
वैशम्पाय़न उवाच:
सोऽर्जुनो जय़तां श्रेष्ठो महावाणधनुर्धरः ||
२ ख
वैशम्पाय़न उवाच:
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामय़द्वली |
३ क
वैशम्पाय़न उवाच:
त्रासय़ंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ||
३ ख
वैशम्पाय़न उवाच:
न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः |
४ क
वैशम्पाय़न उवाच:
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ||
४ ख
वैशम्पाय़न उवाच:
व्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा |
५ क
वैशम्पाय़न उवाच:
कौन्तेय़ान्मनुजेन्द्राणां विस्मय़ः समजाय़त ||
५ ख
वैशम्पाय़न उवाच:
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता |
६ क
वैशम्पाय़न उवाच:
पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ||
६ ख
वैशम्पाय़न उवाच:
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् |
७ क
वैशम्पाय़न उवाच:
कर्मणा सुनृशंसेन पुरोचनकृतेन वै ||
७ ख
वैशम्पाय़न उवाच:
वृत्ते स्वय़ंवरे चैव राजानः सर्व एव ते |
८ क
वैशम्पाय़न उवाच:
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ||
८ ख
वैशम्पाय़न उवाच:
अथ दुर्योधनो राजा विमना भ्रातृभिः सह |
९ क
वैशम्पाय़न उवाच:
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ||
९ ख
वैशम्पाय़न उवाच:
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् |
१० क
वैशम्पाय़न उवाच:
तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाव्रवीत् ||
१० ख
वैशम्पाय़न उवाच:
यद्यसौ व्राह्मणो न स्याद्विन्देत द्रौपदीं न सः |
११ क
वैशम्पाय़न उवाच:
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जय़म् ||
११ ख
वैशम्पाय़न उवाच:
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् |
१२ क
वैशम्पाय़न उवाच:
धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ||
१२ ख
वैशम्पाय़न उवाच:
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् |
१३ क
वैशम्पाय़न उवाच:
विविशुर्हास्तिनपुरं दीना विगतचेतसः ||
१३ ख
वैशम्पाय़न उवाच:
त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः |
१४ क
वैशम्पाय़न उवाच:
मुक्तान्हव्यवहाच्चैनान्संय़ुक्तान्द्रुपदेन च ||
१४ ख
वैशम्पाय़न उवाच:
धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् |
१५ क
वैशम्पाय़न उवाच:
द्रुपदस्यात्मजांश्चान्यान्सर्वय़ुद्धविशारदान् ||
१५ ख
वैशम्पाय़न उवाच:
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् |
१६ क
वैशम्पाय़न उवाच:
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ||
१६ ख
वैशम्पाय़न उवाच:
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते |
१७ क
वैशम्पाय़न उवाच:
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ||
१७ ख
वैशम्पाय़न उवाच:
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् |
१८ क
वैशम्पाय़न उवाच:
अव्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ||
१८ ख
वैशम्पाय़न उवाच:
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया |
१९ क
वैशम्पाय़न उवाच:
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ||
१९ ख
वैशम्पाय़न उवाच:
अथ त्वाज्ञापय़ामास द्रौपद्या भूषणं वहु |
२० क
वैशम्पाय़न उवाच:
आनीय़तां वै कृष्णेति पुत्रं दुर्योधनं तदा ||
२० ख
वैशम्पाय़न उवाच:
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् |
२१ क
वैशम्पाय़न उवाच:
सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च |
२१ ख
वैशम्पाय़न उवाच:
तेषां सम्वन्धिनश्चान्यान्वहून्वलसमन्वितान् ||
२१ ग
धृतराष्ट्र उवाच:
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम |
२२ क
धृतराष्ट्र उवाच:
सेय़मभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता |
२२ ख
धृतराष्ट्र उवाच:
यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ||
२२ ग
धृतराष्ट्र उवाच:
को हि द्रुपदमासाद्य मित्रं क्षत्तः सवान्धवम् |
२३ क
धृतराष्ट्र उवाच:
न वुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ||
२३ ख
वैशम्पाय़न उवाच:
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत |
२४ क
वैशम्पाय़न उवाच:
नित्यं भवतु ते वुद्धिरेषा राजञ्शतं समाः ||
२४ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनश्चैव राधेय़श्च विशां पते |
२५ क
वैशम्पाय़न उवाच:
धृतराष्ट्रमुपागम्य वचोऽव्रूतामिदं तदा ||
२५ ख
वैशम्पाय़न उवाच:
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः |
२६ क
वैशम्पाय़न उवाच:
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ||
२६ ख
वैशम्पाय़न उवाच:
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः |
२७ क
वैशम्पाय़न उवाच:
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ||
२७ ख
वैशम्पाय़न उवाच:
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ |
२८ क
वैशम्पाय़न उवाच:
तेषां वलविघातो हि कर्तव्यस्तात नित्यशः ||
२८ ख
वैशम्पाय़न उवाच:
ते वय़ं प्राप्तकालस्य चिकीर्षां मन्त्रय़ामहे |
२९ क
वैशम्पाय़न उवाच:
यथा नो न ग्रसेय़ुस्ते सपुत्रवलवान्धवान् ||
२९ ख