युधिष्ठिर उवाच:
कालमृत्युय़मानां च व्राह्मणस्य च सत्तम |
१ क
युधिष्ठिर उवाच:
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं व्राह्मणस्य च ||
२ ख
भीष्म उवाच:
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निवोध मे |
३ क
भीष्म उवाच:
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ||
३ ख
भीष्म उवाच:
व्राह्मणो जापकः कश्चिद्धर्मवृत्तो महाय़शाः |
४ क
भीष्म उवाच:
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ||
४ ख
भीष्म उवाच:
तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च |
५ क
भीष्म उवाच:
वेदेषु चैव निष्णातो हिमवत्पादसंश्रय़ः ||
५ ख
भीष्म उवाच:
सोऽन्त्यं व्राह्मं तपस्तेपे संहितां संय़तो जपन् |
६ क
भीष्म उवाच:
तस्य वर्षसहस्रं तु निय़मेन तथा गतम् ||
६ ख
भीष्म उवाच:
स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल |
७ क
भीष्म उवाच:
जप्यमावर्तय़ंस्तूष्णीं न च तां किञ्चिदव्रवीत् ||
७ ख
भीष्म उवाच:
तस्यानुकम्पय़ा देवी प्रीता समभवत्तदा |
८ क
भीष्म उवाच:
वेदमाता ततस्तस्य तज्जप्यं समपूजय़त् ||
८ ख
भीष्म उवाच:
समाप्तजप्यस्तूत्थाय़ शिरसा पादय़ोस्तथा |
९ क
भीष्म उवाच:
पपात देव्या धर्मात्मा वचनं चेदमव्रवीत् ||
९ ख
भीष्म उवाच:
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम |
१० क
भीष्म उवाच:
यदि वापि प्रसन्नासि जप्ये मे रमतां मनः ||
१० ख
सावित्र्यु उवाच:
किं प्रार्थय़सि विप्रर्षे किं चेष्टं करवाणि ते |
११ क
सावित्र्यु उवाच:
प्रव्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ||
११ ख
भीष्म उवाच:
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् |
१२ क
भीष्म उवाच:
जप्यं प्रति ममेच्छेय़ं वर्धत्विति पुनः पुनः ||
१२ ख
भीष्म उवाच:
मनसश्च समाधिर्मे वर्धेताहरहः शुभे |
१३ क
भीष्म उवाच:
तत्तथेति ततो देवी मधुरं प्रत्यभाषत ||
१३ ख
भीष्म उवाच:
इदं चैवापरं प्राह देवी तत्प्रिय़काम्यया |
१४ क
भीष्म उवाच:
निरय़ं नैव यातासि यत्र याता द्विजर्षभाः ||
१४ ख
भीष्म उवाच:
यास्यसि व्रह्मणः स्थानमनिमित्तमनिन्दितम् |
१५ क
भीष्म उवाच:
साधय़े भविता चैतद्यत्त्वय़ाहमिहार्थिता ||
१५ ख
भीष्म उवाच:
निय़तो जप चैकाग्रो धर्मस्त्वां समुपैष्यति |
१६ क
भीष्म उवाच:
कालो मृत्युर्यमश्चैव समाय़ास्यन्ति तेऽन्तिकम् |
१६ ख
भीष्म उवाच:
भविता च विवादोऽत्र तव तेषां च धर्मतः ||
१६ ग
भीष्म उवाच:
एवमुक्त्वा भगवती जगाम भवनं स्वकम् |
१७ क
भीष्म उवाच:
व्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा ||
१७ ख
भीष्म उवाच:
समाप्ते निय़मे तस्मिन्नथ विप्रस्य धीमतः |
१८ क
भीष्म उवाच:
साक्षात्प्रीतस्तदा धर्मो दर्शय़ामास तं द्विजम् ||
१८ ख
धर्म उवाच:
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः |
१९ क
धर्म उवाच:
जप्यस्य च फलं यत्ते सम्प्राप्तं तच्च मे शृणु ||
१९ ख
धर्म उवाच:
जिता लोकास्त्वय़ा सर्वे ये दिव्या ये च मानुषाः |
२० क
धर्म उवाच:
देवानां निरय़ान्साधो सर्वानुत्क्रम्य यास्यसि ||
२० ख
धर्म उवाच:
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् |
२१ क
धर्म उवाच:
त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि ||
२१ ख
व्राह्मण उवाच:
कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम् |
२२ क
व्राह्मण उवाच:
वहुदुःखसुखं देहं नोत्सृजेय़महं विभो ||
२२ ख
धर्म उवाच:
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव |
२३ क
धर्म उवाच:
स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ ||
२३ ख
व्राह्मण उवाच:
न रोचय़े स्वर्गवासं विना देहादहं विभो |
२४ क
व्राह्मण उवाच:
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना ||
२४ ख
धर्म उवाच:
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव |
२५ क
धर्म उवाच:
गच्छ लोकानरजसो यत्र गत्वा न शोचसि ||
२५ ख
व्राह्मण उवाच:
रमे जपन्महाभाग कृतं लोकैः सनातनैः |
२६ क
व्राह्मण उवाच:
सशरीरेण गन्तव्यो मय़ा स्वर्गो न वा विभो ||
२६ ख
धर्म उवाच:
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज |
२७ क
धर्म उवाच:
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ||
२७ ख
भीष्म उवाच:
अथ वैवस्वतः कालो मृत्युश्च त्रितय़ं विभो |
२८ क
भीष्म उवाच:
व्राह्मणं तं महाभागमुपागम्येदमव्रुवन् ||
२८ ख
भीष्म उवाच:
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च |
२९ क
भीष्म उवाच:
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपव्रुवे ||
२९ ख
भीष्म उवाच:
यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् |
३० क
भीष्म उवाच:
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः ||
३० ख
भीष्म उवाच:
मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वय़मागतम् |
३१ क
भीष्म उवाच:
कालेन चोदितं विप्र त्वामितो नेतुमद्य वै ||
३१ ख
व्राह्मण उवाच:
स्वागतं सूर्यपुत्राय़ कालाय़ च महात्मने |
३२ क
व्राह्मण उवाच:
मृत्यवे चाथ धर्माय़ किं कार्यं करवाणि वः ||
३२ ख
भीष्म उवाच:
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे |
३३ क
भीष्म उवाच:
अव्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ||
३३ ख
भीष्म उवाच:
तस्मिन्नेवाथ काले तु तीर्थय़ात्रामुपागतः |
३४ क
भीष्म उवाच:
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ||
३४ ख
भीष्म उवाच:
सर्वानेव तु राजर्षिः सम्पूज्याभिप्रणम्य च |
३५ क
भीष्म उवाच:
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ||
३५ ख
भीष्म उवाच:
तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च |
३६ क
भीष्म उवाच:
अव्रवीद्व्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ||
३६ ख
भीष्म उवाच:
स्वागतं ते महाराज व्रूहि यद्यदिहेच्छसि |
३७ क
भीष्म उवाच:
स्वशक्त्या किं करोमीह तद्भवान्प्रव्रवीतु मे ||
३७ ख
राजो उवाच:
राजाहं व्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः |
३८ क
राजो उवाच:
ददामि वसु किञ्चित्ते प्रार्थितं तद्वदस्व मे ||
३८ ख
व्राह्मण उवाच:
द्विविधा व्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः |
३९ क
व्राह्मण उवाच:
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात् ||
३९ ख
व्राह्मण उवाच:
तेभ्यः प्रय़च्छ दानानि ये प्रवृत्ता नराधिप |
४० क
व्राह्मण उवाच:
अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते |
४० ख
व्राह्मण उवाच:
व्रूहि त्वं नृपतिश्रेष्ठ तपसा साधय़ामि किम् ||
४० ग
राजो उवाच:
क्षत्रिय़ोऽहं न जानामि देहीति वचनं क्वचित् |
४१ क
राजो उवाच:
प्रय़च्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम ||
४१ ख
व्राह्मण उवाच:
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वय़ं नृप |
४२ क
व्राह्मण उवाच:
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ||
४२ ख
राजो उवाच:
स्वशक्त्याहं ददानीति त्वय़ा पूर्वं प्रभाषितम् |
४३ क
राजो उवाच:
याचे त्वां दीय़तां मह्यं जप्यस्यास्य फलं द्विज ||
४३ ख
व्राह्मण उवाच:
युद्धं मम सदा वाणी याचतीति विकत्थसे |
४४ क
व्राह्मण उवाच:
न च युद्धं मय़ा सार्धं किमर्थं याचसे पुनः ||
४४ ख
राजो उवाच:
वाग्वज्रा व्राह्मणाः प्रोक्ताः क्षत्रिय़ा वाहुजीविनः |
४५ क
राजो उवाच:
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वय़ा सह ||
४५ ख
व्राह्मण उवाच:
सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीय़ताम् |
४६ क
व्राह्मण उवाच:
व्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ||
४६ ख
राजो उवाच:
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वय़ा |
४७ क
राजो उवाच:
फलं प्राप्तं तत्प्रय़च्छ मम दित्सुर्भवान्यदि ||
४७ ख
व्राह्मण उवाच:
परमं गृह्यतां तस्य फलं यज्जपितं मय़ा |
४८ क
व्राह्मण उवाच:
अर्धं त्वमविचारेण फलं तस्य समाप्नुहि ||
४८ ख
व्राह्मण उवाच:
अथ वा सर्वमेवेह जप्यकं मामकं फलम् |
४९ क
व्राह्मण उवाच:
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ||
४९ ख