chevron_left द्रोण पर्व अध्याय ३७
धृतराष्ट्र उवाच:
तथा प्रमथमानं तं महेष्वासमजिह्मगैः |
१ क
धृतराष्ट्र उवाच:
आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् ||
१ ख
सञ्जय़ उवाच:
शृणु राजन्कुमारस्य रणे विक्रीडितं महत् |
२ क
सञ्जय़ उवाच:
विभित्सतो रथानीकं भारद्वाजेन रक्षितम् ||
२ ख
सञ्जय़ उवाच:
मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे |
३ क
सञ्जय़ उवाच:
शल्यादवरजः क्रुद्धः किरन्वाणान्समभ्ययात् ||
३ ख
सञ्जय़ उवाच:
स विद्ध्वा दशभिर्वाणैः साश्वय़न्तारमार्जुनिम् |
४ क
सञ्जय़ उवाच:
उदक्रोशन्महाशव्दं तिष्ठ तिष्ठेति चाव्रवीत् ||
४ ख
सञ्जय़ उवाच:
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हय़ान् |
५ क
सञ्जय़ उवाच:
छत्रं ध्वजं निय़न्तारं त्रिवेणुं शम्युपस्करम् ||
५ ख
सञ्जय़ उवाच:
चक्रे युगेषां तूणीराननुकर्षं च साय़कैः |
६ क
सञ्जय़ उवाच:
पताकां चक्रगोप्तारौ सर्वोपकरणानि च |
६ ख
सञ्जय़ उवाच:
व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन ||
६ ग
सञ्जय़ उवाच:
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्वरः |
७ क
सञ्जय़ उवाच:
वाय़ुनेव महाचैत्यः सम्भग्नोऽमिततेजसा |
७ ख
सञ्जय़ उवाच:
अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् ||
७ ग
सञ्जय़ उवाच:
आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः |
८ क
सञ्जय़ उवाच:
नादेन सर्वभूतानि साधु साध्विति भारत ||
८ ख
सञ्जय़ उवाच:
शल्यभ्रातर्यथारुग्णे वहुशस्तस्य सैनिकाः |
९ क
सञ्जय़ उवाच:
कुलाधिवासनामानि श्रावय़न्तोऽर्जुनात्मजम् ||
९ ख
सञ्जय़ उवाच:
अभ्यवर्तन्त सङ्क्रुद्धा विविधाय़ुधपाणय़ः |
१० क
सञ्जय़ उवाच:
रथैरश्वैर्गजैश्चान्ये पादातैश्च वलोत्कटाः ||
१० ख
सञ्जय़ उवाच:
वाणशव्देन महता खुरनेमिस्वनेन च |
११ क
सञ्जय़ उवाच:
हुङ्कारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः ||
११ ख
सञ्जय़ उवाच:
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् |
१२ क
सञ्जय़ उवाच:
व्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति ||
१२ ख
सञ्जय़ उवाच:
तांस्तथा व्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव |
१३ क
सञ्जय़ उवाच:
यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ||
१३ ख
सञ्जय़ उवाच:
सन्दर्शय़िष्यन्नस्त्राणि चित्राणि च लघूनि च |
१४ क
सञ्जय़ उवाच:
आर्जुनिः समरे शूरो मृदुपूर्वमय़ुध्यत ||
१४ ख
सञ्जय़ उवाच:
वासुदेवादुपात्तं यद्यदस्त्रं च धनञ्जय़ात् |
१५ क
सञ्जय़ उवाच:
अदर्शय़त तत्कार्ष्णिः कृष्णाभ्यामविशेषय़न् ||
१५ ख
सञ्जय़ उवाच:
दूरमस्यन्गुरुं भारं साधय़ंश्च पुनः पुनः |
१६ क
सञ्जय़ उवाच:
सन्दधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ||
१६ ख
सञ्जय़ उवाच:
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत |
१७ क
सञ्जय़ उवाच:
तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा ||
१७ ख
सञ्जय़ उवाच:
ज्याशव्दः शुश्रुवे तस्य तलशव्दश्च दारुणः |
१८ क
सञ्जय़ उवाच:
महाशनिमुचः काले पय़ोदस्येव निस्वनः ||
१८ ख
सञ्जय़ उवाच:
ह्रीमानमर्षी सौभद्रो मानकृत्प्रिय़दर्शनः |
१९ क
सञ्जय़ उवाच:
संमिमानय़िषुर्वीरानिष्वासांश्चाप्ययुध्यत ||
१९ ख
सञ्जय़ उवाच:
मृदुर्भूत्वा महाराज दारुणः समपद्यत |
२० क
सञ्जय़ उवाच:
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ||
२० ख
सञ्जय़ उवाच:
शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् |
२१ क
सञ्जय़ उवाच:
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ||
२१ ख
सञ्जय़ उवाच:
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महाय़शाः |
२२ क
सञ्जय़ उवाच:
नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि ||
२२ ख
सञ्जय़ उवाच:
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः |
२३ क
सञ्जय़ उवाच:
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ||
२३ ख