chevron_left वन पर्व अध्याय १९३
मार्कण्डेय़ उवाच:
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् |
१ क
मार्कण्डेय़ उवाच:
प्राप्तः परमधर्मात्मा सोऽय़ोध्याय़ां नृपोऽभवत् ||
१ ख
मार्कण्डेय़ उवाच:
शशादस्य तु दाय़ादः ककुत्स्थो नाम वीर्यवान् |
२ क
मार्कण्डेय़ उवाच:
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ||
२ ख
मार्कण्डेय़ उवाच:
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् |
३ क
मार्कण्डेय़ उवाच:
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ||
३ ख
मार्कण्डेय़ उवाच:
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता |
४ क
मार्कण्डेय़ उवाच:
श्रावस्तस्य तु दाय़ादो वृहदश्वो महावलः |
४ ख
मार्कण्डेय़ उवाच:
वृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः ||
४ ग
मार्कण्डेय़ उवाच:
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः |
५ क
मार्कण्डेय़ उवाच:
सर्वे विद्यासु निष्णाता वलवन्तो दुरासदाः ||
५ ख
मार्कण्डेय़ उवाच:
कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् |
६ क
मार्कण्डेय़ उवाच:
समय़े तं ततो राज्ये वृहदश्वोऽभ्यषेचय़त् |
६ ख
मार्कण्डेय़ उवाच:
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ||
६ ग
मार्कण्डेय़ उवाच:
पुत्रसङ्क्रामितश्रीस्तु वृहदश्वो महीपतिः |
७ क
मार्कण्डेय़ उवाच:
जगाम तपसे धीमांस्तपोवनममित्रहा ||
७ ख
मार्कण्डेय़ उवाच:
अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर |
८ क
मार्कण्डेय़ उवाच:
वनं सम्प्रस्थितं राजन्वृहदश्वं द्विजोत्तमः ||
८ ख
मार्कण्डेय़ उवाच:
तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् |
९ क
मार्कण्डेय़ उवाच:
न्यवारय़दमेय़ात्मा समासाद्य नरोत्तमम् ||
९ ख
उत्तङ्क उवाच:
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि |
१० क
उत्तङ्क उवाच:
निरुद्विग्ना वय़ं राजंस्त्वत्प्रसादाद्वसेमहि ||
१० ख
उत्तङ्क उवाच:
त्वय़ा हि पृथिवी राजन्रक्ष्यमाणा महात्मना |
११ क
उत्तङ्क उवाच:
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ||
११ ख
उत्तङ्क उवाच:
पालने हि महान्धर्मः प्रजानामिह दृश्यते |
१२ क
उत्तङ्क उवाच:
न तथा दृश्यतेऽरण्ये मा ते भूद्वुद्धिरीदृशी ||
१२ ख
उत्तङ्क उवाच:
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते |
१३ क
उत्तङ्क उवाच:
प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः |
१३ ख
उत्तङ्क उवाच:
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ||
१३ ग
उत्तङ्क उवाच:
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव |
१४ क
उत्तङ्क उवाच:
ममाश्रमसमीपे वै समेषु मरुधन्वसु ||
१४ ख
उत्तङ्क उवाच:
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः |
१५ क
उत्तङ्क उवाच:
वहुय़ोजनविस्तीर्णो वहुय़ोजनमाय़तः ||
१५ ख
उत्तङ्क उवाच:
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः |
१६ क
उत्तङ्क उवाच:
मधुकैटभय़ोः पुत्रो धुन्धुर्नाम सुदारुणः ||
१६ ख
उत्तङ्क उवाच:
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः |
१७ क
उत्तङ्क उवाच:
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ||
१७ ख
उत्तङ्क उवाच:
शेते लोकविनाशाय़ तप आस्थाय़ दारुणम् |
१८ क
उत्तङ्क उवाच:
त्रिदशानां विनाशाय़ लोकानां चापि पार्थिव ||
१८ ख
उत्तङ्क उवाच:
अवध्यो देवतानां स दैत्यानामथ रक्षसाम् |
१९ क
उत्तङ्क उवाच:
नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः |
१९ ख
उत्तङ्क उवाच:
अवाप्य स वरं राजन्सर्वलोकपितामहात् ||
१९ ग
उत्तङ्क उवाच:
तं विनाशय़ भद्रं ते मा ते वुद्धिरतोऽन्यथा |
२० क
उत्तङ्क उवाच:
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ||
२० ख
उत्तङ्क उवाच:
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै |
२१ क
उत्तङ्क उवाच:
संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते |
२१ ख
उत्तङ्क उवाच:
यदा तदा भूश्चलति सशैलवनकानना ||
२१ ग
उत्तङ्क उवाच:
तस्य निःश्वासवातेन रज उद्धूय़ते महत् |
२२ क
उत्तङ्क उवाच:
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् |
२२ ख
उत्तङ्क उवाच:
सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् ||
२२ ग
उत्तङ्क उवाच:
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे |
२३ क
उत्तङ्क उवाच:
तं विनाशय़ राजेन्द्र लोकानां हितकाम्यया |
२३ ख
उत्तङ्क उवाच:
लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे ||
२३ ग
उत्तङ्क उवाच:
त्वं हि तस्य विनाशाय़ पर्याप्त इति मे मतिः |
२४ क
उत्तङ्क उवाच:
तेजसा तव तेजश्च विष्णुराप्याय़यिष्यति ||
२४ ख
उत्तङ्क उवाच:
विष्णुना च वरो दत्तो मम पूर्वं ततो वधे |
२५ क
उत्तङ्क उवाच:
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः |
२५ ख
उत्तङ्क उवाच:
तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् ||
२५ ग
उत्तङ्क उवाच:
तत्तेजस्त्वं समाधाय़ राजेन्द्र भुवि दुःसहम् |
२६ क
उत्तङ्क उवाच:
तं निषूदय़ सन्दुष्टं दैत्यं रौद्रपराक्रमम् ||
२६ ख
उत्तङ्क उवाच:
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते |
२७ क
उत्तङ्क उवाच:
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ||
२७ ख