chevron_left शान्ति पर्व अध्याय १९४
युधिष्ठिर उवाच:
किं फलं ज्ञानय़ोगस्य वेदानां निय़मस्य च |
१ क
युधिष्ठिर उवाच:
भूतात्मा वा कथं ज्ञेय़स्तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
मनोः प्रजापतेर्वादं महर्षेश्च वृहस्पतेः ||
२ ख
भीष्म उवाच:
प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसङ्घप्रवरो महर्षिः |
३ क
भीष्म उवाच:
वृहस्पतिः प्रश्नमिमं पुराणं; पप्रच्छ शिष्योऽथ गुरुं प्रणम्य ||
३ ख
भीष्म उवाच:
यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत्प्रवदन्ति विप्राः |
४ क
भीष्म उवाच:
यन्मन्त्रशव्दैरकृतप्रकाशं; तदुच्यतां मे भगवन्यथावत् ||
४ ख
भीष्म उवाच:
यदर्थशास्त्रागममन्त्रविद्भि; र्यज्ञैरनेकैर्वरगोप्रदानैः |
५ क
भीष्म उवाच:
फलं महद्भिर्यदुपास्यते च; तत्किं कथं वा भविता क्व वा तत् ||
५ ख
भीष्म उवाच:
मही महीजाः पवनोऽन्तरिक्षं; जलौकसश्चैव जलं दिवं च |
६ क
भीष्म उवाच:
दिवौकसश्चैव यतः प्रसूता; स्तदुच्यतां मे भगवन्पुराणम् ||
६ ख
भीष्म उवाच:
ज्ञानं यतः प्रार्थय़ते नरो वै; ततस्तदर्था भवति प्रवृत्तिः |
७ क
भीष्म उवाच:
न चाप्यहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ||
७ ख
भीष्म उवाच:
ऋक्सामसङ्घांश्च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम् |
८ क
भीष्म उवाच:
अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि ||
८ ख
भीष्म उवाच:
स मे भवाञ्शंसतु सर्वमेत; ज्ज्ञाने फलं कर्मणि वा यदस्ति |
९ क
भीष्म उवाच:
यथा च देहाच्च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति ||
९ ख
मनुरु उवाच:
यद्यत्प्रिय़ं यस्य सुखं तदाहु; स्तदेव दुःखं प्रवदन्त्यनिष्टम् |
१० क
मनुरु उवाच:
इष्टं च मे स्यादितरच्च न स्या; देतत्कृते कर्मविधिः प्रवृत्तः |
१० ख
मनुरु उवाच:
इष्टं त्वनिष्टं च न मां भजेते; त्येतत्कृते ज्ञानविधिः प्रवृत्तः ||
१० ग
मनुरु उवाच:
कामात्मकाश्छन्दसि कर्मय़ोगा; एभिर्विमुक्तः परमश्नुवीत |
११ क
मनुरु उवाच:
नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रय़ाति |
११ ख
मनुरु उवाच:
परं हि तत्कर्मपथादपेतं; निराशिषं व्रह्मपरं ह्यवश्यम् ||
११ ग
मनुरु उवाच:
प्रजाः सृष्टा मनसा कर्मणा च; द्वावप्येतौ सत्पथौ लोकजुष्टौ |
१२ क
मनुरु उवाच:
दृष्ट्वा कर्म शाश्वतं चान्तवच्च; मनस्त्यागः कारणं नान्यदस्ति ||
१२ ख
मनुरु उवाच:
स्वेनात्मना चक्षुरिव प्रणेता; निशात्यये तमसा संवृतात्मा |
१३ क
मनुरु उवाच:
ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीय़म् ||
१३ ख
मनुरु उवाच:
सर्पान्कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जय़न्ति |
१४ क
मनुरु उवाच:
अज्ञानतस्तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम् ||
१४ ख
मनुरु उवाच:
कृत्स्नस्तु मन्त्रो विधिवत्प्रय़ुक्तो; यज्ञा यथोक्तास्त्वथ दक्षिणाश्च |
१५ क
मनुरु उवाच:
अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति ||
१५ ख
मनुरु उवाच:
गुणात्मकं कर्म वदन्ति वेदा; स्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म |
१६ क
मनुरु उवाच:
विधिर्विधेय़ं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी ||
१६ ख
मनुरु उवाच:
शव्दाश्च रूपाणि रसाश्च पुण्याः; स्पर्शाश्च गन्धाश्च शुभास्तथैव |
१७ क
मनुरु उवाच:
नरो नसंस्थानगतः प्रभुः स्या; देतत्फलं सिध्यति कर्मलोके ||
१७ ख
मनुरु उवाच:
यद्यच्छरीरेण करोति कर्म; शरीरय़ुक्तः समुपाश्नुते तत् |
१८ क
मनुरु उवाच:
शरीरमेवाय़तनं सुखस्य; दुःखस्य चाप्याय़तनं शरीरम् ||
१८ ख
मनुरु उवाच:
वाचा तु यत्कर्म करोति किं चि; द्वाचैव सर्वं समुपाश्नुते तत् |
१९ क
मनुरु उवाच:
मनस्तु यत्कर्म करोति किं चि; न्मनःस्थ एवाय़मुपाश्नुते तत् ||
१९ ख
मनुरु उवाच:
यथागुणं कर्मगणं फलार्थी; करोत्ययं कर्मफले निविष्टः |
२० क
मनुरु उवाच:
तथा तथाय़ं गुणसम्प्रय़ुक्तः; शुभाशुभं कर्मफलं भुनक्ति ||
२० ख
मनुरु उवाच:
मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वमुपैति कर्म |
२१ क
मनुरु उवाच:
शुभे त्वसौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी ||
२१ ख
मनुरु उवाच:
यतो जगत्सर्वमिदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतिय़ान्ति यत्तत् |
२२ क
मनुरु उवाच:
यन्मन्त्रशव्दैरकृतप्रकाशं; तदुच्यमानं शृणु मे परं यत् ||
२२ ख
मनुरु उवाच:
रसैर्विय़ुक्तं विविधैश्च गन्धै; रशव्दमस्पर्शमरूपवच्च |
२३ क
मनुरु उवाच:
अग्राह्यमव्यक्तमवर्णमेकं; पञ्चप्रकारं ससृजे प्रजानाम् ||
२३ ख
मनुरु उवाच:
न स्त्री पुमान्वापि नपुंसकं च; न सन्न चासत्सदसच्च तन्न |
२४ क
मनुरु उवाच:
पश्यन्ति यद्व्रह्मविदो मनुष्या; स्तदक्षरं न क्षरतीति विद्धि ||
२४ ख