वैशम्पाय़न उवाच:
तं शय़ानं महात्मानं वीरमानकदुन्दुभिम् |
१ क
वैशम्पाय़न उवाच:
पुत्रशोकाभिसन्तप्तं ददर्श कुरुपुङ्गवः ||
१ ख
वैशम्पाय़न उवाच:
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः |
२ क
वैशम्पाय़न उवाच:
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ||
२ ख
वैशम्पाय़न उवाच:
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः |
३ क
वैशम्पाय़न उवाच:
रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः |
३ ख
वैशम्पाय़न उवाच:
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि ||
३ ग
वसुदेव उवाच:
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन |
४ क
वसुदेव उवाच:
तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ||
४ ख
वसुदेव उवाच:
यौ तावर्जुन शिष्यौ ते प्रिय़ौ वहुमतौ सदा |
५ क
वसुदेव उवाच:
तय़ोरपनय़ात्पार्थ वृष्णय़ो निधनं गताः ||
५ ख
वसुदेव उवाच:
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ |
६ क
वसुदेव उवाच:
प्रद्युम्नो युय़ुधानश्च कथय़न्कत्थसे च यौ ||
६ ख
वसुदेव उवाच:
नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः |
७ क
वसुदेव उवाच:
तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय़ ||
७ ख
वसुदेव उवाच:
न तु गर्हामि शैनेय़ं हार्दिक्यं चाहमर्जुन |
८ क
वसुदेव उवाच:
अक्रूरं रौक्मिणेय़ं च शापो ह्येवात्र कारणम् ||
८ ख
वसुदेव उवाच:
केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः |
९ क
वसुदेव उवाच:
विदेहावकरोत्पार्थ चैद्यं च वलगर्वितम् ||
९ ख
वसुदेव उवाच:
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् |
१० क
वसुदेव उवाच:
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ||
१० ख
वसुदेव उवाच:
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीय़ांस्तथा नृपान् |
११ क
वसुदेव उवाच:
सोऽभ्युपेक्षितवानेतमनय़ं मधुसूदनः ||
११ ख
वसुदेव उवाच:
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि |
१२ क
वसुदेव उवाच:
शय़ानान्निहतान्दृष्ट्वा ततो मामव्रवीदिदम् ||
१२ ख
वसुदेव उवाच:
सम्प्राप्तोऽद्याय़मस्यान्तः कुलस्य पुरुषर्षभ |
१३ क
वसुदेव उवाच:
आगमिष्यति वीभत्सुरिमां द्वारवतीं पुरीम् ||
१३ ख
वसुदेव उवाच:
आख्येय़ं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् |
१४ क
वसुदेव उवाच:
स तु श्रुत्वा महातेजा यदूनामनय़ं प्रभो |
१४ ख
वसुदेव उवाच:
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ||
१४ ग
वसुदेव उवाच:
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु |
१५ क
वसुदेव उवाच:
यद्व्रूय़ात्तत्तथा कार्यमिति वुध्यस्व माधव ||
१५ ख
वसुदेव उवाच:
स स्त्रीषु प्राप्तकालं वः पाण्डवो वालकेषु च |
१६ क
वसुदेव उवाच:
प्रतिपत्स्यति वीभत्सुर्भवतश्चौर्ध्वदेहिकम् ||
१६ ख
वसुदेव उवाच:
इमां च नगरीं सद्यः प्रतिय़ाते धनञ्जय़े |
१७ क
वसुदेव उवाच:
प्राकाराट्टालकोपेतां समुद्रः प्लावय़िष्यति ||
१७ ख
वसुदेव उवाच:
अहं हि देशे कस्मिंश्चित्पुण्ये निय़ममास्थितः |
१८ क
वसुदेव उवाच:
कालं कर्ता सद्य एव रामेण सह धीमता ||
१८ ख
वसुदेव उवाच:
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः |
१९ क
वसुदेव उवाच:
हित्वा मां वालकैः सार्धं दिशं कामप्यगात्प्रभुः ||
१९ ख
वसुदेव उवाच:
सोऽहं तौ च महात्मानौ चिन्तय़न्भ्रातरौ तव |
२० क
वसुदेव उवाच:
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ||
२० ख
वसुदेव उवाच:
न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव |
२१ क
वसुदेव उवाच:
यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ||
२१ ख
वसुदेव उवाच:
एतत्ते पार्थ राज्यं च स्त्रिय़ो रत्नानि चैव ह |
२२ क
वसुदेव उवाच:
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ||
२२ ख