chevron_left आदि पर्व अध्याय १९५
भीष्म उवाच:
न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन |
१ क
भीष्म उवाच:
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशय़म् ||
१ ख
भीष्म उवाच:
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः |
२ क
भीष्म उवाच:
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ||
२ ख
भीष्म उवाच:
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते |
३ क
भीष्म उवाच:
तथा कुरूणां सर्वेषामन्येषामपि भारत ||
३ ख
भीष्म उवाच:
एवं गते विग्रहं तैर्न रोचय़े; सन्धाय़ वीरैर्दीय़तामद्य भूमिः |
४ क
भीष्म उवाच:
तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ||
४ ख
भीष्म उवाच:
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि |
५ क
भीष्म उवाच:
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ||
५ ख
भीष्म उवाच:
यदि राज्यं न ते प्राप्ताः पाण्डवेय़ास्तपस्विनः |
६ क
भीष्म उवाच:
कुत एव तवापीदं भारतस्य च कस्यचित् ||
६ ख
भीष्म उवाच:
अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ |
७ क
भीष्म उवाच:
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ||
७ ख
भीष्म उवाच:
मधुरेणैव राज्यस्य तेषामर्धं प्रदीय़ताम् |
८ क
भीष्म उवाच:
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ||
८ ख
भीष्म उवाच:
अतोऽन्यथा चेत्क्रिय़ते न हितं नो भविष्यति |
९ क
भीष्म उवाच:
तवाप्यकीर्तिः सकला भविष्यति न संशय़ः ||
९ ख
भीष्म उवाच:
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं वलम् |
१० क
भीष्म उवाच:
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ||
१० ख
भीष्म उवाच:
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव |
११ क
भीष्म उवाच:
तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ||
११ ख
भीष्म उवाच:
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् |
१२ क
भीष्म उवाच:
अनुरूपं महावाहो पूर्वेषामात्मनः कुरु ||
१२ ख
भीष्म उवाच:
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा |
१३ क
भीष्म उवाच:
दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ||
१३ ख
भीष्म उवाच:
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् |
१४ क
भीष्म उवाच:
लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ||
१४ ख
भीष्म उवाच:
न चापि दोषेण तथा लोको वैति पुरोचनम् |
१५ क
भीष्म उवाच:
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ||
१५ ख
भीष्म उवाच:
तदिदं जीवितं तेषां तव कल्मषनाशनम् |
१६ क
भीष्म उवाच:
संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ||
१६ ख
भीष्म उवाच:
न चापि तेषां वीराणां जीवतां कुरुनन्दन |
१७ क
भीष्म उवाच:
पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वय़म् ||
१७ ख
भीष्म उवाच:
ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः |
१८ क
भीष्म उवाच:
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ||
१८ ख
भीष्म उवाच:
यदि धर्मस्त्वय़ा कार्यो यदि कार्यं प्रिय़ं च मे |
१९ क
भीष्म उवाच:
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीय़ताम् ||
१९ ख