chevron_left शान्ति पर्व अध्याय १९५
मनुरु उवाच:
अक्षरात्खं ततो वाय़ुर्वाय़ोर्ज्योतिस्ततो जलम् |
१ क
मनुरु उवाच:
जलात्प्रसूता जगती जगत्यां जाय़ते जगत् ||
१ ख
मनुरु उवाच:
इमे शरीरैर्जलमेव गत्वा; जलाच्च तेजः पवनोऽन्तरिक्षम् |
२ क
मनुरु उवाच:
खाद्वै निवर्तन्ति नभाविनस्ते; ये भाविनस्ते परमाप्नुवन्ति ||
२ ख
मनुरु उवाच:
नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषाय़ं मधुरं न तिक्तम् |
३ क
मनुरु उवाच:
न शव्दवन्नापि च गन्धवत्त; न्न रूपवत्तत्परमस्वभावम् ||
३ ख
मनुरु उवाच:
स्पर्शं तनुर्वेद रसं तु जिह्वा; घ्राणं च गन्धाञ्श्रवणे च शव्दान् |
४ क
मनुरु उवाच:
रूपाणि चक्षुर्न च तत्परं य; द्गृह्णन्त्यनध्यात्मविदो मनुष्याः ||
४ ख
मनुरु उवाच:
निवर्तय़ित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच्छ्रवणे च शव्दात् |
५ क
मनुरु उवाच:
स्पर्शात्तनुं रूपगुणात्तु चक्षु; स्ततः परं पश्यति स्वं स्वभावम् ||
५ ख
मनुरु उवाच:
यतो गृहीत्वा हि करोति यच्च; यस्मिंश्च तामारभते प्रवृत्तिम् |
६ क
मनुरु उवाच:
यस्मिंश्च यद्येन च यश्च कर्ता; तत्कारणं तं समुपाय़माहुः ||
६ ख
मनुरु उवाच:
यच्चाभिभूः साधकं व्यापकं च; यन्मन्त्रवच्छंस्यते चैव लोके |
७ क
मनुरु उवाच:
यः सर्वहेतुः परमार्थकारी; तत्कारणं कार्यमतो यदन्यत् ||
७ ख
मनुरु उवाच:
यथा च कश्चित्सुकृतैर्मनुष्यः; शुभाशुभं प्राप्नुतेऽथाविरोधात् |
८ क
मनुरु उवाच:
एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर्ज्ञानमिदं निवद्धम् ||
८ ख
मनुरु उवाच:
यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशमन्यस्य करोति दीप्यन् |
९ क
मनुरु उवाच:
तथेह पञ्चेन्द्रिय़दीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव ||
९ ख
मनुरु उवाच:
यथा हि राज्ञो वहवो ह्यमात्याः; पृथक्प्रमानं प्रवदन्ति युक्ताः |
१० क
मनुरु उवाच:
तद्वच्छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः ||
१० ख
मनुरु उवाच:
यथार्चिषोऽग्नेः पवनस्य वेगा; मरीचय़ोऽर्कस्य नदीषु चापः |
११ क
मनुरु उवाच:
गच्छन्ति चाय़ान्ति च तन्यमाना; स्तद्वच्छरीराणि शरीरिणां तु ||
११ ख
मनुरु उवाच:
यथा च कश्चित्परशुं गृहीत्वा; धूमं न पश्येज्ज्वलनं च काष्ठे |
१२ क
मनुरु उवाच:
तद्वच्छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यदन्यत् ||
१२ ख
मनुरु उवाच:
तान्येव काष्ठानि यथा विमथ्य; धूमं च पश्येज्ज्वलनं च योगात् |
१३ क
मनुरु उवाच:
तद्वत्सुवुद्धिः सममिन्द्रिय़त्वा; द्वुधः परं पश्यति स्वं स्वभावम् ||
१३ ख
मनुरु उवाच:
यथात्मनोऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनोऽन्यत् |
१४ क
मनुरु उवाच:
श्रोत्रादिय़ुक्तः सुमनाः सुवुद्धि; र्लिङ्गात्तथा गच्छति लिङ्गमन्यत् ||
१४ ख
मनुरु उवाच:
उत्पत्तिवृद्धिक्षय़संनिपातै; र्न युज्यतेऽसौ परमः शरीरी |
१५ क
मनुरु उवाच:
अनेन लिङ्गेन तु लिङ्गमन्य; द्गच्छत्यदृष्टः प्रतिसन्धिय़ोगात् ||
१५ ख
मनुरु उवाच:
न चक्षुषा पश्यति रूपमात्मनो; न चापि संस्पर्शमुपैति किञ्चित् |
१६ क
मनुरु उवाच:
न चापि तैः साधय़तेऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान् ||
१६ ख
मनुरु उवाच:
यथा प्रदीपे ज्वलतोऽनलस्य; सन्तापजं रूपमुपैति किञ्चित् |
१७ क
मनुरु उवाच:
न चान्तरं रूपगुणं विभर्ति; तथैव तद्दृश्यते रूपमस्य ||
१७ ख
मनुरु उवाच:
यथा मनुष्यः परिमुच्य काय़; मदृश्यमन्यद्विशते शरीरम् |
१८ क
मनुरु उवाच:
विसृज्य भूतेषु महत्सु देहं; तदाश्रय़ं चैव विभर्ति रूपम् ||
१८ ख
मनुरु उवाच:
खं वाय़ुमग्निं सलिलं तथोर्वीं; समन्ततोऽभ्याविशते शरीरी |
१९ क
मनुरु उवाच:
नानाश्रय़ाः कर्मसु वर्तमानाः; श्रोत्रादय़ः पञ्च गुणाञ्श्रय़न्ते ||
१९ ख
मनुरु उवाच:
श्रोत्रं खतो घ्राणमथो पृथिव्या; स्तेजोमय़ं रूपमथो विपाकः |
२० क
मनुरु उवाच:
जलाश्रय़ः स्वेद उक्तो रसश्च; वाय़्वात्मकः स्पर्शकृतो गुणश्च ||
२० ख
मनुरु उवाच:
महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रिय़ार्थाश्च तथेन्द्रिय़ेषु |
२१ क
मनुरु उवाच:
सर्वाणि चैतानि मनोनुगानि; वुद्धिं मनोऽन्वेति मनः स्वभावम् ||
२१ ख
मनुरु उवाच:
शुभाशुभं कर्म कृतं यदस्य; तदेव प्रत्याददते स्वदेहे |
२२ क
मनुरु उवाच:
मनोऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम् ||
२२ ख
मनुरु उवाच:
चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद्रूपमिवाभिपाति |
२३ क
मनुरु उवाच:
स्वरूपमालोचय़ते च रूपं; परं तथा वुद्धिपथं परैति ||
२३ ख