chevron_left उद्योग पर्व अध्याय १९५
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा तु कौन्तेय़ः सर्वान्भ्रातॄनुपह्वरे |
१ क
वैशम्पाय़न उवाच:
आहूय़ भरतश्रेष्ठ इदं वचनमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम |
२ क
वैशम्पाय़न उवाच:
ते प्रवृत्तिं प्रय़च्छन्ति ममेमां व्युषितां निशाम् ||
२ ख
वैशम्पाय़न उवाच:
दुर्योधनः किलापृच्छदापगेय़ं महाव्रतम् |
३ क
वैशम्पाय़न उवाच:
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ||
३ ख
वैशम्पाय़न उवाच:
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः |
४ क
वैशम्पाय़न उवाच:
तावता चापि कालेन द्रोणोऽपि प्रत्यजानत ||
४ ख
वैशम्पाय़न उवाच:
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् |
५ क
वैशम्पाय़न उवाच:
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ||
५ ख
वैशम्पाय़न उवाच:
तथा दिव्यास्त्रवित्कर्णः सम्पृष्टः कुरुसंसदि |
६ क
वैशम्पाय़न उवाच:
पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान् ||
६ ख
वैशम्पाय़न उवाच:
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः |
७ क
वैशम्पाय़न उवाच:
कालेन किय़ता शत्रून्क्षपय़ेरिति संय़ुगे ||
७ ख
वैशम्पाय़न उवाच:
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जय़ः |
८ क
वैशम्पाय़न उवाच:
वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत ||
८ ख
वैशम्पाय़न उवाच:
सर्व एते महात्मानः कृतास्त्राश्चित्रय़ोधिनः |
९ क
वैशम्पाय़न उवाच:
असंशय़ं महाराज हन्युरेव वलं तव ||
९ ख
वैशम्पाय़न उवाच:
अपैतु ते मनस्तापो यथासत्यं व्रवीम्यहम् |
१० क
वैशम्पाय़न उवाच:
हन्यामेकरथेनाहं वासुदेवसहाय़वान् ||
१० ख
वैशम्पाय़न उवाच:
सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान् |
११ क
वैशम्पाय़न उवाच:
भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः ||
११ ख
वैशम्पाय़न उवाच:
यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम |
१२ क
वैशम्पाय़न उवाच:
कैराते द्वन्द्वय़ुद्धे वै तदिदं मय़ि वर्तते ||
१२ ख
वैशम्पाय़न उवाच:
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् |
१३ क
वैशम्पाय़न उवाच:
प्रय़ुङ्क्ते पुरुषव्याघ्र तदिदं मय़ि वर्तते ||
१३ ख
वैशम्पाय़न उवाच:
तन्न जानाति गाङ्गेय़ो न द्रोणो न च गौतमः |
१४ क
वैशम्पाय़न उवाच:
न च द्रोणसुतो राजन्कुत एव तु सूतजः ||
१४ ख
वैशम्पाय़न उवाच:
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् |
१५ क
वैशम्पाय़न उवाच:
आर्जवेनैव युद्धेन विजेष्यामो वय़ं परान् ||
१५ ख
वैशम्पाय़न उवाच:
तथेमे पुरुषव्याघ्राः सहाय़ास्तव पार्थिव |
१६ क
वैशम्पाय़न उवाच:
सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः ||
१६ ख
वैशम्पाय़न उवाच:
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः |
१७ क
वैशम्पाय़न उवाच:
निहन्युः समरे सेनां देवानामपि पाण्डव ||
१७ ख
वैशम्पाय़न उवाच:
शिखण्डी युय़ुधानश्च धृष्टद्युम्नश्च पार्षतः |
१८ क
वैशम्पाय़न उवाच:
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ||
१८ ख
वैशम्पाय़न उवाच:
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि |
१९ क
वैशम्पाय़न उवाच:
स्वय़ं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि ||
१९ ख
वैशम्पाय़न उवाच:
क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते |
२० क
वैशम्पाय़न उवाच:
क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव ||
२० ख