chevron_left आदि पर्व अध्याय १९६
द्रोण उवाच:
मन्त्राय़ समुपानीतैर्धृतराष्ट्रहितैर्नृप |
१ क
द्रोण उवाच:
धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ||
१ ख
द्रोण उवाच:
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः |
२ क
द्रोण उवाच:
संविभज्यास्तु कौन्तेय़ा धर्म एष सनातनः ||
२ ख
द्रोण उवाच:
प्रेष्यतां द्रुपदाय़ाशु नरः कश्चित्प्रिय़ंवदः |
३ क
द्रोण उवाच:
वहुलं रत्नमादाय़ तेषामर्थाय़ भारत ||
३ ख
द्रोण उवाच:
मिथः कृत्यं च तस्मै स आदाय़ वहु गच्छतु |
४ क
द्रोण उवाच:
वृद्धिं च परमां व्रूय़ात्तत्संय़ोगोद्भवां तथा ||
४ ख
द्रोण उवाच:
सम्प्रीय़माणं त्वां व्रूय़ाद्राजन्दूर्योधनं तथा |
५ क
द्रोण उवाच:
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ||
५ ख
द्रोण उवाच:
उचितत्वं प्रिय़त्वं च योगस्यापि च वर्णय़ेत् |
६ क
द्रोण उवाच:
पुनः पुनश्च कौन्तेय़ान्माद्रीपुत्रौ च सान्त्वय़न् ||
६ ख
द्रोण उवाच:
हिरण्मय़ानि शुभ्राणि वहून्याभरणानि च |
७ क
द्रोण उवाच:
वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रय़च्छतु ||
७ ख
द्रोण उवाच:
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ |
८ क
द्रोण उवाच:
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ||
८ ख
द्रोण उवाच:
एवं सान्त्वसमाय़ुक्तं द्रुपदं पाण्डवैः सह |
९ क
द्रोण उवाच:
उक्त्वाथानन्तरं व्रूय़ात्तेषामागमनं प्रति ||
९ ख
द्रोण उवाच:
अनुज्ञातेषु वीरेषु वलं गच्छतु शोभनम् |
१० क
द्रोण उवाच:
दुःशासनो विकर्णश्च पाण्डवानानय़न्त्विह ||
१० ख
द्रोण उवाच:
ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वय़ा |
११ क
द्रोण उवाच:
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ||
११ ख
द्रोण उवाच:
एवं तव महाराज तेषु पुत्रेषु चैव ह |
१२ क
द्रोण उवाच:
वृत्तमौपय़िकं मन्ये भीष्मेण सह भारत ||
१२ ख
कर्ण उवाच:
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ |
१३ क
कर्ण उवाच:
न मन्त्रय़ेतां त्वच्छ्रेय़ः किमद्भुततरं ततः ||
१३ ख
कर्ण उवाच:
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना |
१४ क
कर्ण उवाच:
व्रूय़ान्निःश्रेय़सं नाम कथं कुर्यात्सतां मतम् ||
१४ ख
कर्ण उवाच:
न मित्राण्यर्थकृच्छ्रेषु श्रेय़से वेतराय़ वा |
१५ क
कर्ण उवाच:
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ||
१५ ख
कर्ण उवाच:
कृतप्रज्ञोऽकृतप्रज्ञो वालो वृद्धश्च मानवः |
१६ क
कर्ण उवाच:
ससहाय़ोऽसहाय़श्च सर्वं सर्वत्र विन्दति ||
१६ ख
कर्ण उवाच:
श्रूय़ते हि पुरा कश्चिदम्वुवीच इति श्रुतः |
१७ क
कर्ण उवाच:
आसीद्राजगृहे राजा मागधानां महीक्षिताम् ||
१७ ख
कर्ण उवाच:
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः |
१८ क
कर्ण उवाच:
अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ||
१८ ख
कर्ण उवाच:
तस्यामात्यो महाकर्णिर्वभूवैकेश्वरः पुरा |
१९ क
कर्ण उवाच:
स लव्धवलमात्मानं मन्यमानोऽवमन्यते ||
१९ ख
कर्ण उवाच:
स राज्ञ उपभोग्यानि स्त्रिय़ो रत्नधनानि च |
२० क
कर्ण उवाच:
आददे सर्वशो मूढ ऐश्वर्यं च स्वय़ं तदा ||
२० ख
कर्ण उवाच:
तदादाय़ च लुव्धस्य लाभाल्लोभो व्यवर्धत |
२१ क
कर्ण उवाच:
तथा हि सर्वमादाय़ राज्यमस्य जिहीर्षति ||
२१ ख
कर्ण उवाच:
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च |
२२ क
कर्ण उवाच:
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ||
२२ ख
कर्ण उवाच:
किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता |
२३ क
कर्ण उवाच:
यदि ते विहितं राज्यं भविष्यति विशां पते ||
२३ ख
कर्ण उवाच:
मिषतः सर्वलोकस्य स्थास्यते त्वय़ि तद्ध्रुवम् |
२४ क
कर्ण उवाच:
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ||
२४ ख
कर्ण उवाच:
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् |
२५ क
कर्ण उवाच:
दुष्टानां चैव वोद्धव्यमदुष्टानां च भाषितम् ||
२५ ख
द्रोण उवाच:
विद्म ते भावदोषेण यदर्थमिदमुच्यते |
२६ क
द्रोण उवाच:
दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापय़से हि नः ||
२६ ख
द्रोण उवाच:
हितं तु परमं कर्ण व्रवीमि कुरुवर्धनम् |
२७ क
द्रोण उवाच:
अथ त्वं मन्यसे दुष्टं व्रूहि यत्परमं हितम् ||
२७ ख
द्रोण उवाच:
अतोऽन्यथा चेत्क्रिय़ते यद्व्रवीमि परं हितम् |
२८ क
द्रोण उवाच:
कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ||
२८ ख