chevron_left शान्ति पर्व अध्याय १९६
मनुरु उवाच:
यदिन्द्रिय़ैस्तूपकृतान्पुरस्ता; त्प्राप्तान्गुणान्संस्मरते चिराय़ |
१ क
मनुरु उवाच:
तेष्विन्द्रिय़ेषूपहतेषु पश्चा; त्स वुद्धिरूपः परमः स्वभावः ||
१ ख
मनुरु उवाच:
यथेन्द्रिय़ार्थान्युगपत्समस्ता; न्नावेक्षते कृत्स्नमतुल्यकालम् |
२ क
मनुरु उवाच:
यथावलं सञ्चरते स विद्वां; स्तस्मात्स एकः परमः शरीरी ||
२ ख
मनुरु उवाच:
रजस्तमः सत्त्वमथो तृतीय़ं; गच्छत्यसौ ज्ञानगुणान्विरूपान् |
३ क
मनुरु उवाच:
तथेन्द्रिय़ाण्याविशते शरीरी; हुताशनं वाय़ुरिवेन्धनस्थम् ||
३ ख
मनुरु उवाच:
न चक्षुषा पश्यति रूपमात्मनो; न पश्यति स्पर्शमिन्द्रिय़ेन्द्रिय़म् |
४ क
मनुरु उवाच:
न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद्विनश्यति ||
४ ख
मनुरु उवाच:
श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना |
५ क
मनुरु उवाच:
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ||
५ ख
मनुरु उवाच:
यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा |
६ क
मनुरु उवाच:
न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता ||
६ ख
मनुरु उवाच:
तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ |
७ क
मनुरु उवाच:
अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता ||
७ ख
मनुरु उवाच:
पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति |
८ क
मनुरु उवाच:
एवमस्ति न वेत्येतन्न च तन्न पराय़णम् ||
८ ख
मनुरु उवाच:
रूपवन्तमरूपत्वादुदय़ास्तमय़े वुधाः |
९ क
मनुरु उवाच:
धिय़ा समनुपश्यन्ति तद्गताः सवितुर्गतिम् ||
९ ख
मनुरु उवाच:
तथा वुद्धिप्रदीपेन दूरस्थं सुविपश्चितः |
१० क
मनुरु उवाच:
प्रत्यासन्नं निनीषन्ति ज्ञेय़ं ज्ञानाभिसंहितम् ||
१० ख
मनुरु उवाच:
न हि खल्वनुपाय़ेन कश्चिदर्थोऽभिसिध्यति |
११ क
मनुरु उवाच:
सूत्रजालैर्यथा मत्स्यान्वध्नन्ति जलजीविनः ||
११ ख
मनुरु उवाच:
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा |
१२ क
मनुरु उवाच:
गजानां च गजैरेवं ज्ञेय़ं ज्ञानेन गृह्यते ||
१२ ख
मनुरु उवाच:
अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् |
१३ क
मनुरु उवाच:
तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेय़ं ज्ञानेन पश्यति ||
१३ ख
मनुरु उवाच:
नोत्सहन्ते यथा वेत्तुमिन्द्रिय़ैरिन्द्रिय़ाण्यपि |
१४ क
मनुरु उवाच:
तथैवेह परा वुद्धिः परं वुद्ध्या न पश्यति ||
१४ ख
मनुरु उवाच:
यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते |
१५ क
मनुरु उवाच:
न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् ||
१५ ख
मनुरु उवाच:
क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते |
१६ क
मनुरु उवाच:
तद्वन्मूर्तिविय़ुक्तः सञ्शरीरी नोपलभ्यते ||
१६ ख
मनुरु उवाच:
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः |
१७ क
मनुरु उवाच:
तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः ||
१७ ख
मनुरु उवाच:
जन्मवृद्धिक्षय़श्चास्य प्रत्यक्षेणोपलभ्यते |
१८ क
मनुरु उवाच:
सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः ||
१८ ख
मनुरु उवाच:
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते |
१९ क
मनुरु उवाच:
चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् ||
१९ ख
मनुरु उवाच:
नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः |
२० क
मनुरु उवाच:
विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् ||
२० ख
मनुरु उवाच:
यथा चन्द्रार्कसंय़ुक्तं तमस्तदुपलभ्यते |
२१ क
मनुरु उवाच:
तद्वच्छरीरसंय़ुक्तः शरीरीत्युपलभ्यते ||
२१ ख
मनुरु उवाच:
यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते |
२२ क
मनुरु उवाच:
तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ||
२२ ख
मनुरु उवाच:
यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः |
२३ क
मनुरु उवाच:
तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः ||
२३ ख