सञ्जय़ उवाच:
दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः |
१ क
सञ्जय़ उवाच:
वासुदेवं महात्मानमर्जुनः समभाषत ||
१ ख
सञ्जय़ उवाच:
चोदय़ाश्वान्हृषीकेश संशप्तकगणान्प्रति |
२ क
सञ्जय़ उवाच:
नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः ||
२ ख
सञ्जय़ उवाच:
पश्य मेऽस्त्रवलं घोरं वाह्वोरिष्वसनस्य च |
३ क
सञ्जय़ उवाच:
अद्यैतान्पातय़िष्यामि क्रुद्धो रुद्रः पशूनिव ||
३ ख
सञ्जय़ उवाच:
ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् |
४ क
सञ्जय़ उवाच:
प्रावेशय़त दुर्धर्षो यत्र यत्रैच्छदर्जुनः ||
४ ख
सञ्जय़ उवाच:
वभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा |
५ क
सञ्जय़ उवाच:
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हय़ैः ||
५ ख
सञ्जय़ उवाच:
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च |
६ क
सञ्जय़ उवाच:
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ||
६ ख
सञ्जय़ उवाच:
अथ नाराय़णाः क्रुद्धा विविधाय़ुधपाणय़ः |
७ क
सञ्जय़ उवाच:
छादय़न्तः शरव्रातैः परिवव्रुर्धनञ्जय़म् ||
७ ख
सञ्जय़ उवाच:
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ |
८ क
सञ्जय़ उवाच:
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जय़म् ||
८ ख
सञ्जय़ उवाच:
क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः |
९ क
सञ्जय़ उवाच:
गाण्डीवमुपसंमृज्य तूर्णं जग्राह संय़ुगे ||
९ ख
सञ्जय़ उवाच:
वद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् |
१० क
सञ्जय़ उवाच:
देवदत्तं महाशङ्खं पूरय़ामास पाण्डवः ||
१० ख
सञ्जय़ उवाच:
अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः |
११ क
सञ्जय़ उवाच:
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ||
११ ख
सञ्जय़ उवाच:
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः |
१२ क
सञ्जय़ उवाच:
अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ||
१२ ख
सञ्जय़ उवाच:
अय़मर्जुनोऽय़ं गोविन्द इमौ यादवपाण्डवौ |
१३ क
सञ्जय़ उवाच:
इति व्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ||
१३ ख
सञ्जय़ उवाच:
मोहिताः परमास्त्रेण क्षय़ं जग्मुः परस्परम् |
१४ क
सञ्जय़ उवाच:
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ||
१४ ख
सञ्जय़ उवाच:
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् |
१५ क
सञ्जय़ उवाच:
कृत्वा तदस्त्रं तान्वीराननय़द्यमसादनम् ||
१५ ख
सञ्जय़ उवाच:
अथ प्रहस्य वीभत्सुर्ललित्थान्मालवानपि |
१६ क
सञ्जय़ उवाच:
माचेल्लकांस्त्रिगर्तांश्च यौधेय़ांश्चार्दय़च्छरैः ||
१६ ख
सञ्जय़ उवाच:
ते वध्यमाना वीरेण क्षत्रिय़ाः कालचोदिताः |
१७ क
सञ्जय़ उवाच:
व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ||
१७ ख
सञ्जय़ उवाच:
ततो नैवार्जुनस्तत्र न रथो न च केशवः |
१८ क
सञ्जय़ उवाच:
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ||
१८ ख
सञ्जय़ उवाच:
ततस्ते लव्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः |
१९ क
सञ्जय़ उवाच:
हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ||
१९ ख
सञ्जय़ उवाच:
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः |
२० क
सञ्जय़ उवाच:
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ||
२० ख
सञ्जय़ उवाच:
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमव्रवीत् |
२१ क
सञ्जय़ उवाच:
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ||
२१ ख
सञ्जय़ उवाच:
तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय़ पाण्डवः |
२२ क
सञ्जय़ उवाच:
वाय़व्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ||
२२ ख
सञ्जय़ उवाच:
ततः संशप्तकव्रातान्साश्वद्विपरथाय़ुधान् |
२३ क
सञ्जय़ उवाच:
उवाह भगवान्वाय़ुः शुष्कपर्णचय़ानिव ||
२३ ख
सञ्जय़ उवाच:
उह्यमानास्तु ते राजन्वह्वशोभन्त वाय़ुना |
२४ क
सञ्जय़ उवाच:
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ||
२४ ख
सञ्जय़ उवाच:
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जय़ः |
२५ क
सञ्जय़ उवाच:
जघान निशितैर्वाणैः सहस्राणि शतानि च ||
२५ ख
सञ्जय़ उवाच:
शिरांसि भल्लैरहरद्वाहूनपि च साय़ुधान् |
२६ क
सञ्जय़ उवाच:
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातय़त् ||
२६ ख
सञ्जय़ उवाच:
पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् |
२७ क
सञ्जय़ उवाच:
नानाङ्गावय़वैर्हीनांश्चकारारीन्धनञ्जय़ः ||
२७ ख
सञ्जय़ उवाच:
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |
२८ क
सञ्जय़ उवाच:
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ||
२८ ख
सञ्जय़ उवाच:
मुण्डतालवनानीव तत्र तत्र चकाशिरे |
२९ क
सञ्जय़ उवाच:
छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ||
२९ ख
सञ्जय़ उवाच:
सोत्तराय़ुधिनो नागाः सपताकाङ्कुशाय़ुधाः |
३० क
सञ्जय़ उवाच:
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ||
३० ख
सञ्जय़ उवाच:
चामरापीडकवचाः स्रस्तान्त्रनय़नासवः |
३१ क
सञ्जय़ उवाच:
सारोहास्तुरगाः पेतुः पार्थवाणहताः क्षितौ ||
३१ ख
सञ्जय़ उवाच:
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तय़ः |
३२ क
सञ्जय़ उवाच:
पत्तय़श्छिन्नवर्माणः कृपणं शेरते हताः ||
३२ ख
सञ्जय़ उवाच:
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि |
३३ क
सञ्जय़ उवाच:
भ्रमद्भिर्निष्टनद्भिश्च घोरमाय़ोधनं वभौ ||
३३ ख
सञ्जय़ उवाच:
रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः |
३४ क
सञ्जय़ उवाच:
मही चाप्यभवद्दुर्गा कवन्धशतसङ्कुला ||
३४ ख
सञ्जय़ उवाच:
तद्वभौ रौद्रवीभत्सं वीभत्सोर्यानमाहवे |
३५ क
सञ्जय़ उवाच:
आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ||
३५ ख
सञ्जय़ उवाच:
ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः |
३६ क
सञ्जय़ उवाच:
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ||
३६ ख
सञ्जय़ उवाच:
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः |
३७ क
सञ्जय़ उवाच:
आस्तीर्णा सम्वभौ सर्वा प्रेतीभूतैः समन्ततः ||
३७ ख
सञ्जय़ उवाच:
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि |
३८ क
सञ्जय़ उवाच:
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ||
३८ ख
सञ्जय़ उवाच:
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः |
३९ क
सञ्जय़ उवाच:
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ||
३९ ख