chevron_left उद्योग पर्व अध्याय १९६
वैशम्पाय़न उवाच:
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः |
१ क
वैशम्पाय़न उवाच:
दुर्योधनेन राजानः प्रय़युः पाण्डवान्प्रति ||
१ ख
वैशम्पाय़न उवाच:
आप्लाव्य शुचय़ः सर्वे स्रग्विणः शुक्लवाससः |
२ क
वैशम्पाय़न उवाच:
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नय़ः ||
२ ख
वैशम्पाय़न उवाच:
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः |
३ क
वैशम्पाय़न उवाच:
सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ||
३ ख
वैशम्पाय़न उवाच:
आहवेषु पराँल्लोकाञ्जिगीषन्तो महावलाः |
४ क
वैशम्पाय़न उवाच:
एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ||
४ ख
वैशम्पाय़न उवाच:
विन्दानुविन्दावावन्त्यौ केकय़ा वाह्लिकैः सह |
५ क
वैशम्पाय़न उवाच:
प्रय़युः सर्व एवैते भारद्वाजपुरोगमाः ||
५ ख
वैशम्पाय़न उवाच:
अश्वत्थामा शान्तनवः सैन्धवोऽथ जय़द्रथः |
६ क
वैशम्पाय़न उवाच:
दाक्षिणात्याः प्रतीच्याश्च पार्वतीय़ाश्च ये रथाः ||
६ ख
वैशम्पाय़न उवाच:
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः |
७ क
वैशम्पाय़न उवाच:
शकाः किराता यवनाः शिवय़ोऽथ वसातय़ः ||
७ ख
वैशम्पाय़न उवाच:
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् |
८ क
वैशम्पाय़न उवाच:
एते महारथाः सर्वे द्वितीय़े निर्ययुर्वले ||
८ ख
वैशम्पाय़न उवाच:
कृतवर्मा सहानीकस्त्रिगर्ताश्च महावलाः |
९ क
वैशम्पाय़न उवाच:
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ||
९ ख
वैशम्पाय़न उवाच:
शलो भूरिश्रवाः शल्यः कौसल्योऽथ वृहद्वलः |
१० क
वैशम्पाय़न उवाच:
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ||
१० ख
वैशम्पाय़न उवाच:
ते समेन पथा यात्वा योत्स्यमाना महारथाः |
११ क
वैशम्पाय़न उवाच:
कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ||
११ ख
वैशम्पाय़न उवाच:
दुर्योधनस्तु शिविरं कारय़ामास भारत |
१२ क
वैशम्पाय़न उवाच:
यथैव हास्तिनपुरं द्वितीय़ं समलङ्कृतम् ||
१२ ख
वैशम्पाय़न उवाच:
न विशेषं विजानन्ति पुरस्य शिविरस्य वा |
१३ क
वैशम्पाय़न उवाच:
कुशला अपि राजेन्द्र नरा नगरवासिनः ||
१३ ख
वैशम्पाय़न उवाच:
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः |
१४ क
वैशम्पाय़न उवाच:
कारय़ामास कौरव्यः शतशोऽथ सहस्रशः ||
१४ ख
वैशम्पाय़न उवाच:
पञ्चय़ोजनमुत्सृज्य मण्डलं तद्रणाजिरम् |
१५ क
वैशम्पाय़न उवाच:
सेनानिवेशास्ते राजन्नाविशञ्शतसङ्घशः ||
१५ ख
वैशम्पाय़न उवाच:
तत्र ते पृथिवीपाला यथोत्साहं यथावलम् |
१६ क
वैशम्पाय़न उवाच:
विविशुः शिविराण्याशु द्रव्यवन्ति सहस्रशः ||
१६ ख
वैशम्पाय़न उवाच:
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् |
१७ क
वैशम्पाय़न उवाच:
व्यादिदेश सवाह्यानां भक्ष्यभोज्यमनुत्तमम् ||
१७ ख
वैशम्पाय़न उवाच:
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः |
१८ क
वैशम्पाय़न उवाच:
ये चान्येऽनुगतास्तत्र सूतमागधवन्दिनः ||
१८ ख
वैशम्पाय़न उवाच:
वणिजो गणिका वारा ये चैव प्रेक्षका जनाः |
१९ क
वैशम्पाय़न उवाच:
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ||
१९ ख