chevron_left शान्ति पर्व अध्याय १९७
मनुरु उवाच:
यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् |
१ क
मनुरु उवाच:
ज्ञानमिन्द्रिय़संय़ुक्तं तद्वत्प्रेत्य भवाभवौ ||
१ ख
मनुरु उवाच:
यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा |
२ क
मनुरु उवाच:
तद्वत्प्रसन्नेन्द्रिय़वाञ्ज्ञेय़ं ज्ञानेन पश्यति ||
२ ख
मनुरु उवाच:
स एव लुलिते तस्मिन्यथा रूपं न पश्यति |
३ क
मनुरु उवाच:
तथेन्द्रिय़ाकुलीभावे ज्ञेय़ं ज्ञाने न पश्यति ||
३ ख
मनुरु उवाच:
अवुद्धिरज्ञानकृता अवुद्ध्या दुष्यते मनः |
४ क
मनुरु उवाच:
दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः ||
४ ख
मनुरु उवाच:
अज्ञानतृप्तो विषय़ेष्ववगाढो न दृश्यते |
५ क
मनुरु उवाच:
अदृष्ट्वैव तु पूतात्मा विषय़ेभ्यो निवर्तते ||
५ ख
मनुरु उवाच:
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् |
६ क
मनुरु उवाच:
निवर्तते तथा तर्षः पापमन्तं गतं यथा ||
६ ख
मनुरु उवाच:
विषय़ेषु च संसर्गाच्छाश्वतस्य नसंश्रय़ात् |
७ क
मनुरु उवाच:
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ||
७ ख
मनुरु उवाच:
ज्ञानमुत्पद्यते पुंसां क्षय़ात्पापस्य कर्मणः |
८ क
मनुरु उवाच:
अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ||
८ ख
मनुरु उवाच:
प्रसृतैरिन्द्रिय़ैर्दुःखी तैरेव निय़तैः सुखी |
९ क
मनुरु उवाच:
तस्मादिन्द्रिय़रूपेभ्यो यच्छेदात्मानमात्मना ||
९ ख
मनुरु उवाच:
इन्द्रिय़ेभ्यो मनः पूर्वं वुद्धिः परतरा ततः |
१० क
मनुरु उवाच:
वुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् ||
१० ख
मनुरु उवाच:
अव्यक्तात्प्रसृतं ज्ञानं ततो वुद्धिस्ततो मनः |
११ क
मनुरु उवाच:
मनः श्रोत्रादिभिर्युक्तं शव्दादीन्साधु पश्यति ||
११ ख
मनुरु उवाच:
यस्तांस्त्यजति शव्दादीन्सर्वाश्च व्यक्तय़स्तथा |
१२ क
मनुरु उवाच:
विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते ||
१२ ख
मनुरु उवाच:
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् |
१३ क
मनुरु उवाच:
स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति ||
१३ ख
मनुरु उवाच:
अन्तरात्मा तथा देहमाविश्येन्द्रिय़रश्मिभिः |
१४ क
मनुरु उवाच:
प्राप्येन्द्रिय़गुणान्पञ्च सोऽस्तमावृत्य गच्छति ||
१४ ख
मनुरु उवाच:
प्रणीतं कर्मणा मार्गं नीय़मानः पुनः पुनः |
१५ क
मनुरु उवाच:
प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान् ||
१५ ख
मनुरु उवाच:
विषय़ा विनिवर्तन्ते निराहारस्य देहिनः |
१६ क
मनुरु उवाच:
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||
१६ ख
मनुरु उवाच:
वुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते |
१७ क
मनुरु उवाच:
तदा सम्पद्यते व्रह्म तत्रैव प्रलय़ं गतम् ||
१७ ख
मनुरु उवाच:
अस्पर्शनमशृण्वानमनास्वादमदर्शनम् |
१८ क
मनुरु उवाच:
अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् ||
१८ ख
मनुरु उवाच:
मनस्याकृतय़ो मग्ना मनस्त्वतिगतं मतिम् |
१९ क
मनुरु उवाच:
मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम् ||
१९ ख
मनुरु उवाच:
इन्द्रिय़ैर्मनसः सिद्धिर्न वुद्धिं वुध्यते मनः |
२० क
मनुरु उवाच:
न वुद्धिर्वुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति ||
२० ख