वैशम्पाय़न उवाच:
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमव्रवीत् |
१ क
वैशम्पाय़न उवाच:
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ||
१ ख
वैशम्पाय़न उवाच:
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे |
२ क
वैशम्पाय़न उवाच:
किमर्थं च सदारोऽय़ं निगृहीतः सुय़ोधनः ||
२ ख
चित्रसेन उवाच:
विदितोऽय़मभिप्राय़स्तत्रस्थेन महात्मना |
३ क
चित्रसेन उवाच:
दुर्योधनस्य पापस्य कर्णस्य च धनञ्जय़ ||
३ ख
चित्रसेन उवाच:
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् |
४ क
चित्रसेन उवाच:
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ||
४ ख
चित्रसेन उवाच:
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः |
५ क
चित्रसेन उवाच:
गच्छ दुर्योधनं वद्ध्वा सामात्यं त्वमिहानय़ ||
५ ख
चित्रसेन उवाच:
धनञ्जय़श्च ते रक्ष्यः सह भ्रातृभिराहवे |
६ क
चित्रसेन उवाच:
स हि प्रिय़ः सखा तुभ्यं शिष्यश्च तव पाण्डवः ||
६ ख
चित्रसेन उवाच:
वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् |
७ क
चित्रसेन उवाच:
अय़ं दुरात्मा वद्धश्च गमिष्यामि सुरालय़म् ||
७ ख
अर्जुन उवाच:
उत्सृज्यतां चित्रसेन भ्रातास्माकं सुय़ोधनः |
८ क
अर्जुन उवाच:
धर्मराजस्य सन्देशान्मम चेदिच्छसि प्रिय़म् ||
८ ख
चित्रसेन उवाच:
पापोऽय़ं नित्यसन्दुष्टो न विमोक्षणमर्हति |
९ क
चित्रसेन उवाच:
प्रलव्धा धर्मराजस्य कृष्णाय़ाश्च धनञ्जय़ ||
९ ख
चित्रसेन उवाच:
नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः |
१० क
चित्रसेन उवाच:
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ||
१० ख
वैशम्पाय़न उवाच:
ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् |
११ क
वैशम्पाय़न उवाच:
अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् ||
११ ख
वैशम्पाय़न उवाच:
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा |
१२ क
वैशम्पाय़न उवाच:
मोक्षय़ामास तान्सर्वान्गन्धर्वान्प्रशशंस च ||
१२ ख
वैशम्पाय़न उवाच:
दिष्ट्या भवद्भिर्वलिभिः शक्तैः सर्वैर्न हिंसितः |
१३ क
वैशम्पाय़न उवाच:
दुर्वृत्तो धार्तराष्ट्रोऽय़ं सामात्यज्ञातिवान्धवः ||
१३ ख
वैशम्पाय़न उवाच:
उपकारो महांस्तात कृतोऽय़ं मम खेचराः |
१४ क
वैशम्पाय़न उवाच:
कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ||
१४ ख
वैशम्पाय़न उवाच:
आज्ञापय़ध्वमिष्टानि प्रीय़ामो दर्शनेन वः |
१५ क
वैशम्पाय़न उवाच:
प्राप्य सर्वानभिप्राय़ांस्ततो व्रजत माचिरम् ||
१५ ख
वैशम्पाय़न उवाच:
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता |
१६ क
वैशम्पाय़न उवाच:
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा यय़ुः ||
१६ ख
वैशम्पाय़न उवाच:
देवराडपि गन्धर्वान्मृतांस्तान्समजीवय़त् |
१७ क
वैशम्पाय़न उवाच:
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ||
१७ ख
वैशम्पाय़न उवाच:
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः |
१८ क
वैशम्पाय़न उवाच:
कृत्वा च दुष्करं कर्म प्रीतिय़ुक्ताश्च पाण्डवाः ||
१८ ख
वैशम्पाय़न उवाच:
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः |
१९ क
वैशम्पाय़न उवाच:
वभ्राजिरे महात्मानः कुरुमध्ये यथाग्नय़ः ||
१९ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा |
२० क
वैशम्पाय़न उवाच:
युधिष्ठिरः सप्रणय़मिदं वचनमव्रवीत् ||
२० ख
वैशम्पाय़न उवाच:
मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् |
२१ क
वैशम्पाय़न उवाच:
न हि साहसकर्तारः सुखमेधन्ति भारत ||
२१ ख
वैशम्पाय़न उवाच:
स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन |
२२ क
वैशम्पाय़न उवाच:
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ||
२२ ख
वैशम्पाय़न उवाच:
पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा |
२३ क
वैशम्पाय़न उवाच:
विदीर्यमाणो व्रीडेन जगाम नगरं प्रति ||
२३ ख
वैशम्पाय़न उवाच:
तस्मिन्गते कौरवेय़े कुन्तीपुत्रो युधिष्ठिरः |
२४ क
वैशम्पाय़न उवाच:
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ||
२४ ख
वैशम्पाय़न उवाच:
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः |
२५ क
वैशम्पाय़न उवाच:
वने द्वैतवने तस्मिन्विजहार मुदा युतः ||
२५ ख