वैशम्पाय़न उवाच:
तथैव राजा कौन्तेय़ो धर्मपुत्रो युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
धृष्टद्युम्नमुखान्वीरांश्चोदय़ामास भारत ||
१ ख
वैशम्पाय़न उवाच:
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् |
२ क
वैशम्पाय़न उवाच:
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ||
२ ख
वैशम्पाय़न उवाच:
विराटं द्रुपदं चैव युय़ुधानं शिखण्डिनम् |
३ क
वैशम्पाय़न उवाच:
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ||
३ ख
वैशम्पाय़न उवाच:
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः |
४ क
वैशम्पाय़न उवाच:
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः |
४ ख
वैशम्पाय़न उवाच:
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ||
४ ग
वैशम्पाय़न उवाच:
सोऽथ सैन्यं यथाय़ोगं पूजय़ित्वा नरर्षभः |
५ क
वैशम्पाय़न उवाच:
दिदेश तान्यनीकानि प्रय़ाणाय़ महीपतिः ||
५ ख
वैशम्पाय़न उवाच:
अभिमन्युं वृहन्तं च द्रौपदेय़ांश्च सर्वशः |
६ क
वैशम्पाय़न उवाच:
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ||
६ ख
वैशम्पाय़न उवाच:
भीमं च युय़ुधानं च पाण्डवं च धनञ्जय़म् |
७ क
वैशम्पाय़न उवाच:
द्वितीय़ं प्रेषय़ामास वलस्कन्धं युधिष्ठिरः ||
७ ख
वैशम्पाय़न उवाच:
भाण्डं समारोपय़तां चरतां सम्प्रधावताम् |
८ क
वैशम्पाय़न उवाच:
हृष्टानां तत्र योधानां शव्दो दिवमिवास्पृशत् ||
८ ख
वैशम्पाय़न उवाच:
स्वय़मेव ततः पश्चाद्विराटद्रुपदान्वितः |
९ क
वैशम्पाय़न उवाच:
तथान्यैः पृथिवीपालैः सह प्राय़ान्महीपतिः ||
९ ख
वैशम्पाय़न उवाच:
भीमधन्वाय़नी सेना धृष्टद्युम्नपुरस्कृता |
१० क
वैशम्पाय़न उवाच:
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ||
१० ख
वैशम्पाय़न उवाच:
ततः पुनरनीकानि व्ययोजय़त वुद्धिमान् |
११ क
वैशम्पाय़न उवाच:
मोहय़न्धृतराष्ट्रस्य पुत्राणां वुद्धिनिस्रवम् ||
११ ख
वैशम्पाय़न उवाच:
द्रौपदेय़ान्महेष्वासानभिमन्युं च पाण्डवः |
१२ क
वैशम्पाय़न उवाच:
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ||
१२ ख
वैशम्पाय़न उवाच:
दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः |
१३ क
वैशम्पाय़न उवाच:
अय़ुतं च पदातीनां रथाः पञ्चशतास्तथा ||
१३ ख
वैशम्पाय़न उवाच:
भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्वलम् |
१४ क
वैशम्पाय़न उवाच:
मध्यमे तु विराटं च जय़त्सेनं च मागधम् ||
१४ ख
वैशम्पाय़न उवाच:
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ |
१५ क
वैशम्पाय़न उवाच:
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ |
१५ ख
वैशम्पाय़न उवाच:
अन्वय़ातां ततो मध्ये वासुदेवधनञ्जय़ौ ||
१५ ग
वैशम्पाय़न उवाच:
वभूवुरतिसंरव्धाः कृतप्रहरणा नराः |
१६ क
वैशम्पाय़न उवाच:
तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः ||
१६ ख
वैशम्पाय़न उवाच:
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः |
१७ क
वैशम्पाय़न उवाच:
पदातय़श्च ये शूराः कार्मुकासिगदाधराः |
१७ ख
वैशम्पाय़न उवाच:
सहस्रशोऽन्वय़ुः पश्चादग्रतश्च सहस्रशः ||
१७ ग
वैशम्पाय़न उवाच:
युधिष्ठिरो यत्र सैन्ये स्वय़मेव वलार्णवे |
१८ क
वैशम्पाय़न उवाच:
तत्र ते पृथिवीपाला भूय़िष्ठं पर्यवस्थिताः ||
१८ ख
वैशम्पाय़न उवाच:
तत्र नागसहस्राणि हय़ानामय़ुतानि च |
१९ क
वैशम्पाय़न उवाच:
तथा रथसहस्राणि पदातीनां च भारत |
१९ ख
वैशम्पाय़न उवाच:
यदाश्रित्याभिय़ुय़ुधे धार्तराष्ट्रं सुय़ोधनम् ||
१९ ग
वैशम्पाय़न उवाच:
ततोऽन्ये शतशः पश्चात्सहस्राय़ुतशो नराः |
२० क
वैशम्पाय़न उवाच:
नदन्तः प्रय़युस्तेषामनीकानि सहस्रशः ||
२० ख
वैशम्पाय़न उवाच:
तत्र भेरीसहस्राणि शङ्खानामय़ुतानि च |
२१ क
वैशम्पाय़न उवाच:
वादय़न्ति स्म संहृष्टाः सहस्राय़ुतशो नराः ||
२१ ख