chevron_left वन पर्व अध्याय १९८
व्याध उवाच:
न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते ||
४७ ख
व्याध उवाच:
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते |
४८ क
व्याध उवाच:
नैतत्कुर्यां पुनरिति द्वितीय़ात्परिमुच्यते ||
४८ ख
व्याध उवाच:
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम |
४९ क
व्याध उवाच:
एवं श्रुतिरिय़ं व्रह्मन्धर्मेषु परिदृश्यते ||
४९ ख
व्याध उवाच:
पापान्यवुद्ध्वेह पुरा कृतानि; प्राग्धर्मशीलो विनिहन्ति पश्चात् |
५० क
व्याध उवाच:
धर्मो व्रह्मन्नुदते पूरुषाणां; यत्कुर्वते पापमिह प्रमादात् ||
५० ख
व्याध उवाच:
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः |
५१ क
व्याध उवाच:
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूय़कः ||
५१ ख
व्याध उवाच:
वसनस्येव छिद्राणि साधूनां विवृणोति यः |
५२ क
व्याध उवाच:
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते |
५२ ख
व्याध उवाच:
मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ||
५२ ग
व्याध उवाच:
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति |
५३ क
व्याध उवाच:
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ||
५३ ख
व्याध उवाच:
पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम |
५४ क
व्याध उवाच:
लुव्धाः पापं व्यवस्यन्ति नरा नातिवहुश्रुताः |
५४ ख
व्याध उवाच:
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ||
५४ ग
व्याध उवाच:
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः |
५५ क
व्याध उवाच:
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ||
५५ ख
मार्कण्डेय़ उवाच:
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत |
५६ क
मार्कण्डेय़ उवाच:
शिष्टाचारं कथमहं विद्यामिति नरोत्तम |
५६ ख
मार्कण्डेय़ उवाच:
एतन्महामते व्याध प्रव्रवीहि यथातथम् ||
५६ ग
व्याध उवाच:
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम |
५७ क
व्याध उवाच:
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ||
५७ ख
व्याध उवाच:
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् |
५८ क
व्याध उवाच:
धर्म इत्येव सन्तुष्टास्ते शिष्टाः शिष्टसंमताः ||
५८ ख
व्याध उवाच:
न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्याय़शीलिनाम् |
५९ क
व्याध उवाच:
आचारपालनं चैव द्वितीय़ं शिष्टलक्षणम् ||
५९ ख
व्याध उवाच:
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च |
६० क
व्याध उवाच:
एतच्चतुष्टय़ं व्रह्मञ्शिष्टाचारेषु नित्यदा ||
६० ख
व्याध उवाच:
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः |
६१ क
व्याध उवाच:
यामय़ं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ||
६१ ख
व्याध उवाच:
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः |
६२ क
व्याध उवाच:
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ||
६२ ख
व्याध उवाच:
ये तु धर्ममसूय़न्ते वुद्धिमोहान्विता नराः |
६३ क
व्याध उवाच:
अपथा गच्छतां तेषामनुय़ातापि पीड्यते ||
६३ ख
व्याध उवाच:
ये तु शिष्टाः सुनिय़ताः श्रुतित्यागपराय़णाः |
६४ क
व्याध उवाच:
धर्म्यं पन्थानमारूढाः सत्यधर्मपराय़णाः ||
६४ ख
व्याध उवाच:
निय़च्छन्ति परां वुद्धिं शिष्टाचारान्विता नराः |
६५ क
व्याध उवाच:
उपाध्याय़मते युक्ताः स्थित्या धर्मार्थदर्शिनः ||
६५ ख
व्याध उवाच:
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् |
६६ क
व्याध उवाच:
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ||
६६ ख
व्याध उवाच:
कामलोभग्रहाकीर्णां पञ्चेन्द्रिय़जलां नदीम् |
६७ क
व्याध उवाच:
नावं धृतिमय़ीं कृत्वा जन्मदुर्गाणि सन्तर ||
६७ ख
व्याध उवाच:
क्रमेण सञ्चितो धर्मो वुद्धिय़ोगमय़ो महान् |
६८ क
व्याध उवाच:
शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ||
६८ ख
व्याध उवाच:
अहिंसा सत्यवचनं सर्वभूतहितं परम् |
६९ क
व्याध उवाच:
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः |
६९ ख
व्याध उवाच:
सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तय़ः ||
६९ ग
व्याध उवाच:
सत्यमेव गरीय़स्तु शिष्टाचारनिषेवितम् |
७० क
व्याध उवाच:
आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ||
७० ख
व्याध उवाच:
यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते |
७१ क
व्याध उवाच:
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ||
७१ ख
व्याध उवाच:
आरम्भो न्याय़युक्तो यः स हि धर्म इति स्मृतः |
७२ क
व्याध उवाच:
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ||
७२ ख
व्याध उवाच:
अक्रुध्यन्तोऽनसूय़न्तो निरहङ्कारमत्सराः |
७३ क
व्याध उवाच:
ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते ||
७३ ख
व्याध उवाच:
त्रैविद्यवृद्धाः शुचय़ो वृत्तवन्तो मनस्विनः |
७४ क
व्याध उवाच:
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ||
७४ ख
व्याध उवाच:
तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् |
७५ क
व्याध उवाच:
स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति ||
७५ ख
व्याध उवाच:
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् |
७६ क
व्याध उवाच:
धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ||
७६ ख
व्याध उवाच:
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः |
७७ क
व्याध उवाच:
श्रुतवृत्तोपसम्पन्नाः ते सन्तः स्वर्गगामिनः ||
७७ ख
व्याध उवाच:
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः |
७८ क
व्याध उवाच:
शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ||
७८ ख
व्याध उवाच:
पारणं चापि विद्यानां तीर्थानामवगाहनम् |
७९ क
व्याध उवाच:
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ||
७९ ख
व्याध उवाच:
सर्वभूतदय़ावन्तो अहिंसानिरताः सदा |
८० क
व्याध उवाच:
परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रिय़ाः ||
८० ख
व्याध उवाच:
शुभानामशुभानां च कर्मणां फलसञ्चय़े |
८१ क
व्याध उवाच:
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ||
८१ ख
व्याध उवाच:
न्याय़ोपेता गुणोपेताः सर्वलोकहितैषिणः |
८२ क
व्याध उवाच:
सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ||
८२ ख
व्याध उवाच:
दातारः संविभक्तारो दीनानुग्रहकारिणः |
८३ क
व्याध उवाच:
सर्वभूतदय़ावन्तस्ते शिष्टाः शिष्टसंमताः ||
८३ ख
व्याध उवाच:
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः |
८४ क
व्याध उवाच:
दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रिय़म् ||
८४ ख
व्याध उवाच:
पीडय़ा च कलत्रस्य भृत्यानां च समाहिताः |
८५ क
व्याध उवाच:
अतिशक्त्या प्रय़च्छन्ति सन्तः सद्भिः समागताः ||
८५ ख
व्याध उवाच:
लोकय़ात्रां च पश्यन्तो धर्ममात्महितानि च |
८६ क
व्याध उवाच:
एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ||
८६ ख
व्याध उवाच:
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् |
८७ क
व्याध उवाच:
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ||
८७ ख
व्याध उवाच:
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः |
८८ क
व्याध उवाच:
अकामद्वेषसंय़ुक्तास्ते सन्तो लोकसत्कृताः ||
८८ ख
व्याध उवाच:
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् |
८९ क
व्याध उवाच:
न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ||
८९ ख
व्याध उवाच:
सर्वत्र च दय़ावन्तः सन्तः करुणवेदिनः |
९० क
व्याध उवाच:
गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् |
९० ख
व्याध उवाच:
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ||
९० ग
व्याध उवाच:
अनसूय़ा क्षमा शान्तिः सन्तोषः प्रिय़वादिता |
९१ क
व्याध उवाच:
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ||
९१ ख
व्याध उवाच:
कर्मणा श्रुतसम्पन्नं सतां मार्गमनुत्तमम् |
९२ क
व्याध उवाच:
शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ||
९२ ख
व्याध उवाच:
प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् |
९३ क
व्याध उवाच:
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम |
९३ ख
व्याध उवाच:
अतिपुण्यानि पापानि तानि द्विजवरोत्तम ||
९३ ग
व्याध उवाच:
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् |
९४ क