chevron_left आदि पर्व अध्याय १९८
धृतराष्ट्र उवाच:
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः |
१ क
धृतराष्ट्र उवाच:
हितं परमकं वाक्यं त्वं च सत्यं व्रवीषि माम् ||
१ ख
धृतराष्ट्र उवाच:
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः |
२ क
धृतराष्ट्र उवाच:
तथैव धर्मतः सर्वे मम पुत्रा न संशय़ः ||
२ ख
धृतराष्ट्र उवाच:
यथैव मम पुत्राणामिदं राज्यं विधीय़ते |
३ क
धृतराष्ट्र उवाच:
तथैव पाण्डुपुत्राणामिदं राज्यं न संशय़ः ||
३ ख
धृतराष्ट्र उवाच:
क्षत्तरानय़ गच्छैतान्सह मात्रा सुसत्कृतान् |
४ क
धृतराष्ट्र उवाच:
तय़ा च देवरूपिण्या कृष्णय़ा सह भारत ||
४ ख
धृतराष्ट्र उवाच:
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा |
५ क
धृतराष्ट्र उवाच:
दिष्ट्या द्रुपदकन्यां च लव्धवन्तो महारथाः ||
५ ख
धृतराष्ट्र उवाच:
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः |
६ क
धृतराष्ट्र उवाच:
दिष्ट्या मम परं दुःखमपनीतं महाद्युते ||
६ ख
वैशम्पाय़न उवाच:
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् |
७ क
वैशम्पाय़न उवाच:
सकाशं यज्ञसेनस्य पाण्डवानां च भारत ||
७ ख
वैशम्पाय़न उवाच:
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः |
८ क
वैशम्पाय़न उवाच:
द्रुपदं न्याय़तो राजन्संय़ुक्तमुपतस्थिवान् ||
८ ख
वैशम्पाय़न उवाच:
स चापि प्रतिजग्राह धर्मेण विदुरं ततः |
९ क
वैशम्पाय़न उवाच:
चक्रतुश्च यथान्याय़ं कुशलप्रश्नसंविदम् ||
९ ख
वैशम्पाय़न उवाच:
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत |
१० क
वैशम्पाय़न उवाच:
स्नेहात्परिष्वज्य स तान्पप्रच्छानामय़ं ततः ||
१० ख
वैशम्पाय़न उवाच:
तैश्चाप्यमितवुद्धिः स पूजितोऽथ यथाक्रमम् |
११ क
वैशम्पाय़न उवाच:
वचनाद्धृतराष्ट्रस्य स्नेहय़ुक्तं पुनः पुनः ||
११ ख
वैशम्पाय़न उवाच:
पप्रच्छानामय़ं राजंस्ततस्तान्पाण्डुनन्दनान् |
१२ क
वैशम्पाय़न उवाच:
प्रददौ चापि रत्नानि विविधानि वसूनि च ||
१२ ख
वैशम्पाय़न उवाच:
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते |
१३ क
वैशम्पाय़न उवाच:
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ||
१३ ख
वैशम्पाय़न उवाच:
प्रोवाच चामितमतिः प्रश्रितं विनय़ान्वितः |
१४ क
वैशम्पाय़न उवाच:
द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ||
१४ ख
वैशम्पाय़न उवाच:
राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम |
१५ क
वैशम्पाय़न उवाच:
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सवान्धवः ||
१५ ख
वैशम्पाय़न उवाच:
अव्रवीत्कुशलं राजन्प्रीय़माणः पुनः पुनः |
१६ क
वैशम्पाय़न उवाच:
प्रीतिमांस्ते दृढं चापि सम्वन्धेन नराधिप ||
१६ ख
वैशम्पाय़न उवाच:
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः |
१७ क
वैशम्पाय़न उवाच:
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ||
१७ ख
वैशम्पाय़न उवाच:
भारद्वाजो महेष्वासो द्रोणः प्रिय़सखस्तव |
१८ क
वैशम्पाय़न उवाच:
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ||
१८ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च पाञ्चाल्य त्वय़ा सम्वन्धमीय़िवान् |
१९ क
वैशम्पाय़न उवाच:
कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ||
१९ ख
वैशम्पाय़न उवाच:
न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता |
२० क
वैशम्पाय़न उवाच:
यथा सम्वन्धकं प्राप्य यज्ञसेन त्वय़ा सह ||
२० ख
वैशम्पाय़न उवाच:
एतद्विदित्वा तु भवान्प्रस्थापय़तु पाण्डवान् |
२१ क
वैशम्पाय़न उवाच:
द्रष्टुं हि पाण्डुदाय़ादांस्त्वरन्ते कुरवो भृशम् ||
२१ ख
वैशम्पाय़न उवाच:
विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः |
२२ क
वैशम्पाय़न उवाच:
उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ||
२२ ख
वैशम्पाय़न उवाच:
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रिय़ः |
२३ क
वैशम्पाय़न उवाच:
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषय़ं च नः ||
२३ ख
वैशम्पाय़न उवाच:
स भवान्पाण्डुपुत्राणामाज्ञापय़तु माचिरम् |
२४ क
वैशम्पाय़न उवाच:
गमनं सहदाराणामेतदागमनं मम ||
२४ ख
वैशम्पाय़न उवाच:
विसृष्टेषु त्वय़ा राजन्पाण्डवेषु महात्मसु |
२५ क
वैशम्पाय़न उवाच:
ततोऽहं प्रेषय़िष्यामि धृतराष्ट्रस्य शीघ्रगान् |
२५ ख
वैशम्पाय़न उवाच:
आगमिष्यन्ति कौन्तेय़ाः कुन्ती च सह कृष्णय़ा ||
२५ ग