मनुरु उवाच:
ज्ञानं ज्ञेय़ाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः |
१ क
मनुरु उवाच:
प्रज्ञाकरणसंय़ुक्तं ततो वुद्धिः प्रवर्तते ||
१ ख
मनुरु उवाच:
यदा कर्मगुणोपेता वुद्धिर्मनसि वर्तते |
२ क
मनुरु उवाच:
तदा प्रज्ञाय़ते व्रह्म ध्यानय़ोगसमाधिना ||
२ ख
मनुरु उवाच:
सेय़ं गुणवती वुद्धिर्गुणेष्वेवाभिवर्तते |
३ क
मनुरु उवाच:
अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम् ||
३ ख
मनुरु उवाच:
यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् |
४ क
मनुरु उवाच:
तदा प्रज्ञाय़ते व्रह्म निकष्यं निकषे यथा ||
४ ख
मनुरु उवाच:
मनस्त्वपहृतं वुद्धिमिन्द्रिय़ार्थनिदर्शनम् |
५ क
मनुरु उवाच:
न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम् ||
५ ख
मनुरु उवाच:
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः |
६ क
मनुरु उवाच:
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते ||
६ ख
मनुरु उवाच:
यथा महान्ति भूतानि निवर्तन्ते गुणक्षय़े |
७ क
मनुरु उवाच:
तथेन्द्रिय़ाण्युपादाय़ वुद्धिर्मनसि वर्तते ||
७ ख
मनुरु उवाच:
यदा मनसि सा वुद्धिर्वर्ततेऽन्तरचारिणी |
८ क
मनुरु उवाच:
व्यवसाय़गुणोपेता तदा सम्पद्यते मनः ||
८ ख
मनुरु उवाच:
गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः |
९ क
मनुरु उवाच:
तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते ||
९ ख
मनुरु उवाच:
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् |
१० क
मनुरु उवाच:
यत्र नास्ति पदन्यासः कस्तं विषय़माप्नुय़ात् ||
१० ख
मनुरु उवाच:
तपसा चानुमानेन गुणैर्जात्या श्रुतेन च |
११ क
मनुरु उवाच:
निनीषेत्तत्परं व्रह्म विशुद्धेनान्तरात्मना ||
११ ख
मनुरु उवाच:
गुणहीनो हि तं मार्गं वहिः समनुवर्तते |
१२ क
मनुरु उवाच:
गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेय़संमितम् ||
१२ ख
मनुरु उवाच:
नैर्गुण्याद्व्रह्म चाप्नोति सगुणत्वान्निवर्तते |
१३ क
मनुरु उवाच:
गुणप्रसारिणी वुद्धिर्हुताशन इवेन्धने ||
१३ ख
मनुरु उवाच:
यथा पञ्च विमुक्तानि इन्द्रिय़ाणि स्वकर्मभिः |
१४ क
मनुरु उवाच:
तथा तत्परमं व्रह्म विमुक्तं प्रकृतेः परम् ||
१४ ख
मनुरु उवाच:
एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः |
१५ क
मनुरु उवाच:
निवर्तन्ते निवृत्तौ च सर्गं नैवोपय़ान्ति च ||
१५ ख
मनुरु उवाच:
पुरुषः प्रकृतिर्वुद्धिर्विशेषाश्चेन्द्रिय़ाणि च |
१६ क
मनुरु उवाच:
अहङ्कारोऽभिमानश्च सम्भूतो भूतसञ्ज्ञकः ||
१६ ख
मनुरु उवाच:
एकस्याद्या प्रवृत्तिस्तु प्रधानात्सम्प्रवर्तते |
१७ क
मनुरु उवाच:
द्वितीय़ा मिथुनव्यक्तिमविशेषान्निय़च्छति ||
१७ ख
मनुरु उवाच:
धर्मादुत्कृष्यते श्रेय़स्तथाश्रेय़ोऽप्यधर्मतः |
१८ क
मनुरु उवाच:
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत् ||
१८ ख