chevron_left वन पर्व अध्याय १९८
मार्कण्डेय़ उवाच:
चिन्तय़ित्वा तदाश्चर्यं स्त्रिय़ा प्रोक्तमशेषतः |
१ क
मार्कण्डेय़ उवाच:
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवावभौ ||
१ ख
मार्कण्डेय़ उवाच:
चिन्तय़ानः स धर्मस्य सूक्ष्मां गतिमथाव्रवीत् |
२ क
मार्कण्डेय़ उवाच:
श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ||
२ ख
मार्कण्डेय़ उवाच:
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल |
३ क
मार्कण्डेय़ उवाच:
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ||
३ ख
मार्कण्डेय़ उवाच:
इति सञ्चिन्त्य मनसा श्रद्दधानः स्त्रिय़ा वचः |
४ क
मार्कण्डेय़ उवाच:
वलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः |
४ ख
मार्कण्डेय़ उवाच:
सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः ||
४ ग
मार्कण्डेय़ उवाच:
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च |
५ क
मार्कण्डेय़ उवाच:
ततो जगाम मिथिलां जनकेन सुरक्षिताम् ||
५ ख
मार्कण्डेय़ उवाच:
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् |
६ क
मार्कण्डेय़ उवाच:
गोपुराट्टालकवतीं गृहप्राकारशोभिताम् ||
६ ख
मार्कण्डेय़ उवाच:
प्रविश्य स पुरीं रम्यां विमानैर्वहुभिर्वृताम् |
७ क
मार्कण्डेय़ उवाच:
पण्यैश्च वहुभिर्युक्तां सुविभक्तमहापथाम् ||
७ ख
मार्कण्डेय़ उवाच:
अश्वै रथैस्तथा नागैर्यानैश्च वहुभिर्वृताम् |
८ क
मार्कण्डेय़ उवाच:
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ||
८ ख
मार्कण्डेय़ उवाच:
सोऽपश्यद्वहुवृत्तान्तां व्राह्मणः समतिक्रमन् |
९ क
मार्कण्डेय़ उवाच:
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ||
९ ख
मार्कण्डेय़ उवाच:
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् |
१० क
मार्कण्डेय़ उवाच:
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् |
१० ख
मार्कण्डेय़ उवाच:
आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ||
१० ग
मार्कण्डेय़ उवाच:
स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः |
११ क
मार्कण्डेय़ उवाच:
आजगाम यतो विप्रः स्थित एकान्त आसने ||
११ ख
व्याध उवाच:
अभिवादय़े त्वा भगवन्स्वागतं ते द्विजोत्तम |
१२ क
व्याध उवाच:
अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ||
१२ ख
व्याध उवाच:
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति |
१३ क
व्याध उवाच:
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ||
१३ ख
मार्कण्डेय़ उवाच:
श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः |
१४ क
मार्कण्डेय़ उवाच:
द्वितीय़मिदमाश्चर्यमित्यचिन्तय़त द्विजः ||
१४ ख
मार्कण्डेय़ उवाच:
अदेशस्थं हि ते स्थानमिति व्याधोऽव्रवीद्द्विजम् |
१५ क
मार्कण्डेय़ उवाच:
गृहं गच्छाव भगवन्यदि रोचय़सेऽनघ ||
१५ ख
मार्कण्डेय़ उवाच:
वाढमित्येव संहृष्टो विप्रो वचनमव्रवीत् |
१६ क
मार्कण्डेय़ उवाच:
अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ||
१६ ख
मार्कण्डेय़ उवाच:
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः |
१७ क
मार्कण्डेय़ उवाच:
पाद्यमाचमनीय़ं च प्रतिगृह्य द्विजोत्तमः ||
१७ ख
मार्कण्डेय़ उवाच:
ततः सुखोपविष्टस्तं व्याधं वचनमव्रवीत् |
१८ क
मार्कण्डेय़ उवाच:
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे |
१८ ख
मार्कण्डेय़ उवाच:
अनुतप्ये भृशं तात तव घोरेण कर्मणा ||
१८ ग
व्याध उवाच:
कुलोचितमिदं कर्म पितृपैतामहं मम |
१९ क
व्याध उवाच:
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ||
१९ ख
व्याध उवाच:
धात्रा तु विहितं पूर्वं कर्म स्वं पालय़ाम्यहम् |
२० क
व्याध उवाच:
प्रय़त्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ||
२० ख
व्याध उवाच:
सत्यं वदे नाभ्यसूय़े यथाशक्ति ददामि च |
२१ क
व्याध उवाच:
देवतातिथिभृत्यानामवशिष्टेन वर्तय़े ||
२१ ख
व्याध उवाच:
न कुत्सय़ाम्यहं किञ्चिन्न गर्हे वलवत्तरम् |
२२ क
व्याध उवाच:
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ||
२२ ख
व्याध उवाच:
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् |
२३ क
व्याध उवाच:
दण्डनीतिस्त्रय़ी विद्या तेन लोका भवन्त्युत ||
२३ ख
व्याध उवाच:
कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिय़े स्मृतः |
२४ क
व्याध उवाच:
व्रह्मचर्यं तपो मन्त्राः सत्यं च व्राह्मणे सदा ||
२४ ख
व्याध उवाच:
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः |
२५ क
व्याध उवाच:
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ||
२५ ख
व्याध उवाच:
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते |
२६ क
व्याध उवाच:
मारय़न्ति विकर्मस्थं लुव्धा मृगमिवेषुभिः ||
२६ ख
व्याध उवाच:
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते |
२७ क
व्याध उवाच:
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ||
२७ ख
व्याध उवाच:
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् |
२८ क
व्याध उवाच:
दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ||
२८ ख
व्याध उवाच:
सुय़ुक्तचारो नृपतिः सर्वं धर्मेण पश्यति |
२९ क
व्याध उवाच:
श्रीश्च राज्यं च दण्डश्च क्षत्रिय़ाणां द्विजोत्तम ||
२९ ख
व्याध उवाच:
राजानो हि स्वधर्मेण श्रिय़मिच्छन्ति भूय़सीम् |
३० क
व्याध उवाच:
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ||
३० ख
व्याध उवाच:
परेण हि हतान्व्रह्मन्वराहमहिषानहम् |
३१ क
व्याध उवाच:
न स्वय़ं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ||
३१ ख
व्याध उवाच:
न भक्षय़ामि मांसानि ऋतुगामी तथा ह्यहम् |
३२ क
व्याध उवाच:
सदोपवासी च तथा नक्तभोजी तथा द्विज ||
३२ ख
व्याध उवाच:
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् |
३३ क
व्याध उवाच:
प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ||
३३ ख
व्याध उवाच:
व्यभिचारान्नरेन्द्राणां धर्मः सङ्कीर्यते महान् |
३४ क
व्याध उवाच:
अधर्मो वर्धते चापि सङ्कीर्यन्ते तथा प्रजाः ||
३४ ख
व्याध उवाच:
उरुण्डा वामनाः कुव्जाः स्थूलशीर्षास्तथैव च |
३५ क
व्याध उवाच:
क्लीवाश्चान्धाश्च जाय़न्ते वधिरा लम्वचूचुकाः |
३५ ख
व्याध उवाच:
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ||
३५ ग
व्याध उवाच:
स एष राजा जनकः सर्वं धर्मेण पश्यति |
३६ क
व्याध उवाच:
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ||
३६ ख
व्याध उवाच:
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः |
३७ क
व्याध उवाच:
सर्वान्सुपरिणीतेन कर्मणा तोषय़ाम्यहम् ||
३७ ख
व्याध उवाच:
ये जीवन्ति स्वधर्मेण सम्भुञ्जन्ते च पार्थिवाः |
३८ क
व्याध उवाच:
न किञ्चिदुपजीवन्ति दक्षा उत्थानशीलिनः ||
३८ ख
व्याध उवाच:
शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता |
३९ क
व्याध उवाच:
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दय़ा |
३९ ख
व्याध उवाच:
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ||
३९ ग
व्याध उवाच:
मृषावादं परिहरेत्कुर्यात्प्रिय़मय़ाचितः |
४० क
व्याध उवाच:
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ||
४० ख
व्याध उवाच:
प्रिय़े नातिभृशं हृष्येदप्रिय़े न च सञ्ज्वरेत् |
४१ क
व्याध उवाच:
न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ||
४१ ख
व्याध उवाच:
कर्म चेत्किञ्चिदन्यत्स्यादितरन्न समाचरेत् |
४२ क
व्याध उवाच:
यत्कल्याणमभिध्याय़ेत्तत्रात्मानं निय़ोजय़ेत् ||
४२ ख
व्याध उवाच:
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् |
४३ क
व्याध उवाच:
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ||
४३ ख
व्याध उवाच:
कर्म चैतदसाधूनां वृजिनानामसाधुवत् |
४४ क
व्याध उवाच:
न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये |
४४ ख
व्याध उवाच:
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशय़ः ||
४४ ग
व्याध उवाच:
महादृतिरिवाध्मातः पापो भवति नित्यदा |
४५ क
व्याध उवाच:
मूढानामवलिप्तानामसारं भाषितं भवेत् |
४५ ख
व्याध उवाच:
दर्शय़त्यन्तरात्मानं दिवा रूपमिवांशुमान् ||
४५ ग
व्याध उवाच:
न लोके राजते मूर्खः केवलात्मप्रशंसय़ा |
४६ क
व्याध उवाच:
अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ||
४६ ख
व्याध उवाच:
अव्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णय़न् |
४७ क